________________
सर्वपदम्.] शक्तिवादः।
(१४७) रयते- 'द्रव्यं न रूपवत्' इत्यादिप्रयोगादर्शनादिति कथमेतदुपपद्यताम् ? इति तु नाशकनीयम्- व्यासज्यवृत्तिधर्माऽविशेषितानुयोगिकाभावबोधे तथानियमोपगमात् ।
यत्तु स्वरूपसंवन्धात्मकमभावानुयोगितावच्छेदकत्वमनुयोगिविशेषणे नञ्पदजन्याभावप्रतीत्या गृह्यते द्रव्यत्वादौ न तादृशं रूपवभेदानुयोगितावच्छेदकत्वचैवं प्रयोगो भवतीति " अनुयोगिविशेषणावच्छेदेनैव नआऽभावः प्रत्याश्यते " इतिनियमः स्वीकार्यस्तथा च द्रव्यत्वावच्छेदेन रूपाभावस्य बाध एव पृथिव्यादौ रूपाभावस्याऽसत्त्वादिति 'द्रव्यं न रूपवत् । इतिप्रयोगापत्तिनास्ति प्रकृते च द्रव्यत्वव्यापकयावत्त्वावच्छेदेन पाभावस्य बाध एवंति ‘सर्व द्रव्यं न रूपवत् ' इत्यत्र कथं चोग्यतोपपद्यतेत्याशक्याह- अनुयोगीति । उत्तरमाह- व्यासज्येति, यत्र व्यासज्यवृत्तिधर्मेणाऽनुयोगी विशेषितो न भवति तादृशानुयोगिकाभावबोधस्थले एव तथा=" अनुयोगिविशेषणावच्छेदेनैव नाऽभावः प्रत्याश्यते " इतीत्येवं नियमः स्वीक्रियते यथा ' आकाशं न रूपवत् । ' द्रव्यं न रूपवत् ' इत्यादौ-- भत्रानुयोगिद्रव्यादिकं केनचिद् व्यासन्यवृत्तिधर्मेण विशेषितं नास्ति, 'सर्व द्रव्यं न रूपवत् ' इत्यत्र वनुयोगिभूतं द्रव्यं व्यासब्यवृत्तिवर्मेण यावत्त्वेन सर्वपदप्रयोगाद्विशेषितमस्तीत्यत्रोक्तनियमस्य समन्वयाभावाद् द्रव्यत्वव्यापकयावत्त्वसामानाधिकरण्येनैव नया रूपाभाव: प्रत्याय्यते न तु तादृशयावत्त्वावच्छेदेन येन बाधः स्यादित्यर्थः ।
परिहाराय मतान्तरमनुवदति- यत्त्वित्यादिना । अयमर्थः- अवच्छेदकत्वं द्विविधं भवति स्वरूपसंबन्धरूपमऽनतिप्रसक्तयरूपं च यथा ' बटो रूपवान् ' इत्यत्र रूपपर्याप्त्यनुयोगितावबच्छेदके घटत्वे यद् रूपपर्याप्त्यनुयोगितावच्छेदकत्वं तद् अनतिप्रसक्तत्वरूपमस्ति- यत्राकाशादौ रूपपर्याप्त्यनुयोगिता नास्ति तत्र घटत्वस्याप्यभावात् , ' द्रव्यं रूपवत्' इत्यत्र द्रव्यत्वे यद् रूपपर्याप्त्यनुयोगितावच्छेदकत्वं तद् अनतिप्रसक्तत्वरूपं नास्ति- आकाशे रूपपर्यायनुयोगिताया असत्त्वेपि द्रव्यत्वस्य सत्त्वात् किं तु स्वरूपसंबन्धरूपमेव- पृथिव्यादौ रूपपर्याप्त्यनुयोगिताया द्रव्यत्वस्य च सत्त्वात् (सामानाधिकरण्यात् ),अनुयोगिविशेषणीभूतधर्मे च यदऽभावानुयोगिताबच्छेदकत्वं तत् स्वरूपसंबन्धात्मकमेव नम्पदजन्याभावप्रतीत्या गृह्यते द्रव्यत्वे च ' द्रव्यं न रूपवत् ' इत्याकारको यो रूपव दस्तादृशभेदानुयोगितायास्तादृशम् स्वरूपसंबन्धात्मकमव-- च्छेदकत्वं नास्ति अन्यथाऽऽकाशादौ रूपवद्भेदस्य द्रव्यत्वस्य च सत्त्वाद् द्रव्यत्वे स्वरूपसंबन्धात्मकस्य रूपवझेदानुयोगितावच्छेदकत्वस्यापत्त्या 'द्रव्यं न रूपवत् । इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो भवतीति “ स्वरूपसंबन्धात्मकमभावानुयोगितावच्छेदकत्वमनुयोगिविशेषणे नञ्पदजन्याभावप्रतीत्या गृह्यते " इतिस्वीकार्य द्रव्यत्वे च स्वरूपसंबन्धात्मक रूपवढ़ेदानुयोगितावच्छेदकत्वं न स्त्री क्रियते व्यर्थत्वादव्यावर्तकत्वाद्वा इति · द्रव्यं न रूपवत् । इत्यादिप्रयोगस्थापत्तिनास्ति, द्रव्याचे रूपवझेदानुयोगितावच्छेद कत्वमनतिप्रसक्तन्वरूपं तु नास्त्येव- रूपवझेदा