Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 156
________________ ( १४८ ) खादर्श: [ विशेषकान्दे मतः 'द्रव्यं न रूपवत्' इत्यादयो न प्रयोगाः । व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताका भावाभ्युपगमेन च ' सर्व द्रव्यं न रूपवत्' इत्यादिप्रयोगा उपपादनीयाः । न च व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाऽभावाभ्युपगमें कस्यापि रूपादेः सर्वघटादिषु पर्यामिर्नास्तीति सर्वघटत्वाद्यवच्छिन्नेपि रूपादिमदभेदसत्त्वेन 'सर्वे घटा न रूपवन्तः' इत्यादिप्रयोगापत्तिरितिवाच्यम्, रूपादिपर्याप्तित्वेनानुगतपर्यासीनामनतिप्रसक्तंन घटादिनिष्ठयावस्त्वादिनाप्यवच्छेदात् तदवच्छेदेन रूपादिमद्भेदवृत्त विरोधात् द्रव्यत्वादिव्यापकयावत्त्वस्य चातिप्रसक्ततया रूपादिपर्याप्तित्वावच्छिन्नानामनवच्छेदकतया तदवच्छेदेन रूपादिमभेदवृत्तावविरोधादिति । नुयोगिताया अनधिकरणैपि पृथिव्यादौ द्रव्यत्वस्य सत्त्वेनातिप्रसक्तादित्यर्थः । ' सर्व द्रव्यं न रूपवत्' इत्यादिप्रयोगाणामुपपत्तिमाह- व्यासज्येति, यथा घटे घटत्वसत्त्वेपि घटपटयोईयोस्तु घटलं न वर्तत इति ' घटपटौ न घटत्ववन्तौ ' इत्यत्र व्यासज्यवृत्तियों यद् द्वित्वं ताहशद्वित्वावच्छिन्नानुयोगिताको घट प्रतियोगिकभेदः प्रतीयते तादृशमंदानुयोगिताया वटपटद्वयनिष्टाया द्वित्वावच्छिन्नत्वात् तथा ' सर्व द्रव्यं न रूपवत् ' इत्यत्रापि व्यासज्यवृत्तिधमों यद् यावस्त्रं तादृशयावत्त्वावच्छिन्नानुयोगिताको रूपवत्प्रतियोगिकभेदो नत्रा प्रतीयते स च संपनृत्येवेति — सर्वं द्रव्यं न रूपवत्' इत्यादिप्रयोगे न काचिदनुपपत्तिः पृथिव्यादिद्रव्ये रूपसत्त्वेव्याकाशादिसाधारणद्रव्यसमुदाये रूपस्याऽसत्त्वादेवेत्यर्थः । ननु यद्युक्तरीत्या व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकोपि भेदः स्वीक्रियते तदा तत्तद्रूपव्यक्तीन तत्तद्घटव्यक्तिष्वेव पर्याप्तत्वात् कस्यापि रूपस्य सकलघटेषु पर्याप्तिर्नास्तीति सर्वघटत्वावच्छिन्ने = न्यावत्त्वसमानाधिकरणवत्वावच्छिन्ने घटसमुदायेपि चालनीन्यायेन रूपवद्भेदसत्त्वेन नाम यावत्त्वाव च्छिन्नानुयोगिताकस्य रूपवत्प्रतियोगिकभेदस्य संभवेन 'सर्वे घटा न रूपवन्तः इत्यपि प्रयोगः स्याद् न चैतदिष्टमित्याशङ्कयाह - न चेति । यदि व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताको दो न स्वीक्रियते तदा शुद्धघटत्यावच्छेदेन रूपवद्भेदासंभवात् 'सर्वे घटा न रूपवन्तः' इतिप्रयोगस्थापत्तिर्नास्तीति । परिहारमाह- रूपादीति, रूपादिपर्याप्तित्वेन रूपेणानुगतानां रूपादिपर्यासीनां घटनिष्ठयावत्त्वमनतिप्रसक्तत्वादवच्छेदकमस्ति यत्राकाशादौ रूपपर्याप्तिर्नास्ति तत्र घटनिष्ट'यावत्त्वस्याभावादिति तदवच्छेदेन = घटनिष्ठयावत्त्वावच्छेदेन नाम यावत्त्वसमानाधिकरणघटत्वावच्छिन्न घटसमुदाये रूपवदो न संभवति - रूपवत्त्वस्यैव सत्त्वेन तद्विरोधादिति 'सर्वे घटान रूपवन्तः' इतिप्रयोगस्यापत्तिर्नास्तीत्यर्थः । ' सर्वे द्रव्यं न रूपवत्' इत्यादिप्रयोगस्योपपत्तिमाहद्रव्यत्वादीति, द्रव्यत्वव्यापक यावत्त्वम् = द्रव्यनिष्ठं यावत्त्वं तु रूपपर्याप्त्यभाववत्याकाशेप्यस्तीत्य"तिप्रसक्तत्वाद् रूपपर्याप्ती नामवच्छेदकं न संभवतीति तदवच्छेदेन = द्रव्यत्वव्यापक यावत्त्यावन रूपवद्भेदसत्त्वे विरोधाभावात् 'सर्व द्रव्यं न रूपवत्' इतिप्रयोग उपपद्यते इत्यर्थः ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216