________________
(१४०)
सादर्श:
[विशेषकाण्डेवच्छेदकत्वं तेन रूपादिव्याप्यपर्याप्तव्यत्वादिमनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्तेपि न क्षतिः घटत्वादिव्यापकयावत्वपर्याप्तिश्च न घटादिव्यक्तिभेदाद् भिद्यते. अतो न घटत्वादिव्यापकताया अनुपपत्तिः।
विधेयव्याप्यत्वं च व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तद्विधेयताव“सर्वाणि द्रव्याणि रूपवन्ति ' इत्यपि प्रयोगः स्यात्- अत्रोद्देश्यतावच्छेदकं द्रव्यत्वं तदधिकरणे नीरूपे आकाशेपि 'रूपं नास्ति ' इत्याकारकरूपात्यन्ताभावसत्त्वेपि ' प्रमेयं नास्ति' .इत्याकारकप्रमेयात्यन्ताभावस्तु नास्त्येव-- आकाशे शब्दस्य सत्त्वादेव शब्दस्यापि प्रमेयत्वात् तथा च प्रमेयत्वं द्रव्यत्ववदाकाशनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकमेव धर्मस्तादृशप्रमेयत्वधर्मवत्त्वं च रूपव्याप्यपर्याप्तावस्त्येवेति रूपव्याप्यपर्याप्तौ द्रव्यत्वव्यापकत्वलाभात् ' सर्वाणि
व्याणि रूपवन्ति' इतिप्रयोगापत्तिः प्राप्ता न चैवं प्रयोगो भवतीत्यत्रान्योन्याभावघटितं व्यापकत्वं ग्राह्य तथा च द्रव्यत्वाधिकरणे आकाशे 'आकाशं रूपव्याप्यपर्याप्तिवन्न' इत्याकारकोऽन्योन्याभावोस्त्येव- आकाशे रूपामावात तादृशान्योन्यामावप्रतियोगि रूपव्याप्यपयोतिवत् तद्विशेषगीभूतरूपव्याप्यपर्याप्ती तादृशान्योन्याभावप्रतियोगितावच्छेदकत्वमेव प्राप्तमिति रूपव्याप्यपर्याप्तौ द्रव्यत्वव्यापकत्वाऽलाभात् ' सर्वाणि द्रव्याणि रूपवन्ति । इतिप्रयोगस्यापत्ति र्नास्ति- रूपव्याप्यपर्याप्तावाकाशादौ द्रव्यत्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वस्य कथमप्यऽसंभवात् , ' सर्वे घटा रूपवन्तः । इत्यत्र तु घटत्वावच्छिन्ने 'रूपव्याप्यपर्याप्तिबन्न ' इत्याकारकोऽन्योन्याभावो न संभवति- घटेषु रूपसत्त्वादिति घटत्वसमानाधिकरणान्योन्यामावप्रतियोगितानवच्छेदकत्वाद् रूपव्याप्यपर्याप्तौ तादृशानषछेदकत्वरूपं घटत्वव्यापकत्वं लब्धमिति 'सर्व घटा रूपवन्तः' 'सवषु घटेषु रूपम्' इत्यादिप्रयोग उपपद्यते । अन्योन्याभावध. टितव्यापकत्वग्रहणस्य फलमाह- तेनेति । क्षतिरिति- ' सर्वाणि द्रव्याणि रूपवन्ति । इत्यादिप्र. योगापत्तिरूपा क्षतिर्नास्तीत्यर्थः । यदि घटत्यादिव्यापकयावत्त्वपर्याप्तिर्घटादिव्यक्तिमेदाद् मियेत तदैतद्घटव्यक्तिवृत्तियावत्त्वपर्याप्यभाववत्यामपि घटान्तरव्यक्ती घटत्वस्य सत्त्वात् तादृशघटत्वव्यापकत्वं यावत्त्वपर्याप्तौ न स्यादेव न च सा पर्याप्तिर्व्यक्तिभेदाद् भिद्यते इति न तादृशपर्याप्ती 'घटत्वादिव्यापक त्वस्यानुपपत्तिरित्याह- घटत्वादीति ।
उक्तयावत्त्वपर्याप्तौ यद् विधेयव्याप्यत्वमुक्तं तत् परिष्करोति- विधेयव्याप्यत्यमिति, व्याप्यत्वं ब्यापकाभाववदऽवृत्तित्वमप्यस्ति-धूमादीनां वयाघभाववदऽवृत्तित्वादित्यत्र यदि विधेयाभावक्दवृत्तित्वरूपं व्याप्यत्वं विवक्षित स्यात्तदा ' सर्वे घटाः प्रमेयाः । इत्यादिप्रमेयत्वादिकेवलान्वयिवि. धेयकस्थले प्रमेयत्वाभावस्य सर्वत्रैवाऽप्रसिद्धत्वात सर्वपदार्थबोधानुपपत्तिः स्यादित्यत्र विधेयन्याप्यत्वं व्यभिचारित्वसंबन्धावच्छिनेत्यादिरूपं विज्ञेयम् , व्यभिचारित्वेति- व्यभिचारित्वसंबन्धावच्छिन्ना प्रतियोगिता यस्य तथा तत्तद्विधेयतावच्छेदकावच्छिन्ना प्रतियोगिता यस्यैतादृशो यो व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तद्विधेयतावच्छेदकावच्छिन्न प्रतियोगिताकस्तत्तद्विधेया. भावस्तादृशविधेयाभाववत्वमत्र विधेयव्याप्यत्वं ग्राह्य व्यभिचारित्वसंबन्धश्चात्र स्वाभाक्ववृत्तित्व