________________
( १९५२ )
सादर्श:
[ विशेषकाण्डे - वच्छिन्ना उपक्रान्ताः प्रत्येकं तावद्धर्मावच्छिन्नेषु सर्वपदस्य शक्तयन्तरमङ्गीकामू, उपक्रान्तैकधर्मावच्छिन्नान्वययोग्यताविरहे वाक्यस्याप्रामाण्यात् तादृशस्थले तथाविधसकलधर्माणामेवाऽन्वयितावच्छेदकतया माननियमः, तन्निर्वाहिका च' तथाविधयावद्धर्मप्रकारकं बोधं जनयतु सर्वपदम्' इत्याकारकसंकेतरूपा विलक्षणशक्तिरेव तादृशशक्तिज्ञानेनैकधर्मप्रकारकत्रोधजननेऽपरापरतथाविधधर्मप्रकारकबोधसामग्र्याः पुष्पवन्तपदशक्तिज्ञानेन चन्द्रत्वसूर्यत्वयोरेकतरप्रकारकबोधजननेऽपरप्रकारक बोधसामय्या इव प्रयोजकत्वोपगमात् ।
तया = तादृशभोजनत्वावच्छिन्नं यद् भोजनं तदन्विततया यावद्धर्मावच्छिन्ना: यथात्र दवित्वपयस्वतत्वधर्मावच्छिन्ना दध्यादय उपकान्ताः पूर्वमुक्ताः प्रत्येकं तावद्धर्मावच्छिन्नेषु दविपयस्वधर्मावच्छिन्नेषु दध्यादिषु सर्वपदस्यात्र शक्तयन्तरं स्वीकार्यमित्यन्वयः । शक्तिस्वरूपं स्वयमेव वक्ष्यति । उपक्रान्तकेति उपक्रान्तेषु दध्यादिषुमध्ये दधित्वाद्येकधर्मावच्छिन्नस्यापि दध्यादेर्भोजनादावन्वय योग्यता विरहे नाम यद्युपक्रान्तदध्यादिषु मध्ये एकस्यापि पदार्थस्य विष्णुमित्रादौ भोजनादिकर्तृखं बाधितं स्यात्तदा 'विष्णु मित्रः सर्व भुङ्क्ते' इत्यादिसर्वपदघटितवाक्यस्य प्रामाण्यं न भवति - सर्वपदेनोपकान्तसकलपदार्थानामेव परामर्शसंभवादिति तादृशस्थले 'विष्णुमित्रः सर्वम्' इत्यायुक्तस्थले तथाविधसकलधर्माणामेव उपक्रान्तदधित्वादिसकलधर्माणामेवाऽन्त्रयितावच्छेदकतथा माननियमोम्ति - दध्यादीनामुपक्रान्तानां सर्वेषामेव भोजनेऽन्वयाद् दधित्त्रादीनामन्वयितावच्छेदकत्वं प्राप्तमित्यन्वयः । दध्यादीनां भोजनकर्मत्वं पर्यायेण वा स्यादेकदैव वा स्यादित्यन्यदेतत् । उक्तमानप्रयोजकशक्तेः स्वरूपमाह - तथाविधेति, तथाविधयाचद्धर्मप्रकारकम् = उपक्रा-ताशेषधर्मप्रकारकम् । सर्ववदेनात्रोपक्रान्तदधित्वादिसकलधर्मप्रकार कदध्यादिविशेष्यकबोधो जायते इतियावत् । नन्वेता शशक्तिज्ञानेनापि दधित्वादिषु मध्ये एकमात्रधर्मप्रकारकयोवः किं न स्यात् तादृशेकधर्मावच्छिन्नेपि सर्वपदस्य शक्तेः सत्त्वादेवेत्याशङ्कय समाधत्ते - तादृशेति, यथा पुष्पवन्तपदशक्तिज्ञानेन चन्द्रत्वादिधर्मप्रकारकबोधजनने सूर्यत्वादिप्रकारकबोधसामान्याः प्रयोज - कत्वमस्तीति पुष्पवन्तपदेन केवलचन्द्रत्वादिप्रकारकबोधो न जायते किं तु चन्द्रत्वसूर्यवोभयप्रकारकमेवेत्युक्तं तथा प्रकृतेप्येतादृशशक्तिज्ञानेन दधित्वाद्यकधर्मप्रकार कत्रोव जननेऽपरापरतथाविधधर्मप्रकारक बोधसामग्र्याः= पयस्त्वनृतत्वाद्युपक्रान्तयावद्धर्मप्रकारको सामय्याः प्रयोजकत्वोपगमादेतस्थळे सर्व पदेनैकमात्रधर्मप्रकारकदोधापत्तिर्नास्तीत्यन्त्रयः ।
ननु प्रक्रान्तानां दध्यादीनां प्रत्येकं भोजनादावन्त्रये 'विष्णुमित्रो दधि भुङ्क्ते' 'विष्णुमित्रो पयो भुङ्क्ते' 'विष्णुमित्रो घृतं भुङ्क्ते' इत्येवं वाक्यभेदः स्यादेव स चानिष्ट इति सर्वपदस्यात्र साहित्यप्रकारेण दध्यादिपदार्थवाचकत्वं किं नोपेयते नाम दध्यादीनां संमिलितानामेव सर्वपदवाव्यत्वं किं न स्वीक्रियते ? तथा च दध्यादीनां संमिलितानामेव भोजनादावन्त्रयः स्यान्न तु प्रत्येक