________________
(१५०)
सादर्श:
[ विशेषकान्डे.. अथ ‘सर्व द्रव्यं न रूपवत्' इत्यादौ द्रव्यत्वादिव्यापकपर्याप्तौ विधेयीभूतरूपपद्मेदव्याप्यत्वस्य बाधितत्वादश्योग्यत्वं दुर्वारमेवेतिचेत् ? न-तत्र विधेयव्याप्यत्वभानानुपगमात, खण्डशो विभिन्नशक्तयुपगमेन क्वचित् तदंशपरित्यागेन. बोधे विरोधविरहा।
'सर्व गगनम्' इत्यादिप्रयोगाभावाद् यावत्त्ववदनेकत्वमपि सर्वपदार्थः, तच्च. स्वार्थाभेदान्वयोद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वमेव । भेदश्च सामानाधिकरण्यनिरूपकत्वोभयसंबन्धेन प्रतियोगिताविशिष्टान्यो ग्राह्योऽतो न
ननु ' सर्वं द्रव्यं न रूपवत् ' इत्यत्र द्रव्यमुद्देश्य रूपवभेदश्च विधेयोस्तीति द्रव्यत्वव्यापकपर्याप्तावुक्तरीत्या विधेयीभूतरूपबद्मेदव्याप्यत्वमपेक्षितमस्ति तन्नोपपद्यते रूपबद्भेदाभावयपि पृथिव्यादौ द्रव्यत्वव्यापकपर्याप्तेः सत्त्वात् . प्रत्युत द्रव्यत्यव्यापकपर्याप्तौ रूपवझेदव्यापकत्वमे. वास्तीत्याशङ्कते- अथेति । परिहरति- नेति, तत्र= सर्व द्रव्यं न रूपवत् । इत्यत्र द्रव्यस्वव्यापकपर्याप्तौ विधेयव्याप्यत्वमानं न स्वीक्रियते इति रूपवद्मेदव्याप्यत्वस्य बाधेपि क्षतिर्नास्तीत्यर्थः । ननूक्तरीत्योदेश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिकयावत्त्वे सर्वपदस्य शक्तिरस्तीति पर्याप्तौ विधेयव्याप्यत्वांशपरित्यागः कथं स्यादित्याशङ्क्याह-खण्डश इति, सर्वपदस्योद्देश्यतावच्छेदकव्यापकपर्याप्तिकयावत्त्वे पृथक् शक्तिरस्ति विधेयव्याप्यपर्याप्तिकयावत्त्वे च पृथक् शक्तिरस्तीति खण्डशो विभिन्नशक्त्युपगमेन कचित्='सर्वं द्रव्यं न रूपवत्' इत्यादौ तदंशपरित्यागेनव्यापकत्वव्याप्यत्वयोर्मध्ये एकांशपरित्यागेनापि बोधे विरोधो नास्तीत्यर्थः ।
सर्वशब्दस्य व्युत्पत्त्यन्तरमाह-सर्वमिति, यदि सर्वशब्दस्यानेकत्वमप्यर्थो न स्यात्तदाऽशेषत्वरूपस्य यावत्त्वस्य गगनेपि संभवात् यावत्त्वपर्याप्तौ च गगनत्वव्यापकत्वस्य शब्दव्याप्यत्वस्य च संभ. वात् ‘सर्व गगनं शब्दवत्' इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो भवतीत्यनेकत्वमपि सर्वपदार्थस्तादृशवक्ष्यमाणस्वरूपस्यानेकत्वस्य चाकाशेऽसंभवात् 'सर्व गगनम्' इत्यादिप्रयोगापत्तिास्तीत्यर्थः । अनेकत्वं परिष्करोति-तच्चेति, स्वार्थस्य सर्वपदार्थस्य योऽभेदान्वयस्तादृशाभेदान्वयस्थ यद् उद्देश्यतावच्छेदकं तत्समानाधिकरणो यो भेदः तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तत्प्रतियोगित्वमेवाऽनेकत्वं गगने च गगनव्यक्त्यन्तरत्वावच्छिन्नप्रतियोगिताको भेदो न संभवतिगगनव्यक्तरेकत्वादिति “सर्व गगनम्' इत्यादिप्रयोगापत्तिर्नास्ति. घटादौ च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको भेदः संभवतीति 'सर्व घटाः' इत्यादिप्रयोग उपपद्यते इत्यर्थः । ननु गगनेपि घटगगनोभयभेदस्य द्वित्वावच्छिन्नप्रतियोगिताकस्य संभवेन तत्प्रतियोगित्वस्य गगनेपि सत्त्वातादृशभेदमादाय 'सर्व गगनम्' इतिप्रयोगापत्तिरस्तीत्याशक्याऽनेकत्वघटकभेदं परिष्करोतिभेदश्चेति, अत्र भेदपदेन सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धेन प्रतियोगिताविशिष्टो यो भेदस्तदन्यो मेदो ग्राह्यः स च तद्वयक्तित्वावच्छिन्न प्रतियोगिताको भवति. उक्तप्रतियोगिताविशिष्टस्तु भेदो द्वित्वावच्छिन्नप्रतियोगिताको भवति तथा हि-यत्र घटे द्वित्वावच्छिन्नप्रतियोगिताको बटपटोभ