________________
सवेपदम्.]
· शक्तिवादा। मेव. तस्य व्यासज्यवृत्तितया तत्पर्याप्तर्घटत्वव्यापकत्वाद् रूपादिव्याप्यत्वाच्च शब्दाद् घटत्वादिव्यापके रूपादिव्याप्यत्वलाभे तयोरपि व्याप्यव्यापकभावोऽल्लभ्यते । द्रव्यत्वादिव्यापकपर्याप्ते रूपाद्यऽव्याप्यत्वात् ' सवाणि द्रव्याणि रूपवन्ति' इत्यादावऽयोग्यता ।।
उद्देश्यतावच्छेदकव्यापकत्वं च तत्समानाधिकरणाऽन्योन्याभावप्रतियोगितानवाच्यत्वं विज्ञेयमित्यर्थः । विधेये रूपे उद्देश्यतावच्छेदकव्यापकत्वभानोपायमाह-तस्येति, तस्य= यावत्त्वस्य, तद्धि यावत्वं सकलघटेषु व्यासज्य वर्तते न तु प्रत्येकं पर्याप्त्येति यत्र यत्र घटत्वं तत्र तत्र तादृशयावत्वपर्याप्तिरस्त्येवेति तत्पर्याप्तेः तादृशयावत्वपर्याप्तेर्घटत्वव्यापकत्वं प्राप्तं यत्र यत्र रूपमस्ति तत्र तत्र घनिष्ठयावत्त्वपर्याप्तिनियमो नास्ति- पटादौ व्यभिचारादिति तादृशपर्याप्ती रूपादिविधेयव्याप्यस्वमपि प्राप्तमिति शब्दाद् घटत्या दिव्यायके यावत्त्वे रूपादिव्याप्यत्वस्य लाभे जाते तयोरपिघटत्वरूपयोरपि व्याप्यव्यापकमावोऽर्थादेव लभ्यते इत्पन्वयः । सर्वपदस्योद्देश्यतावच्छेदकव्याएकविधेयव्याप्यपर्याप्तिकयावत्त्वे शक्तिस्वीकारेण सर्वपदादेव तादृशयावत्त्वे घटत्वादिव्यापकत्वं रूपादिव्याप्यत्वं च लभ्यते इत्यभिप्रायेणोक्तम्- शब्दादिति । यदि यावत्त्वं व्यासज्यवृत्ति न स्यात्तदा प्रत्येकघटेषु पृथक् पृथग्शवत्वापत्त्या कस्मिंश्चिदपि यावत्त्वे घटत्यादिव्यापकत्वं न स्यात. व्यासज्यवृत्तित्वे तु सकलघटेष्वेकस्यैव यावत्त्वस्य संभवात्ताशयावत्त्वे घटत्वव्यापकत्वं संभवतीत्यभिप्रायेणोक्तम्- व्यासज्यवृत्तितयेति । ' सर्वेषु घटेषु रूपम् ' इत्यत्रापि घटस्योद्देश्यत्वाद् घटत्वव्यापकं रूपव्याप्यं यावत्त्वमेव सर्वपदप्रवृत्तिनिमित्तमित्युक्तरीत्या रूपे घटत्वव्यापकत्वभानानुपपत्तिर्नास्ति । 'घटेन सर्वाणि रूपाणि । इत्यत्र सर्वपदस्य रूपपदस. मानाधिकरणत्वाद् रूपत्वव्यापकयावत्त्वं सर्वपदप्रवृत्तिनिमित्तमिति ताशयावत्वावच्छिन्नरूपाभावो घटे प्रतीयते । द्रव्यत्वव्यापकपर्याप्तिस्तु रूपव्याप्या न भवति- आकाशादौ व्यभिचारादिति रूपे द्रव्यत्वव्यापकत्वस्य बाधात् ' सर्वाणि द्रव्याणि रूपवन्ति । इत्यादि प्रयोगो न भवती. साह- द्रव्यत्वादीति । द्रव्यत्वव्यापकपर्याप्ती रूपव्याप्यत्वस्य बाधादयोग्यता । . ___ उक्तयावत्त्वपर्याप्तर्यदुद्देश्यतावच्छेदकव्यापकत्वमुक्तं तत् परिष्करोति~ उद्देश्यतेति, व्यापकत्वं द्विविधं भवति तत्रैकम्- ' व्याप्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् यथा पर्वते धूमसमानाधिकरणात्यन्ताभावो घटादेर्भवतीति तादृशात्यन्ताभावप्रतियोगितावच्छेदकधर्मो घटत्वादिकं तद्वत्त्वं घटादौ प्राप्त वद्देस्तु धूमाधिकरणेऽत्यन्ताभावो न भवतीति ब्रह्नित्वे धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वं प्राप्तं तादशबहित्वधर्मवत्त्वं वहौ यत्प्राप्त तदेव धूमव्यापकत्वम् . द्वितीयं च- - व्याप्यसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्यम् ' यथा पर्वते धूमसमानाधिकरणः 'पर्वतो जलवान ' इत्याकारक एवान्योन्याभावः संभयति तत्प्रतियोगी जलवान् प्रतियोगितावच्छेदकत्वं जलवद्विशेषणत्वाजले प्राप्तम् वह्निमान्न' इत्याकारकस्तु पर्वतेऽन्योन्याभावो न भवतीति वह्नौ यत् तादृशाऽन्योन्याभावप्रतियोगितामवच्छेदकरषं प्राप्तं तदपि धूमव्यापकत्वमेव प्रकृते च यद्यत्यन्ताभावघटितं व्यापकत्वं गृहीतं स्यात्तदा