________________
सर्वपदम्.] शक्तिवादः।
(१५१) द्वित्वाद्यवच्छिन्नभेदमादायातिप्रसङ्गः । एतादृशोभयधर्मावच्छिन्ने शक्तिरेकैवातो नैकधर्म परित्यज्यापरमादाय बोधः कदाचिदपीति न कतिपयानेकतात्पर्येणाशेषकतात्पर्येण वा सर्वशब्दः प्रयुज्यते।
'चैत्रो दधि भुक्ते, मैत्रः पयो भुङ्क्ते, देवदत्तो घृतं भुङ्क्ते, विष्णुमित्र: सर्वमेव' इत्यादौ सर्वपदेन प्रत्येकं दधिपयोवृतानां भोजनकर्मतया प्रतिपादनाद् यद्रूपावच्छिन्ने पदान्तरोपस्थाप्याथै स्वार्थान्वयस्तद्रूपावच्छिन्नान्विततया यावद्धर्मायभेदो भवति तत्र तत्प्रतियोगितापि भवत्येव घटस्यापि तादृशभेदप्रतियोगित्वादिति तादृशभेदे सामानाधिकरण्यम्=स्वप्रतियोगितासामानाधिकरण्यमपि प्राप्त तादृशप्रतियोगिताया निरूपकत्वात् निरूपकत्वमपि प्राप्तमिति द्वित्वावच्छिन्न प्रतियोगिताकभेदः सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धेन प्रतियोगिताविशिष्टो जातः स चात्र भेदपदेन न ग्राह्यो येन द्वित्वावच्छिन्नभेदमादाय 'सर्व गगनम्' इत्यादिप्रयोगातिप्रसङ्गः स्यात, तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तूक्तसंबन्धद्वयेन प्रतियोगिताविशिष्टो न भवति तत्प्रतियोगिताया अन्यघटादिव्यक्ती सत्त्यात् तस्य चान्य. घटादिव्यक्तौ सत्त्वात. आकाशे च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगित्वस्य बाधात् 'सर्व गगनम्' इतिप्रयोगापत्तिर्नास्तीत्यर्थः । तव्यक्तित्वावच्छिन्न प्रतियोगिताकभेदेपि किंचिद्भेदीयप्रतियोगितासामानाधिकरण्यं केवलमस्त्येव-तादृशमेदाधिकरणवठे स्वभेदप्रतियोगितायाः सत्त्वात्. तथा स्वप्रतियोगितानिरूपकत्वमपि केवलमस्त्येवेत्यभिप्रायेण तद्व्यवच्छेदाय सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धस्य निवेशः कृतः । अत्र 'भेदश्च सामानाधिकरण्यसंबन्धेन स्वप्रतियोगिताविशिष्टान्यो ग्राह्यः इत्यपि साधुः।एतादृशेति-एतादृशोभयधर्मावच्छिन्ने यावत्त्वावच्छिन्नेऽनेकत्वावच्छिन्ने च सर्वपदस्यकैव शक्तिरस्तीति नैकधर्म परित्यज्यापरधर्ममादाय कदाचिदपि सर्वपदजन्यबोधो भवति तथा च कतिपयानेकनीलघटेष्वऽनेकत्वस्य सत्त्वेपि तादृशानेकत्वतात्पर्येण 'सर्वे घटा नीलाः' इतिप्रयोगो न भवति-तत्र यावत्त्वस्याभावात्. तथा गगनेऽशेषत्वरूपोक्तयावत्त्वस्य सत्त्वेपि तादृशयावत्त्वतारर्येण सर्व गगनम्' इतिप्रयोगो न भवति-गगने उक्तानेकत्वस्याभावात्। 'सर्वे घटा रूपवन्तः' इत्यत्र तु घटेष्वनेकत्वमप्यस्ति यावत्त्वमप्यस्तीत्येतादृशस्थले सर्वशब्दः प्रयुज्यते इति न काचिदनुपपत्तिरापत्तिवेत्यर्थः । अनेकत्वयावत्त्वयोरेकशक्तिस्वीकारेण सर्वशब्दस्थानेकार्थत्वापत्तिरपि नास्ति-अनेकशक्तिमत एवानेकार्थत्वस्वीकारादित्यवधेयम् ।
सर्वशब्दस्य व्युत्पत्त्यन्तरमाह-- चैत्र इत्यादिना । 'विष्णुमित्रः सर्व भुङ्क्ते' इत्यत्र सर्वपदेन दधिपयोधूतानामेव भोजनकर्मत्वं प्रतिपाद्यते न तु पदार्थमात्रस्य. तदपि दधिपयोघृतेषु प्रत्येकमेव नाम कदाचित् दधि कदाचित् पयः कदाचित् घृतं कदाचिद् द्वयं कदाचित् त्रितयमपि भुङ्क्ते इति. न तु विष्णुमित्रो यदा भुङ्क्ते तदोक्तदध्यादित्रयमेव भुङ्क्ते इति प्रतिपाद्यते. तथा चात्र यद्रूपावच्छिन्ने=भोजनत्वावच्छिन्ने पदान्तरोपस्थाप्यार्थे=भुजधातूपस्थाप्ये भोजने स्वकर्मकत्वसंबन्धेन स्वार्थान्वयः उक्तदथ्यादिसर्वपदार्थान्वयस्तद्रूपावच्छिन्नान्वित