________________
( १३६) : सादर्श:
[ विशेषकाण्टेपकत्वेपि नातिप्रसङ्गः, एवं रूपनिष्ठाधेयतात्वादिनाऽधेयत्वादेः पदानुपस्थितत्वोप न क्षतिः तथा सत्यपि ताशरूपस्य संसर्गधटकतया भाने विरोधाभावादितिवाच्यम्, उक्तव्यापकतायाः संसगत्वे मानाभावात् । . अस्तु वोद्देश्यविधेययोर्विशेष्यविशेषणभाववैपरीत्येपि विधेयांशे उद्देश्यतारच्छेदकव्यापकत्वस्योद्देश्यविधेयभावमहिम्नैव संसर्गतया भानम्. भवतु चोद्देश्यव्यभिचारादिति 'सर्वेषु द्रव्येषु रूपम्' इत्यादिप्रयोगातिप्रसङ्गस्यापत्तिनास्तीत्यर्थः । ननु पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबोधं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितेः कारणत्वमस्ति अत्र च रूपनिष्ठाधेयत्वस्य रूपनिष्ठाधेयतात्वेन रूपेण पदात् सप्तमीप्रत्ययादुपस्थिति - स्ति- सप्तम्याः सामान्यत आधेयत्वे शक्तिम्वीकारेण सप्तम्या सामान्यत आधेयतात्वेन रूपेणाधेयस्वस्योपस्थितिसंभवेषि रूपनिष्ठाधेयतात्वेन रूपेणोपस्थितेरसंभवादिति स्वरूपेणोपस्थितरूपनिष्ठाधेयत्वे प्रकृत्यर्थघटस्य कथमन्वयः स्यादित्याशङ्क्याह-एवमिति। नक्षतिः स्वरूपेणोपस्थितेपि रूपनिठाधेयत्वे प्रकृत्यर्थघटस्यान्वयानुपपत्तिर्नास्तीत्यर्थःश्चत्यभावे हेतुमाह-तधा सत्यपीति,तथा सत्यपि रूपनिष्ठाधेयत्वस्य रूपनिष्ठाधेयतात्वेन रूपेण पदानुपस्थितत्वेपि तादृशरूपस्य-रूपनिष्ठाधेयत्त्वस्य संसर्गघटकतया मानेन विरोधाभावादित्यन्वयः, यस्य पदार्थस्य प्रकारतया विशेष्यतया वा मान भवति तस्यान्वयितावच्छेदकरूपेणाऽनुपस्थिती तत्रोक्तनियमेन पदार्थान्तरान्वयस्यानुपपत्तिरिष्टास्ति यस्य च पदार्थस्य संसर्गतया संसर्गघटकतया वा भानं भवति तस्यान्वयितावच्छेदकरूपेणानुपस्थितावपि तत्र पदार्थान्तरान्वये विरोधो नास्ति- तत्रोक्तनियमानङ्गीकारस्य सर्वसंमतत्वात् 'सर्वेषु घटेषु रूपम्' इत्यत्र सप्तम्यर्थाधेयत्वसंबन्धन घटस्य रूपेऽन्वयो भवतीत्याधेयत्वं संसर्गतया भासते किं वा घटरूपयोराधाराधेयभाव एव संबन्ध इत्याधेियत्वस्य तादृशसंसर्गघटकतयात्र भान भवतीति संसर्गभूते संसर्गघटके वा रूपनिष्ठाधेयत्वेऽन्वयितावच्छेदकेन रूपनिष्ठाधेयतात्वेन रूपेणानुपस्थितेपि प्रकृत्यर्थघटस्यान्वये विरोधो नास्तीत्यर्थः । उक्त परिहरति- उक्तव्यापकताया इति, उक्तरूपव्यापकताया अन्यत्र कचिदपि संसर्गत्वं न दृष्टमिति नैतादशव्यापकतासंबन्धेन रूपनिष्ठाधेयत्वे प्रकृत्यर्थघटस्यान्वयः संभवति येनोक्तरीत्या रूपे घटत्वव्यापकत्वं लभ्येत तथा चोक्तरीत्या 'सर्वेषु घटेषु रूपम्' इत्यत्र रूपे .घटत्वव्यापकत्वभानानुपपत्तिस्तदवस्यैवास्तीत्यर्थः । । तथापीत्यादिना दोषान्तरप्रदर्शनार्थ प्रतिवादिनोक्तं प्रथम स्वीकरोति- अस्तु वेति, उदेश्य विशेष्यं भवति विधेयं च विशेषणं भवति यथा 'सर्वे घटा रूपवन्तः । इत्यत्रोद्देश्यस्य घटस्य विशेष्यत्वं विधेयस्य रूपस्य च विशेषणत्वं तथा 'सर्वेषु घटेषु रूपम् । इत्यत्र नास्ति किं तु विधेयस्य रूपस्यैवात्र विशेष्यत्वमस्ति प्रथमान्तपदबोध्यत्वाद् उद्देश्यस्य घटस्य च विशेषणस्वमस्तीत्युद्देश्यविधेययोर्विशेष्यविशेषणभाववपरीत्येरि सति विधेये रूपे यद् उद्देश्यतावच्छेदकव्यापकत्वम्-घटत्वव्यापकत्वं तस्योद्देश्यविधेयभावमहिम्ना उद्देश्यविधेयभावप्रयोजकसामग्र्यैव संसर्गतया भानं भवत्वित्यपि स्वीकरोमीत्यर्थः । प्रथम रूपनिष्ठाधेयत्वनिष्ठव्यापकताया यत्संसर्गत्वमुक्तं