Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 159
________________ सर्वपदम्.] शक्तिवादः। (१५१) द्वित्वाद्यवच्छिन्नभेदमादायातिप्रसङ्गः । एतादृशोभयधर्मावच्छिन्ने शक्तिरेकैवातो नैकधर्म परित्यज्यापरमादाय बोधः कदाचिदपीति न कतिपयानेकतात्पर्येणाशेषकतात्पर्येण वा सर्वशब्दः प्रयुज्यते। 'चैत्रो दधि भुक्ते, मैत्रः पयो भुङ्क्ते, देवदत्तो घृतं भुङ्क्ते, विष्णुमित्र: सर्वमेव' इत्यादौ सर्वपदेन प्रत्येकं दधिपयोवृतानां भोजनकर्मतया प्रतिपादनाद् यद्रूपावच्छिन्ने पदान्तरोपस्थाप्याथै स्वार्थान्वयस्तद्रूपावच्छिन्नान्विततया यावद्धर्मायभेदो भवति तत्र तत्प्रतियोगितापि भवत्येव घटस्यापि तादृशभेदप्रतियोगित्वादिति तादृशभेदे सामानाधिकरण्यम्=स्वप्रतियोगितासामानाधिकरण्यमपि प्राप्त तादृशप्रतियोगिताया निरूपकत्वात् निरूपकत्वमपि प्राप्तमिति द्वित्वावच्छिन्न प्रतियोगिताकभेदः सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धेन प्रतियोगिताविशिष्टो जातः स चात्र भेदपदेन न ग्राह्यो येन द्वित्वावच्छिन्नभेदमादाय 'सर्व गगनम्' इत्यादिप्रयोगातिप्रसङ्गः स्यात, तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तूक्तसंबन्धद्वयेन प्रतियोगिताविशिष्टो न भवति तत्प्रतियोगिताया अन्यघटादिव्यक्ती सत्त्यात् तस्य चान्य. घटादिव्यक्तौ सत्त्वात. आकाशे च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगित्वस्य बाधात् 'सर्व गगनम्' इतिप्रयोगापत्तिर्नास्तीत्यर्थः । तव्यक्तित्वावच्छिन्न प्रतियोगिताकभेदेपि किंचिद्भेदीयप्रतियोगितासामानाधिकरण्यं केवलमस्त्येव-तादृशमेदाधिकरणवठे स्वभेदप्रतियोगितायाः सत्त्वात्. तथा स्वप्रतियोगितानिरूपकत्वमपि केवलमस्त्येवेत्यभिप्रायेण तद्व्यवच्छेदाय सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धस्य निवेशः कृतः । अत्र 'भेदश्च सामानाधिकरण्यसंबन्धेन स्वप्रतियोगिताविशिष्टान्यो ग्राह्यः इत्यपि साधुः।एतादृशेति-एतादृशोभयधर्मावच्छिन्ने यावत्त्वावच्छिन्नेऽनेकत्वावच्छिन्ने च सर्वपदस्यकैव शक्तिरस्तीति नैकधर्म परित्यज्यापरधर्ममादाय कदाचिदपि सर्वपदजन्यबोधो भवति तथा च कतिपयानेकनीलघटेष्वऽनेकत्वस्य सत्त्वेपि तादृशानेकत्वतात्पर्येण 'सर्वे घटा नीलाः' इतिप्रयोगो न भवति-तत्र यावत्त्वस्याभावात्. तथा गगनेऽशेषत्वरूपोक्तयावत्त्वस्य सत्त्वेपि तादृशयावत्त्वतारर्येण सर्व गगनम्' इतिप्रयोगो न भवति-गगने उक्तानेकत्वस्याभावात्। 'सर्वे घटा रूपवन्तः' इत्यत्र तु घटेष्वनेकत्वमप्यस्ति यावत्त्वमप्यस्तीत्येतादृशस्थले सर्वशब्दः प्रयुज्यते इति न काचिदनुपपत्तिरापत्तिवेत्यर्थः । अनेकत्वयावत्त्वयोरेकशक्तिस्वीकारेण सर्वशब्दस्थानेकार्थत्वापत्तिरपि नास्ति-अनेकशक्तिमत एवानेकार्थत्वस्वीकारादित्यवधेयम् । सर्वशब्दस्य व्युत्पत्त्यन्तरमाह-- चैत्र इत्यादिना । 'विष्णुमित्रः सर्व भुङ्क्ते' इत्यत्र सर्वपदेन दधिपयोधूतानामेव भोजनकर्मत्वं प्रतिपाद्यते न तु पदार्थमात्रस्य. तदपि दधिपयोघृतेषु प्रत्येकमेव नाम कदाचित् दधि कदाचित् पयः कदाचित् घृतं कदाचिद् द्वयं कदाचित् त्रितयमपि भुङ्क्ते इति. न तु विष्णुमित्रो यदा भुङ्क्ते तदोक्तदध्यादित्रयमेव भुङ्क्ते इति प्रतिपाद्यते. तथा चात्र यद्रूपावच्छिन्ने=भोजनत्वावच्छिन्ने पदान्तरोपस्थाप्यार्थे=भुजधातूपस्थाप्ये भोजने स्वकर्मकत्वसंबन्धेन स्वार्थान्वयः उक्तदथ्यादिसर्वपदार्थान्वयस्तद्रूपावच्छिन्नान्वित

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216