________________
सर्वपदम् .] शक्तिवादः ।
(१४३) विधेयवाचकपदसमानाधिकरणसर्वपदस्य च विधयतावच्छेदकव्यापकोद्देश्यतावच्छेदकावच्छिन्नसंबन्धव्याप्यपर्याप्तिकं यावत्वमर्थः. अतः 'काले सर्व वृत्तिमन्तः' 'काला सर्वधर्मवान्' इत्यादौ सर्वपदेन वृत्तिमत्वादिव्यापककालादिसंबन्धव्याप्यपर्याप्तिकं यावत्वं प्रतीयते ।
अथ वा स्वार्थान्वयितावच्छेदकधर्मव्यापकतादृशधर्मावच्छिन्नान्वयितावच्छेदकधर्मावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नं सर्वपदार्थ इत्युद्देश्यविधेयभावं विह-इयं चेति । इयम्="उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः सर्वपदप्रवृत्तिनिर्मितम् १३८ " इत्याधुक्ता व्युत्पत्तिः ।
'पृथिव्यां सर्वाणि रूपाणि ' इत्यादिविधेयवाचकपदसमानाधिकरणसर्वपदस्य व्युत्पत्तिमाहविधेयवाचकेति । विधेयतावच्छेदकच्यापिका उद्देश्यतावच्छेदकावच्छिन्नसंबन्धन्याप्या च या पर्याप्तिस्तादृशपयोक्तिवद् यावत्त्वं विधेयवाचकपदसमानाधिकरणसर्वपदस्य प्रवृत्तिनिमित्तमित्यन्वयः। उदाहरणं तत्र समन्वयं चाह- अत इति । अत्र विधेयतावच्छेदकव्यापकत्वं हि विधेयतावच्छेदकसमानाधिकरणमेदप्रतियोगितानवच्छेदकत्वरूपं ग्राह्यम् । उद्देश्यतावच्छेदकावच्छिन्नसंबन्धश्चीदेश्यानुयोगिकविधेयतावच्छेदकसंबन्धः स चोक्तस्थलयोः कालिकसंबन्धरूपः, रूपस्य विधेयत्वे समवायसंबन्धः । तादृशसंबन्धव्याप्यत्वं च तदभाववदवृत्तित्वरूपं ग्राह्यं किं वा पूर्ववद् व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तदुद्देश्यतावच्छेदकावच्छिन्नप्रतियोगिताकतत्तदुद्देश्याभाववस्वरूपं ग्राह्य तथा च 'प्रमेयत्वं सर्वान्वयि ' इत्यादिकेवलान्वय्युद्देश्यकस्थले अन्वयित्वव्यापकयावत्त्वपर्याप्तौ प्रमेयत्वसंबन्धव्याप्यत्वभानस्य नानुपपत्तिः । एवम् ' द्रव्ये सर्वाणि रूपाणि ' * पृथिव्यां सर्वाणि रूपाणि' इत्यादौ रूपव्यापकपृथिवीत्वादिव्याप्यपर्याप्तिकयावत्वं सर्वपदेन प्रतीयते- रूपव्यापकपर्याप्तेः पृथिवीत्वादिव्याप्यत्वादिति ।
उत्तरोत्योद्देश्यवाचकपदसमानाधिकरणसर्वपदस्य विधेयवाचकपदसमानाधिकरणसर्वपदस्य च पृथक् पृथग् व्युत्पत्तिमुक्त्वा लाघवाय तदुभयसाधरणामेका व्युत्पत्तिसाह-- अथ वेति । स्वार्थः सर्वपदार्थः । 'सर्वे घटा रूपवन्तः' इत्यत्र स्वार्थस्य घटे उद्देश्येऽन्वयोस्तीति स्वार्थान्वयितावच्छेदकधर्मो घटत्वं तद्व्यापिका तथा तादृशधर्मावच्छिन्नस्य स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नस्य नामोद्देश्यस्य योऽन्वयितावच्छेदकधर्म: विधेयतावच्छेदकधर्मो रूपत्वं तदवच्छिन्नव्याप्या या पर्या: प्तिस्तादृशपर्याप्तिको यो ध यावत्त्वं तदवच्छिन्नं सर्वपदार्थः, अत्र घटस्याधेयतासंबन्धेन रूपेऽन्वयो भवतीत्युद्देश्यस्य घटस्यान्वयितावच्छेदकधर्मों रूपत्वमिति ज्ञेयम् । 'पृथिव्यां सर्वाणि रूपाणि' इत्यत्र सर्वपदार्थस्य रूपेऽन्वयोस्तीति स्वार्थान्वयितावच्छेदकधर्मो रूपत्वं तद्व्यापिका तथा रूपत्वावच्छिन्नस्यान्वयितावच्छेदकधर्मः पृथिवीत्वं तदवच्छिन्नव्याप्या या पर्याप्तिस्तादृशपर्याप्तिको यो धर्मो यावत्त्वं तदवच्छिन्नं सर्वपदार्थः, अत्र रूपसमुदायस्य पृथिव्यामन्वयात् तदन्व