________________
सादर्श:
(१५६)
[विशेषकाण्डेत्वादे ह्मणत्वाद्यऽन्यूनवृत्तित्वात् तदवच्छिन्नोद्देश्यकत्वेन ज्ञानविषयकेच्छायास्त: त्राऽप्रतीते।
एवं यत्रोदेश्यतावच्छेदके किंपदार्थस्याऽभेदान्वयस्तत्र तदन्वयितावच्छेदकधर्मावच्छिन्ने विशेषणतापन्नतदन्वयितावच्छेदकधर्मन्यूनवृत्तिधर्मावच्छिन्नोद्देश्य: तावच्छेदकताकप्रकृतविधेयज्ञानगोचरेच्छा किंपदेन वोध्यते एवं च प्रकृतसत्तानिष्ठविधेयतानिरूपितवटवृत्युद्देश्यतावच्छेदकतानिरूपितसंख्यात्वन्यूनवृत्तिधर्मनिष्ठावच्छेदकत्वेन जिज्ञासितो यो धर्मस्तद्वान् किंपदार्थः, अतः 'कति घटाः सन्ति' इत्यादौ डतिप्रत्ययार्थसंख्यादौ किंपदार्थस्य जिज्ञासितधर्मावच्छिन्नस्याऽभेदेनाऽन्वयात् संख्यात्वन्यूनवृत्तिदशत्वत्वाद्यवच्छिन्नोद्देश्यतावच्छेदकताकबोधजनकम् ‘दशसंख्याका घटाः सन्ति' इत्याद्युत्तरं प्रयुज्यते । ब्राह्मणत्वे स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मो ब्राह्मणत्वं तदपेक्षया न्यूनवृत्तिर्यो 'धर्मश्चैत्रवादि तदवच्छिन्ने शक्तिस्वीकारात् 'को ब्राह्मणः पचति' इत्यादिप्रश्नानन्तरम् "चैत्रः पचति इत्याद्याकारकमेवोत्तरं प्रयुज्यते न तु 'मनुष्यः पचति' इत्याद्याकारकं मनुष्यत्वादिधर्माण ब्राह्मणत्वादिधर्मापेक्षया न्यूनवृत्तित्वाभावात् तदवन्छिनोद्देश्यकत्वेन मनुष्यत्वाद्यवच्छिन्नोद्देश्यकत्वेन रूपेण जिज्ञासायास्तत्र='को ब्राह्मणः पचति' इत्यादिप्रश्नस्थले प्रतीत्यभावादित्यर्थः । __ अभेदेनोद्देश्यतावच्छेदकान्चितकिपदार्थबोधककिंयदस्यार्थमाह-एवमिति, तदन्ययितावच्छेदकधर्मावच्छिन्ने किंपदार्थान्वयितावच्छेदको यो धर्मस्तदवच्छिन्ने विशेषणतापन्नो यम्दन्वयितावच्छेदकधर्मस्तदपेक्षया न्यूनवृत्तियों धर्मस्तदवच्छिन्ना उद्देश्यतावच्छेदकता यस्य यस्मिन् वा तादृशं यत्प्रकृ. तविधेयविषयकं ज्ञानं तादृशज्ञानगोचरेच्छा किंपदेन तत्र बोध्यते इत्यन्वयः। समन्वयमाह-एवं चेति, 'कति घटाः सन्ति' इत्यत्रोद्देश्यो घट उद्देश्यतावच्छेदकं च डतिप्रत्ययार्यभूता द्वित्वादिरूपासंख्या तादशसंख्यायामेव किंपदार्थस्य जिज्ञासितधर्मावच्छिन्नस्य : जिज्ञासितम्य अभेदेनान्वयोम्तीत्यत्र तदन्वयितावच्छेदकधर्म:=किंपदार्थान्वयितावच्छेदकधर्मः संख्यात्वं तदच्छिन्नायां संख्यायां विशेषणतापन्नो यस्तदन्वयितावच्छेदकधर्म:-किंपदार्थान्त्रयितावच्छेदकधर्मः संग्ल्यान्वं तन्यूनवृ. तिधर्मो द्वित्वत्वं त्रित्वत्वं दशवत्वमित्यादिकं तदवच्छिन्ना या द्विन्यत्रित्वादिसंख्यानिष्टोद्देश्यनारच्छेदकता तादृशोद्देश्यतावच्छेदकताकं यत् प्रकृतसत्तारूपविधेयविषयकं ज्ञानं तादशज्ञानगोचरेच्छा-संख्याविषयकज्ञानगोचरेच्छा किंपदेनात्र वोध्यते इति प्रकृतसत्तानिष्ठा या विधेयता तन्निरूपिता या घटवृत्त्युद्देश्यता तादृशोद्देश्यताया या संख्यानिष्ठाऽवच्छेदकता तादृशावच्छेदकतानिरूपितं यत् संख्यात्यन्यूनवृत्तिद्वित्वत्वत्रिवत्वदशत्वत्वादिधर्मनिष्ठमवच्छेदकत्वम् उद्देश्यतावच्छेदकतावच्छेदकत्वं तेन रूपेण नाम संख्यात्वन्यूनवृत्तिधर्मनिष्टोद्देश्यतावच्छेदकतावच्छेदकत्वेन रूपेण जिज्ञा. सितो यो धर्मो द्वित्वत्वदशत्वत्वादिधर्मस्तद्वानन किंपदार्थ इति 'कति घटाः सन्ति' इत्यादिप्रश्नाता संख्या त्वन्यूनवृत्तिद शत्वत्वादिधर्मावच्छिन्ना या दशत्वादिसंख्यानिष्टोद्देश्यतावच्छेदकता