________________
(१३८)
सादर्श:
[ विशेषकाण्डे___ एवम् ‘घटे न सर्वाणि रूपाण्यापि तु कानिचिदेव ' इत्यादौ रूपनिष्ठभेदप्रतियोगिरूपत्वावच्छिन्नाभावो घटादौ बाधित एवेत्यज्योग्यतापत्तिः। .
न च तादृशरूपत्वादिसामानाधिकरण्येन घटादिवृत्तित्वाभावः प्रतीयते स चाऽबाधित एव नसमभिव्याहारस्थलेऽशेषत्वभानानुपगमे क्षतिविरहादितिवाच्यम् , एवं सति तत्र घटस्योद्देश्यत्वाऽनिर्वाहात् । न च तत्र रूपस्योद्देश्यत्वम्प्रथममऽनिर्दिष्टत्वात् ।
अत्रोच्यते- उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः सर्वपदप्रवृत्तिनिमित्तम् ' सर्वे घटा रूपवन्तः' इत्यादौ तथाविधधर्मो घटादिनिष्ठयावत्त्व
उक्तसर्वपदार्थे दोषान्तरमाह- एवमिति, 'घटे न सर्वाणि रूपाणि ' इत्यत्र त्वदुक्तरीत्या रूपत्वसमानाधिकरणमेदप्रतियोगित्वमेव सर्वपदार्थः स्यात्तस्य च रूपपदार्थेनान्वयः कर्तव्य इत्यत्र रूपनिष्ठभेदप्रतियोगि यद्रूपत्वावच्छिन्नं तदमावः रूपत्वावच्छिन्न प्रतियोगिताकाभावो ना बोधनीयः स च घटे बाधित एवं घटे कस्यचिदपि रूपस्य सत्त्वेन रूपत्वावच्छिन्नप्रतियोगिताकाभावस्य बाधितत्वादयोग्यतापत्तिरित्यर्थः । बाधाभावो हि योग्यता ।
ननु 'घटे न सर्वाणि रूपाणि ' इत्यत्र तादृशरूपत्वादिसामानाधिकरण्येन नाम रूपनिष्ठो यस्तद्व्यक्तिवावच्छिन्न प्रतियोगिताको भेदस्तादृशभेदप्रतियोगि - रूपमेव तवृत्ति यद्रूपत्वं तत्सामानाधिकरण्येन नाम केषुचिद्रूपेषु घटवृत्तित्वाभावः प्रतीयते न तु रूपत्वावच्छेदेनाऽशेषरूपेषु घटवृत्तित्वाभाव उच्यते येनाऽयोग्यता स्यात् केषु चिद्रूपेषु च न घटवृत्तित्वाभावस्य बाधः- बटे सकलरूपसमवायाभावात् , 'घटे न सर्वाणि रूपाणि ' इत्यादि नञ्समभिव्याहारस्थले सर्वपदेनाऽशेषत्वभानास्वीकारेपि क्षतिर्नास्तीत्याशङ्कयाह-न चेति । परिहारहेतुमाह- एबमिति, तत्र= “घटे न सर्वाणि रूपाणि : इत्यत्र यदि रूपत्वसामानाधिकरण्येन घटवृत्तित्वाभावः प्रतीयते विधीयते वा सदा रूपस्यैवोद्देश्यत्वं स्याद् न तु घटस्य न चैतदिष्टम्- अत्र घटस्येवोद्देश्यत्वात् । ननु भवतु तत्र रूपस्यैवोद्देश्यत्वं को दोष इत्याशङ्कथाह- न चेति । परिहारहेतुमाह- प्रथममिति, प्रथम निर्दिष्टस्यैवोद्देश्यत्वं भवति न चात्र रूपं प्रथम निर्दिष्टमस्ति तदुक्तम्-" यच्छब्दयोगः प्राथम्यमेतदुद्देश्यलक्षणम्" इति । न च 'रूपाणि सर्वाणि न घटे ' इत्येवमपि वाक्यवचने रूपस्य प्रायम्यं संभावनीयम्- अन्वयबोधकाले घटस्यैव प्राथम्यप्रसङ्गादित्यर्थः। ___ उक्तरूपेण बहुविधानुपपत्ति प्रदर्थ समाधातुमुपक्रमते- अत्रोच्यत इत्यादिना । उद्देश्यतिउद्देश्यतावच्छेदकव्यापिका सती विधेयव्याच्या या पर्याप्तिः । वृत्तिः ) तादृशपर्याप्तिकः तादशर्याक्तिवान् यो धर्मः स सर्वपदप्रवृत्तिनिमित्तं विज्ञेयः, ' सर्वे घटा रूपवन्तः । इत्यत्र तथाविधधर्मः उक्तपर्याप्तिको धर्मो घटनिष्ठं यावत्त्वमेवेति ताशयावत्वरूपेण घटत्वावच्छिन्नस्य सर्वपद..