________________
( १४८ )
खादर्श:
[ विशेषकान्दे
मतः 'द्रव्यं न रूपवत्' इत्यादयो न प्रयोगाः । व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताका भावाभ्युपगमेन च ' सर्व द्रव्यं न रूपवत्' इत्यादिप्रयोगा उपपादनीयाः ।
न च व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाऽभावाभ्युपगमें कस्यापि रूपादेः सर्वघटादिषु पर्यामिर्नास्तीति सर्वघटत्वाद्यवच्छिन्नेपि रूपादिमदभेदसत्त्वेन 'सर्वे घटा न रूपवन्तः' इत्यादिप्रयोगापत्तिरितिवाच्यम्, रूपादिपर्याप्तित्वेनानुगतपर्यासीनामनतिप्रसक्तंन घटादिनिष्ठयावस्त्वादिनाप्यवच्छेदात् तदवच्छेदेन रूपादिमद्भेदवृत्त विरोधात् द्रव्यत्वादिव्यापकयावत्त्वस्य चातिप्रसक्ततया रूपादिपर्याप्तित्वावच्छिन्नानामनवच्छेदकतया तदवच्छेदेन रूपादिमभेदवृत्तावविरोधादिति । नुयोगिताया अनधिकरणैपि पृथिव्यादौ द्रव्यत्वस्य सत्त्वेनातिप्रसक्तादित्यर्थः । ' सर्व द्रव्यं न रूपवत्' इत्यादिप्रयोगाणामुपपत्तिमाह- व्यासज्येति, यथा घटे घटत्वसत्त्वेपि घटपटयोईयोस्तु घटलं न वर्तत इति ' घटपटौ न घटत्ववन्तौ ' इत्यत्र व्यासज्यवृत्तियों यद् द्वित्वं ताहशद्वित्वावच्छिन्नानुयोगिताको घट प्रतियोगिकभेदः प्रतीयते तादृशमंदानुयोगिताया वटपटद्वयनिष्टाया द्वित्वावच्छिन्नत्वात् तथा ' सर्व द्रव्यं न रूपवत् ' इत्यत्रापि व्यासज्यवृत्तिधमों यद् यावस्त्रं तादृशयावत्त्वावच्छिन्नानुयोगिताको रूपवत्प्रतियोगिकभेदो नत्रा प्रतीयते स च संपनृत्येवेति — सर्वं द्रव्यं न रूपवत्' इत्यादिप्रयोगे न काचिदनुपपत्तिः पृथिव्यादिद्रव्ये रूपसत्त्वेव्याकाशादिसाधारणद्रव्यसमुदाये रूपस्याऽसत्त्वादेवेत्यर्थः ।
ननु यद्युक्तरीत्या व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकोपि भेदः स्वीक्रियते तदा तत्तद्रूपव्यक्तीन तत्तद्घटव्यक्तिष्वेव पर्याप्तत्वात् कस्यापि रूपस्य सकलघटेषु पर्याप्तिर्नास्तीति सर्वघटत्वावच्छिन्ने = न्यावत्त्वसमानाधिकरणवत्वावच्छिन्ने घटसमुदायेपि चालनीन्यायेन रूपवद्भेदसत्त्वेन नाम यावत्त्वाव च्छिन्नानुयोगिताकस्य रूपवत्प्रतियोगिकभेदस्य संभवेन 'सर्वे घटा न रूपवन्तः इत्यपि प्रयोगः स्याद् न चैतदिष्टमित्याशङ्कयाह - न चेति । यदि व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताको दो न स्वीक्रियते तदा शुद्धघटत्यावच्छेदेन रूपवद्भेदासंभवात् 'सर्वे घटा न रूपवन्तः' इतिप्रयोगस्थापत्तिर्नास्तीति । परिहारमाह- रूपादीति, रूपादिपर्याप्तित्वेन रूपेणानुगतानां रूपादिपर्यासीनां घटनिष्ठयावत्त्वमनतिप्रसक्तत्वादवच्छेदकमस्ति यत्राकाशादौ रूपपर्याप्तिर्नास्ति तत्र घटनिष्ट'यावत्त्वस्याभावादिति तदवच्छेदेन = घटनिष्ठयावत्त्वावच्छेदेन नाम यावत्त्वसमानाधिकरणघटत्वावच्छिन्न घटसमुदाये रूपवदो न संभवति - रूपवत्त्वस्यैव सत्त्वेन तद्विरोधादिति 'सर्वे घटान रूपवन्तः' इतिप्रयोगस्यापत्तिर्नास्तीत्यर्थः । ' सर्वे द्रव्यं न रूपवत्' इत्यादिप्रयोगस्योपपत्तिमाहद्रव्यत्वादीति, द्रव्यत्वव्यापक यावत्त्वम् = द्रव्यनिष्ठं यावत्त्वं तु रूपपर्याप्त्यभाववत्याकाशेप्यस्तीत्य"तिप्रसक्तत्वाद् रूपपर्याप्ती नामवच्छेदकं न संभवतीति तदवच्छेदेन = द्रव्यत्वव्यापक यावत्त्यावन रूपवद्भेदसत्त्वे विरोधाभावात् 'सर्व द्रव्यं न रूपवत्' इतिप्रयोग उपपद्यते इत्यर्थः ।