________________
---
----
-
---
---
-.
.
.
.
.
सर्वपदम्.]
शक्तिवादः। तदसत्- उक्तरीत्यैवोपपत्तो प्रतियोगितावच्छेदकादिमति तच्छून्यसाधारणव्यासज्यवृत्तिधर्मावच्छेदेनाऽन्योन्याभावादिवृत्तौ मानाभावात् । तादृशाभावोपगमे प्रतिबन्धकसमवहितेपि देशे व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकप्रतिबन्धकाभावबलात् कार्यापत्तेः, तत्र कारणतावच्छेदककोटौ विशेषणान्तरं प्रक्षिप्या- . ऽऽपत्तिवारणे तु गौरवात् ।
यत्त्वित्यादिना प्रदर्शितं परिहरति- तदसदित्यादिना । उक्तरीत्या="द्रव्यत्यव्यापकयावत्त्वसाजानाधिकरण्यमभावस्य प्रतीयते १४६" इत्याद्युक्तरीत्यैव सर्व द्रव्यं न रूपवत' इत्यादि प्रयोगोपपत्तौ संभवत्यां व्यासच्यवृत्तिवर्मावच्छिन्नानुयोगिताकामावो न स्वीकर्तव्यः- गौरवादिअर्थः । प्रतियोगितेति-- “सर्व द्रव्यं न रूपवत् । इत्यत्र भेदप्रतियोगि रूपबत् प्रतियोगितावछेदकं रूपं तादृशरूपवति पृथिव्यादौ ताशरूपशून्याकाशादौ च द्रव्यकव्यापकं यावत्त्वं साधारण्येन वर्तते इति तच्छ्न्यसाधारणः= प्रतियोगितावच्छेदकीभूतरूपशून्याकाशादिसाधारणो यो व्यासज्यवृत्तिधर्मो यावत्त्वं तदवच्छेदेन प्रतियोगितावच्छेदकादिमति रूपवत्पृथिव्यादौ अन्योन्यामावादिवृत्तौ रूपवभेदसत्त्वे मानं नास्ति येन “ द्रव्यत्वादिव्यापकयावत्त्वस्य चातिप्रसक्ततया १४८ " इत्यादि त्वदुक्तं संगतं स्यादित्यर्थः । व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावस्वीकारे दोषमाह- तादृशाभावेति, यदि व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकोप्यऽभावः स्त्रीक्रियेत तदा महानसे दाहप्रतिबन्धकमणिसत्ताकाले महानसत्वात्रच्छिन्नानुयोगिताकस्य दाहातिबन्धकामावस्यासंभवेपि मठमहानसयोरुभयोस्तु प्रतिबन्धकमणिर्नास्त्येवेति मठमहानसोभयत्र व्यासज्यवृत्ति यद् द्वित्तं तादृशद्वित्वावच्छिन्नानुयोगिताकस्य प्रतिबन्धकामावस्य महानसे सत्त्वादेव प्रतिबन्धकसत्त्वैपि दाहादिकार्य स्यादेव, न चैव भवतीति न व्यासव्यवृत्तिधर्मावच्छिन्नानुयोगिताकोऽभाव: स्वीक्रियते इत्यर्थः । अत्राभाद्रपदेनाऽत्यन्ताभावोऽन्योन्याभावश्च ग्राह्यः । व्यासज्यवृत्तिधर्मावछिन्नप्रतियोगिताकस्त्वऽभावः स्वीक्रियते इत्यवधार्यम्। प्रतिबन्धकसमवहितेप्रतिबन्धकविशिष्टे । ननु व्यासज्यवृत्तिधर्माऽनवच्छिन्तानुयोगिताकस्यैव प्रतिबन्धकाभावस्य प्रकृते कारणत्वं वक्ष्यामस्तथा च प्रतिबन्धकसमवहिते देशे उक्तरीत्या व्यासव्यवृत्तिद्वित्वादिधर्मावच्छिन्नानुयोगिताकस्य प्रतिबन्ध. काभावस्य सत्त्वेपि व्यासज्यवृत्तिधर्मानवच्छिन्नानुयोगिताकस्य । महानसत्वाद्यन्छिन्नानुयोगिताकस्थ ) कारणीभूतस्य प्रतिबन्धकामावस्याऽसत्वादेव दाहादिकार्यापत्तिर्नास्तीति 'सर्व द्रव्यं न रूपवत्' इत्यत्रोक्तरीत्या व्यासव्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावस्वीकारे न काचिदापत्तिरित्याशङ्क्याह- तत्रेति । तत्र=उक्तकार्यापत्तिस्थले । कारणतावच्छेदककोटौ प्रतिबन्धकाभावादौ । विशेषगान्तरम् व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकत्वाभाववत्त्वादिविशेषणम् । उक्ने गौरवदोषमाहगौरवादिति, एवं हि गुरुधर्मस्य कारणतावच्छेदकत्वापत्त्या गौरवं स्यादिति व्यासत्यवृत्तिधर्माव. च्छि नानुयोगिताकाभाव एव न स्वीकार्य इत्यर्थः ।