Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 158
________________ (१५०) सादर्श: [ विशेषकान्डे.. अथ ‘सर्व द्रव्यं न रूपवत्' इत्यादौ द्रव्यत्वादिव्यापकपर्याप्तौ विधेयीभूतरूपपद्मेदव्याप्यत्वस्य बाधितत्वादश्योग्यत्वं दुर्वारमेवेतिचेत् ? न-तत्र विधेयव्याप्यत्वभानानुपगमात, खण्डशो विभिन्नशक्तयुपगमेन क्वचित् तदंशपरित्यागेन. बोधे विरोधविरहा। 'सर्व गगनम्' इत्यादिप्रयोगाभावाद् यावत्त्ववदनेकत्वमपि सर्वपदार्थः, तच्च. स्वार्थाभेदान्वयोद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगित्वमेव । भेदश्च सामानाधिकरण्यनिरूपकत्वोभयसंबन्धेन प्रतियोगिताविशिष्टान्यो ग्राह्योऽतो न ननु ' सर्वं द्रव्यं न रूपवत् ' इत्यत्र द्रव्यमुद्देश्य रूपवभेदश्च विधेयोस्तीति द्रव्यत्वव्यापकपर्याप्तावुक्तरीत्या विधेयीभूतरूपबद्मेदव्याप्यत्वमपेक्षितमस्ति तन्नोपपद्यते रूपबद्भेदाभावयपि पृथिव्यादौ द्रव्यत्वव्यापकपर्याप्तेः सत्त्वात् . प्रत्युत द्रव्यत्यव्यापकपर्याप्तौ रूपवझेदव्यापकत्वमे. वास्तीत्याशङ्कते- अथेति । परिहरति- नेति, तत्र= सर्व द्रव्यं न रूपवत् । इत्यत्र द्रव्यस्वव्यापकपर्याप्तौ विधेयव्याप्यत्वमानं न स्वीक्रियते इति रूपवद्मेदव्याप्यत्वस्य बाधेपि क्षतिर्नास्तीत्यर्थः । ननूक्तरीत्योदेश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिकयावत्त्वे सर्वपदस्य शक्तिरस्तीति पर्याप्तौ विधेयव्याप्यत्वांशपरित्यागः कथं स्यादित्याशङ्क्याह-खण्डश इति, सर्वपदस्योद्देश्यतावच्छेदकव्यापकपर्याप्तिकयावत्त्वे पृथक् शक्तिरस्ति विधेयव्याप्यपर्याप्तिकयावत्त्वे च पृथक् शक्तिरस्तीति खण्डशो विभिन्नशक्त्युपगमेन कचित्='सर्वं द्रव्यं न रूपवत्' इत्यादौ तदंशपरित्यागेनव्यापकत्वव्याप्यत्वयोर्मध्ये एकांशपरित्यागेनापि बोधे विरोधो नास्तीत्यर्थः । सर्वशब्दस्य व्युत्पत्त्यन्तरमाह-सर्वमिति, यदि सर्वशब्दस्यानेकत्वमप्यर्थो न स्यात्तदाऽशेषत्वरूपस्य यावत्त्वस्य गगनेपि संभवात् यावत्त्वपर्याप्तौ च गगनत्वव्यापकत्वस्य शब्दव्याप्यत्वस्य च संभ. वात् ‘सर्व गगनं शब्दवत्' इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो भवतीत्यनेकत्वमपि सर्वपदार्थस्तादृशवक्ष्यमाणस्वरूपस्यानेकत्वस्य चाकाशेऽसंभवात् 'सर्व गगनम्' इत्यादिप्रयोगापत्तिास्तीत्यर्थः । अनेकत्वं परिष्करोति-तच्चेति, स्वार्थस्य सर्वपदार्थस्य योऽभेदान्वयस्तादृशाभेदान्वयस्थ यद् उद्देश्यतावच्छेदकं तत्समानाधिकरणो यो भेदः तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तत्प्रतियोगित्वमेवाऽनेकत्वं गगने च गगनव्यक्त्यन्तरत्वावच्छिन्नप्रतियोगिताको भेदो न संभवतिगगनव्यक्तरेकत्वादिति “सर्व गगनम्' इत्यादिप्रयोगापत्तिर्नास्ति. घटादौ च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको भेदः संभवतीति 'सर्व घटाः' इत्यादिप्रयोग उपपद्यते इत्यर्थः । ननु गगनेपि घटगगनोभयभेदस्य द्वित्वावच्छिन्नप्रतियोगिताकस्य संभवेन तत्प्रतियोगित्वस्य गगनेपि सत्त्वातादृशभेदमादाय 'सर्व गगनम्' इतिप्रयोगापत्तिरस्तीत्याशक्याऽनेकत्वघटकभेदं परिष्करोतिभेदश्चेति, अत्र भेदपदेन सामानाधिकरण्यनिरूपकत्वैतदुभयसंबन्धेन प्रतियोगिताविशिष्टो यो भेदस्तदन्यो मेदो ग्राह्यः स च तद्वयक्तित्वावच्छिन्न प्रतियोगिताको भवति. उक्तप्रतियोगिताविशिष्टस्तु भेदो द्वित्वावच्छिन्नप्रतियोगिताको भवति तथा हि-यत्र घटे द्वित्वावच्छिन्नप्रतियोगिताको बटपटोभ

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216