________________
सर्वपदम्.] शक्तिवादः ।
(१४१) च्छेदकावच्छिन्नप्रतियोगिताकतत्तद्विधेयाभाववत्त्वम् . अतो विधेयतावच्छेदकावच्छिन्नस्य यत्र केवलान्वयित्वं तत्र नाऽप्रसिद्धिः- व्यधिकरणसंबन्धावच्छिन्नप्रतियोगिताकस्यैव तथाविधाभावस्य प्रसिद्धत्वात् । ___ अत्रोद्देश्यतावच्छेदकविधेयतावच्छेदकघटत्वरूपत्वादीनामुपलक्षणतयाऽनुगम के तादृशावच्छेदकत्वमेव अतो न शक्त्यानन्त्यं न वाऽपूर्वधर्मव्यापकत्वादिभानानुपपत्तिन वा तादृशावच्छेदकत्वभानापत्तिः ।
संबन्धो विज्ञेयस्तथा च स्वाभावववृत्तित्वसंबन्धावच्छिन्नप्रतियोगिताकव्यापकाभाववत्त्वं व्याप्यत्वमितिलब्धं यथा धूमे वह्नयभात्रवृत्तित्वं नास्तीति तादृशसंबन्धेन धूमे वद्विस्तु न संभवति किंतु वन्यभाव एवं वर्तत इति वह्नयभाश्वद्वृत्तित्वसंबन्धेन धूमे यद् वयभाववस्वं तद् वद्विव्याप्यत्वमेव तथा 'सर्वे घटाः प्रमेया: ' इत्यत्र विधेयं प्रमेयत्वं सर्वत्र स्वरूपसंबन्धेनैव वर्तते न तु स्वाभाववद्वृत्तित्वसंबन्धेनेति स्वाभावववृत्तित्वसंबन्धेनोक्तपर्याप्तौ यत् प्रमेयत्वामाववत्त्वं तदेव प्रमेयत्वव्याप्यबमस्तीति न सर्वपदार्थबोधानुपपत्तिरित्याह- अत इति । अत्र च स्वपदं परिचायकमात्रं न तु प्रमेयत्वपरामर्शकमऽन्यथा प्रमेयत्वाभावस्याप्रसिद्धया शाब्दबोधानुपपत्तिस्तदवस्थैव स्यात् , किं वा व्यभिचारित्वसंबन्धस्य स्वाभाववद्वृत्तित्वसंबन्धेति व्याख्या न कार्या व्याप्ये व्यापकव्यभिचारित्वं नास्त्येवेति तेन संबन्धेन व्यापकाभाववत्वं सुलभमेव तथोक्तपर्याप्तौ प्रमेयत्वव्यभिचारित्वं नास्तीति व्यभिचारित्वसंबन्धेन प्रमेयत्वाभाववत्त्वं विज्ञेयम् । ' सर्वे घटा रूपवन्तः । इत्यत्र च घटत्वव्यापकपर्याप्तावुक्तसंबन्धेन रूपाभाववत्वमस्त्येव- उक्तपर्याप्तायुक्तसंबन्धेन रूपस्यासंभवादित्यर्थः । उक्ताभावस्य प्रसिद्धिमाह- व्यधिकरणेति, यथा पटसत्त्वेपि घटत्वेन पटो नास्तीति व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकः पटाभावः प्रसिद्धस्तथा व्यधिकरणसंबन्धावच्छिन्नप्रतियोगिताकोप्यभावः प्रसिद्ध एवं यथा भूतले संयोगेन घटसत्त्वेपि समवायसंबन्धेन घटाभावः प्रसिद्धस्तथा प्रकृतेपि विधेयतावच्छेदकसंबन्धेन तथाविधाभावस्य विधेयाभावस्याऽप्रसिद्धत्वेपि व्यधिकरणेन व्यभिचारित्वसंबन्धेन तु विधेयाभावः प्रसिद्ध एव । यो यस्य यत्र संबन्धो न भवति स तस्य व्यधिकरणसंबन्धः, यो यस्य धर्मो न भवति स तस्य व्यधिकरणधर्म इति परिभाषा । वद्याद्यभाववति घटादीनां सत्त्वात्तत्र स्वाभावववृत्तित्वसंबन्धस्य च प्रसिद्धिः ।।
उद्देश्यतावच्छेदकघटत्वादीनामनुगमकमुद्देश्यतावच्छेदकत्वं विधेयतावच्छेदकरूपत्वादीनामनुगमकं विधेयतावच्छेदकत्वमतो न सर्वपदशक्तेरानन्त्यापत्तिः, न चापूर्वधर्मव्यापकत्वादिभानानुपपत्तिः- पूर्वमगृहीतस्यापि पटत्वादिधर्मस्योद्देश्यतावच्छेदकत्वेन रूपेण सुग्रहत्वात् , तादृशोद्देश्यतावच्छेदकत्वविधेयतावच्छेदकत्वयोः शाब्दबोधे भानापत्तिरपि नास्ति- तयोरुपलक्षणत्वस्वीका. राद् उपलक्षणस्य च शाब्दबोधे मानास्वीकारादित्याह- भत्रेति । एतत्सर्व पूर्वमेव तदादिपदस्थले सष्टीकृतमस्ति।