________________
(१४४)
सादर्श:
[विशेषकाण्डे
शिष्यानिवेश्य सर्वसाधारिण्येका व्युत्पत्तिः स्वीक्रियते । अन्वयित्वं च विशेष्यविशेषणभावसाधारणम् ।
'सर्व प्रमेयम्' इत्यादौ वस्त्वादिपदाध्याहारमन्तरेण बोधोपगमे तदनुरोधेनाऽन्योन्याभावप्रतियोगितानवच्छेदकविधेयव्याप्यपर्याप्तिकयावत्त्वार्थकतापि सर्वपदस्य स्वीकार्या ।
'अयं सर्व घटं वेत्ति' इत्यादावेतदीयज्ञानविषयत्वत्वादिना विषयताऽनन्वयात् तादृशधर्मो नाऽन्वयितावच्छेदका अन्वयितावच्छेदकविषयत्वत्वाद्यवच्छि
नव्याप्यत्वमतिप्रसञ्जकमिति तत्रापि व्युत्पत्त्यन्तरं स्वयमूहनीयम् । यितावच्छेदकधर्मः पृथिवीत्यम् , रूपसमुदायव्यापकपर्याप्तिः पृथिवीत्वव्याप्यैव । नन्धऽन्वयित्वं तु विशेष्यस्यैव भवतीति कथमत्र विशेषणीभूतरूपादेरपि स्यादित्याशङ्क्याह-अन्वयित्वमिति ।
ननु 'सर्व प्रमेयम् । इत्यादिस्थले उद्देश्यवाचकवस्त्वादिपदाभावेनोद्देश्यतावच्छेदकधर्मोपस्थि. तिर्नास्तीति कथमुक्तपर्याप्ताबुद्देश्यतावच्छेदकव्यापकत्वभानं स्यादित्याशझ्याह-सर्वमिति, तद. नुरोधेन= सर्व प्रमेयम् ' इत्यादावुद्देश्यवाचकवस्त्वादिपदाध्याहारं विनापि जायमानसर्वपदार्थविषयकबोधानुरोधेन । घटत्वपटत्वाद्यस्छिन्न प्रतियोगिताकभेदस्तु पटघटादौ सर्वत्रैव भवति केवल लान्वयिप्रमेयस्वादिधर्मावच्छिन्न प्रतियोगिताको भेदस्तु कचिदपि न भवति-- सर्वस्यैव प्रमेयत्वादित्यऽन्योन्याभावप्रतियोगितानवच्छेदकभूतं यद् विधेयं प्रमेयत्वादि तव्याप्यपर्याप्तिकयावत्त्वमत्र सर्वेपदस्य शक्यतावच्छेदक विज्ञमित्यन्चयः । यावत्वपर्याप्तिः प्रमेयत्वव्याप्येति शाब्दबोधः ।
सर्व प्रमेयम् ' इत्यादौ यत्रोद्देश्यवाचकपदं न भवति न च तस्याध्याहारोपि क्रियते तत्र यावस्वपर्याप्ताबुद्देश्यतावच्छेदकव्यापकत्वस्य भानं न भवतीत्यभिप्रायः । 'सर्व वस्तु प्रमेयम् । इत्यादी यत्रोद्देश्यवाचकं वस्त्वादिपदं भवति तत्र तु पूर्ववदेव वस्तुत्वादिव्यापकप्रमेयत्वादिव्याप्यपर्याप्तिकयावत्वं सर्वपदेन प्रतीयते ।
अयमिति-'अयं योगी सर्व घटं वेत्ति । इत्यत्र घटमुद्दिश्य योगिज्ञानविषयत्वं विधीयते. अन्वयित्वं च विशेष्यविशेषणभावसाधारणमित्युक्तमेव विषयताया उपस्थितिश्च घटपदोत्तर द्वितीयया भवति. एतदीयज्ञानविषयत्वत्वेन रूपेण चात्र विषयताया द्वितीयया उपस्थितिर्न संभवति द्वितीयाया विषयतामात्रे शक्तिस्वीकारादित्येतदीयज्ञानविषयतात्वेन रूपेण विषयताया घटेऽन्ययोपि न संभवति तेन रूपेणानुपस्थितत्वाद् उपस्थितरूपेणैवान्वयसंभवादिति तादृशधर्म: एतदीयज्ञानविषयस्यत्वरूपधर्मो नाऽन्वयितावच्छेदकः संभवति येनात्र सर्वपदेन घटत्वव्यापकैतदीयज्ञान विषयता. त्यावच्छिन्नव्याप्यपर्याप्तिकयावत्त्वस्य पूर्वोक्तरीत्या भानं स्यात्. किं तु विषयताया अत्र विषयतावेनैव रूपेणोपस्थितिघंटेऽन्वयश्च संभवतीत्यन्वयितावच्छेदकं विषयतात्वमेव तादृशविषयतात्यावच्छिन्नव्याप्यवं यदि चोक्तपर्याप्तायुक्तं स्यात्तदा कतिपयघटज्ञानदशायामपि ताशपर्याप्ती घटत्वव्यापकत्वस्य विषयताव्याप्यत्परय च सत्त्वात 'अयं सर्व घटं बेत्ति' इतिप्रयोगातिप्रसङ्गः