________________
सादर्श:
[ विशेषकाण्डेयद्यपि सामान्यत उद्देश्यतावच्छेदकत्वमऽव्यावर्तकमेव. उद्देश्यतावच्छेदकविधया स्वसमभिव्याहृतपदप्रतिपाद्यत्वं च तादृशपदजन्यशाब्दबोधात् प्राग दुमुहम्. तथापि तादृशपदप्रतिपाधत्वेन वक्तृबुद्धवक्तृतात्पर्यस्य वा विषयत्वं तथा वाच्यं तच्च प्रकरणादिना पूर्वमपि सुग्रहम् । स्वत्वानमुगमः पूर्ववत्समाधेयः।
उद्देश्यविधेयभावश्च न विशेष्यविशेषणभावनियतोऽतः सर्वेषु घटेषु रूपम्' इत्यादावपि घटत्वादिरूपत्वाद्योरुद्देश्यविधयतावच्छेदकभावोऽक्षत एवेति नघटत्वादिव्यापकरूपत्वाद्यवच्छिन्नव्याप्यपर्याप्तिकयावत्वभानानुपपत्तिः । इयं च व्युत्पतिरुद्देश्यवाचकपदसमानाधिकरणसर्वपदे।
यद्यपीति- यद्यपि सामान्यत उद्देश्यतावच्छेदकत्वमऽव्यावर्तकमेव- सर्वेषामेव धर्माणामुद्देश्यतावच्छेदकत्वसंभवाद् उद्देश्यतावच्छेदकविधया-उद्देश्यतावच्छेदकतया नामोद्देश्यतावच्छेदकत्वेन रूपेण स्वसमभिव्याहृतपदप्रतिपाद्यत्वम् तस्वं सर्वपदम् स्वघटितानुपूर्वीघटकपदजन्यप्रतीतिविषयत्वं नाम सर्वपदेन सह सममिव्याहृतं यद् घटादिपदं तजन्यप्रतीतिविषयत्वं च तादृशपदजन्यशाब्दब्रोधात--सर्वपदसमभिव्याहृतघटादिपदजन्यशाब्दबोधात् प्राग दुर्गहमेव यतो घटादिपदजन्यशाब्दबोधे जाते एव घटादिपदजन्यप्रतीतिविषयत्वं ग्रहीतुं शक्यते न तु पूर्वमपि तथापि तादृशपद्प्रतिपाद्यत्वन-सर्वपदसमभिव्याहृतघटादिपदप्रतिपाद्यत्वेन रूपेण यद् वक्तबुद्धिविषयत्वं वा वक्ततात्पर्यविषयत्वं वा तदेव तथा नामोद्देश्यतावच्छेदकत्वं वक्तव्यं तच वक्तबुद्धेवक्तृतात्पर्यस्य वा विषयत्वं च प्रकरणादिना पूर्वमपि सर्वपदसमभिव्याहृतघटादिपदजन्यशाब्दबोधात् पूर्वमपि सुग्रहमिति न काचिदनुपपत्तिरित्यर्थः । ननु " स्वसममिव्याहृतपदप्रतिपाद्यत्वम्" इत्यत्र सपदार्यनिवेशेनाऽननुगमः स्यादेव- स्वपदस्य तन्मात्रव्यक्तिपरत्वादित्याशङ्कयाह-स्वत्वेति । पूर्ववत् तदादिपदस्थलोक्तरीत्येवेत्यर्थः । तथा हि- 'स्वोदेश्यतावच्छेदकव्यापकतादृशोदेश्यतावच्छेदकावच्छिन्नोद्देश्यतानिरूपितविधेयताश्रयव्याप्यपर्याप्तिकयावत्त्वावच्छिन्नविषयताकत्वस्वजन्यत्वैतदुभयसंबन्धेन सर्वपदविशिष्टो बोधो भवतु' इत्येवं पदप्रकारकं . बोधविशेष्यकं शक्तिज्ञानं स्वीकार्यमत्र च स्वपदार्थस्य संबन्धघटकत्वान्नाऽननुगमः, सर्वपदजन्यबोधे चोक्तयावत्त्वावच्छिन्नविषयताकत्वं सर्वपदजन्यत्वं चास्त्येवेत्यर्थः ।
"एवं विशेष्यतावच्छेदकव्यापकतायाः १३४” इत्याद्युक्ताशङ्कां समाधत्ते- उद्देश्येति, विशेव्यस्यैवोदेश्यत्वं विशेषणस्यैव च विधेयत्वं भवतीति नियमो नास्ति येन 'सर्वेषु घटेषु रूपम्। इत्यत्र घटस्योद्देश्यत्वं न स्याद् विशेष्यत्वाभावाद्. रूपस्य च विधेयत्वं न स्याद् विशेषणत्वाभावात् किं तु विशेषणस्याप्युद्देश्यत्वं विशेष्यस्यापि च विधेयत्वं भवतीति 'सर्वेषु घटेषु रूपम्। इत्यत्र घटत्वस्योद्देश्यतावच्छेदकत्वं रूपत्वस्य च विधेयतावच्छेदकत्वमक्षतमेवेत्यत्र घटत्वव्यापकरूपव्याप्यपर्याप्तिकयावत्वस्य सर्वरदेन भानानुपपत्तिर्नास्तीत्यर्थः । नन्वेवम् 'द्रव्ये - सर्वाणि रूराणि' इत्यत्रापि सर्वपदेन द्रव्यत्वव्यापकरूपव्याप्यपर्याप्तिकयावत्त्वस्य भानं स्याद् न चैतदिष्टम्-- रूप्यव्याप्यपर्याप्तेर्द्रव्यत्वव्यापकत्वाभावाद् आकाशादौ व्यभिचारादित्याशक्या