________________
(१४६) सादर्श:
[ विशेषकाण्डेयोग्यतेति वाच्यम्, अव्यासज्यवृत्तिगुणत्वादेरेकैकमात्रवृत्तिधर्मावच्छिन्नपर्याप्ति कूटस्यैव 'सर्वाणि रूपाणि गुणाः' इतिप्रतीत्याऽवगाहनात् सर्वसाधारणैकपर्याप्ती मानाभावात् प्रत्येकवृत्तिधर्मावच्छिन्नपर्याप्तिषु रूपत्वादेनिरुक्तव्यापकत्वाभावात् । ‘सर्व द्रव्यं न रूपवत् ' इत्यादौ द्रव्यत्वादिव्यापकयावत्त्वसामानाधिकरण्यममा वस्य प्रतीयतेऽतो नाऽयोग्यता । अनुयोगिविशेषणावच्छेदेनैव नजाऽभावः प्रत्या
न संभवति येन तादृशाभावस्य योग्यता स्याद् यथा भूतले बटो घटे च घटत्त्रमिति भूतले घटवावच्छिन्नाभावो न संभवति तथेतिभावः । परिहरति- अव्यासज्येति, 'सर्वाणि रूपाणि मुगाः' इति प्रतीत्या प्रत्येकस्मिन् रूपे गगत्वपर्याप्तिः पृथक् पृथगेव प्रतीयते न तु सकलरूपसाधारणैका. तथा च सर्वाणि रूपाणि गुणाः' इतिप्रतीत्या ह्यऽव्यासज्यवृत्तिगुणत्वस्यैकैकमात्रवृ. त्तिः-एकैकरूपव्यक्तिमात्रवृत्तिों धमेस्तव्यक्तित्वं सामानाधिकरण्येन तदच्छिन्नानां गुणत्वपर्याप्तीनां कूटस्य समुदायस्यैवावगाहनं भवतीति सर्वसाधारणकपर्याप्तौ सकलरूपसाधारणैकगुणत्व पर्याप्तौ मानाभावाद् उक्तप्रत्येकवृत्तिधर्मावच्छिन्नगुणत्वपर्याप्तिषु रूपत्वनिरूपितव्यापकत्वमेव न संभवति येन त्वदुक्ता शङ्का संगता स्यादित्यर्थः । यदि गुणत्वपर्याप्ती रूपत्वव्यापिका स्वात्तदा गुणत्वसाधारणरूपत्वव्यापकपर्याप्तिकयावत्त्वस्य रूप संभवात् ताशयावत्त्वावच्छिन्न प्रतियोगिताकरूपाभावो घटादौ बाधितः स्यादपि न चैवमम्ति-- उक्त प्रतीत्या गुणत्वपर्याप्ते : रूपत्वव्यापकत्यासंभवादिति भावः । “रूपत्वादेः" इतिषष्ट्यर्थो निरूपितत्वं तम्य व्यापकत्वेऽन्वयः ।
सर्वमिति- 'सर्व द्रव्यं न रूपवत् ' इत्यत्र द्रव्यत्वव्यापकपर्याप्तिकयावत्त्वसामानाधिकरण्येन रूपाभावः प्रतीयते- आकाशादिनीरूपद्रव्ये द्रव्यत्वव्यापकयावत्त्वस्य रूपाभावस्य च सत्त्वादेवेति ना योग्यतेत्यर्थः । यदि द्रव्यरवव्यापकयावत्त्वावच्छेदेन रूपाभाव उच्येत तदा योग्यता न स्यादपि द्रव्यत्वव्यापकयावत्वस्य पृथिव्यादौ सत्त्वेपि रूपाभावस्य बाधाद् न चैवमुच्यते इत्यर्थः । नन्धऽनुयोगिनि यो धर्मो विशेषणं भवति तदवच्छेदेनैव नाऽभावः प्रत्याय्यते यथा ' आकाशं न रूपवत् । इत्यत्राकाशस्त्रावच्छेदेन रूपाभावः प्रतीयते तथा ' सर्व द्रव्यं न रूपवत् ' इत्य. त्रारि द्रव्यत्वावच्छेदेन या द्रव्यत्वव्यापकथावत्त्वावच्छेदेन चा नना रूपाभावः प्रत्यायनीयो न तु द्रव्यत्वव्यापकयावत्त्वसामानाधिकरण्येन. द्रव्यत्वव्यापकयावत्त्वावच्छेदेन च रूपाभावो बाधित एव पृथिव्यादौ तादृशयावत्वसत्त्वपि रूपाभावस्थामावादिति 'सर्व द्रव्यं न रूपवत्' इत्यत्र कथं योग्यता स्यात् ?, यद्यनुयोगिविशेषणसामानाधिकरण्येनापि नजाऽभावः प्रत्याश्येत तदा 'द्रव्यं न रूपवत् ' इत्यत्र द्रव्यत्वसामानाधिकरण्येन रूपाभावः प्रत्याय्येत द्रव्यत्वसामानाधिकरण्येन चाकाशादौ रूपाभावो न वाधित इति 'द्रव्यं न रूपवत् ' इत्यपि प्रयोगः स्यादन