________________
सर्वपदम् ]
शक्तिवादः ।
( १३७
विशेषणतयोपस्थितस्यापि विधेये पारतन्त्र्येणान्वयो व्युत्पत्त्यविरुद्धः, नामार्थयोरपि भेदेन पारतन्त्र्येणान्वयो व्युत्पत्ति मा विरौत्सीत्. तथापि सर्वपदस्य यत्र विधेयवाचकपदसामानाधिकरण्यं तत्र विधेयांशे उद्देश्यस्य तत्संबन्धस्य वाऽनुभवसिद्धो व्याप्तिबोधो दुरुपपादः ।
<t
तदत्र स्मर्तव्यम् । उद्देश्य विधेयभावप्रयोजकसामग्री चात्र घटपदस्य प्राथम्यं रूपपदस्योत्तर भावि - स्वमेव प्रथमोक्तपदबोध्यस्थोद्देश्यत्वस्वीकारात् तदुक्तम् - " यच्छन्दयोगः प्राथम्यमेतदुद्देश्यलक्षणम्" इति । किं च एकत्र विशेषणतयान्वितस्यान्यत्र विशेषणतयान्वयो न भवति " "इतिनियमात् ' सर्वेषु घटेषु रूपम् ' इत्यत्रोद्देश्यभूतघटविशेषणतयोपस्थितस्य घटत्वस्य विधेये रूपे व्यापकत्व संबन्धेनान्वयो न संभवति यद्यपि तथाप्युक्तनियमस्य स्वातन्त्र्येणान्वयस्थले एव - स्त्रीकाराद् एकत्र विशेषणतयान्वितस्याप्यन्यत्र पारतन्त्र्येण धर्मिपारतन्त्र्येणान्वये विरोधो नास्ति यथा 'धनी सुखी चैत्र: ' इत्यत्र चैत्रे विशेषणीभूतस्यापि धनस्य चैत्रद्वारा स्वप्रयोज्यत्वसंवन्धेन सुखेप्यन्ययो भवति - ' धनप्रयोज्यसुखवांश्चैत्रः ' इतिबोधोदयादिति प्रकृतेपि घटविशेaणीभूतत्वस्य घटद्वारा विधेये रूपे व्यापकत्व संबन्धेनान्वयो व्युत्पत्त्यविरुद्धो भवतु इत्यपि • स्वीकरोमीत्यर्थः । किं च यद्यपि नामार्थयोरपि परस्परं भेदसंबन्धेनान्वयो न भवतीति घटत्वस्य रूपे व्यापकतासंबन्धेनान्वयो न संभवति तथाप्ययमपि नियमः स्वातन्त्र्येणान्वयस्थले एवास्ति न धर्मपारतन्त्र्येणान्वयस्थले पीति प्रकृते घटत्वस्य घटद्वारा रूपे व्यापकतासंबन्धेनाप्यन्वयो व्युत्प त्तिविरुद्धो नास्तीत्यपि स्वीकरोमीति पूर्वोक्तरीत्या ' सर्वेषु घटेषु रूपम् ' इत्यत्रापि रूपे विषेये -घटत्वव्यापकत्वभानोपपादनं यद्यपि संभवति तथापीत्यन्वयः । तथापीति - यथा सर्वेषु - घरेषु रूपम् ' इत्यत्र त्वया घटस्य सप्तम्यर्थाधेयत्वेऽन्वयं कृत्वा घटघटत्वयो रूपे व्यापकतासं-बन्धेनान्वयः प्रदर्शितस्तेन च रूपे घटघटत्वव्यापकत्वं प्रदर्शितं तथा सर्वपदस्य यत्र ' द्रव्ये सर्वाणि रूपाणि ' इत्यादौ विधेयवाचकरूपादिपदसामानाधिकरण्यं तत्रापि द्रव्यद्रव्यत्वयोर्वि“धेये रूपे व्यापकता संबन्धेनैवान्वयापत्त्या विधेये रूपे व्यापकत्वस्यैव मानं स्यात् तथा च ' सर्व द्रव्यं रूपवत्' इत्यपि प्रयोगः स्याद् न चैतदिष्टमिति ' द्रव्ये सर्वाणि रूपाणि ' इत्यत्रोद्देश्यनिरूपितमुदेश्य संबन्धनिरूपितं वा व्याप्यत्वमेव विधेये रूपे सर्वानुभवसिद्धमस्ति तादृशव्याप्यत्वस्थ atraदुक्तपक्षे दुरुपपाद एव रूपे व्यापकत्वापत्त्येत्यर्थः । रूपस्य द्रव्यत्वव्याप्यत्ये तु 'सर्व द्रव्यं -रूपवत्' इतिप्रयोगस्यापत्तिर्नास्त्येव । उद्देश्यस्य तत्संबन्धस्येति च पार्थो निरूपितत्वं -तस्य व्याप्तावन्वयः । उद्देश्यसंबन्धश्च तादात्म्यलक्षणो विज्ञेयः यत्र यत्र रूयं तत्र तत्र तादात्म्येन द्रव्यस्य द्रव्यतादात्म्यस्य च सत्त्वादेव । व्याप्तिबोधः व्याप्यत्त्वबोधः । विधेयांश " इत्यत्र " विधेयतावच्छेदकांशे " इत्यपि पाठः ।
"