________________
शक्तिवादः ।
सर्वेपदम् ]
न च तत्र सप्तम्यर्थाधेयत्वादौ निरूपकत्वसंबन्धावच्छिन्नव्यापकतासंबन्धेनैव प्रकृत्यर्थस्य घटादेरन्वयः स्वीक्रियते घटादेर्व्याप्यता च तादात्म्यसंबन्धेन. व्यापकता च यादृशरूपावच्छिन्ने आधेयत्वादेरन्वयस्तदवच्छिन्ननिष्ठाआधेयतात्वाद्यवच्छिन्ना संसर्गः अतो रूपनिष्ठाधेयत्वादेराधेयतात्वादिना द्रव्यत्वव्या
•
( १३५ )
शङ्कते - न चेति । तत्र - ' - 'सर्वेषु घटेषु रूपम्' इत्यत्र घटस्य विशेष्यत्वाभावेपि "प्रकृतिप्रत्ययार्थो सहार्थं ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यम्” इतिनियमात् प्रकृत्यर्थस्य प्रत्ययार्थेऽन्वयो भवत्येव. अत्र च सप्तमीरूपप्रत्ययस्याऽऽधेयत्वमर्थः तच्चाधेयत्वमत्र रूपे वर्तते तादृशाधेयत्वस्य निरूपको घट एवेति घंटे निरूपकत्वं वर्तते - आधेयताया आधारनिरूपितत्वाद् यत्र यंत्र च घंटे तादास्म्यसंबन्धेन घटो वर्तते तत्र तत्र घंटे उक्तनिरूपकत्वसंबन्धेन रूपनिष्ठाधेयत्वमपि वर्तत एवेति रूपनिष्ठाधेयत्वे व्यापकता प्राप्ता. रूपनिष्ठाधेयत्वं घटे निरूपकत्वसंबन्धेन वर्तत इति रूपनिठाधेयत्वनिष्ठा व्यापकता
वह्निर्वर्तत इति वह्निनिष्ठा presented नि
यथा यत्र धूमस्तत्र संयोगसंबन्धेन प्रति तथा च 'सर्वेषु घटेषु रूपम् ' देता तादृशव्यापकता संबन्धेन प्रकयापकत्वं लब्धं तथा यत्र घटे सम
त्यर्थस्य घटस्यान्वय: स्वीक्रियते एवं ल बायेन घटलं वर्तते तत्रोक्तनिरूपकत्व संबन्धेन रूपनिष्ठाधेयत्वं वर्तत इति रूपनिष्ठाधेयत्वे घटत्वव्यापकत्वमपि लब्धं रूपनिष्ठाधेयत्वस्यापि रूपं व्यापकमेवेत्यर्थादेव रूपे घटत्वव्यापकत्वं लब्धमिति न रूपे उक्तघटत्वव्यापकत्वस्य मानानुपपत्तिरित्यर्थः । तादृशाधेयत्यसंबन्धेन च घटस्य रूपेsort विज्ञेयः । रूपनिष्ठाधेयत्वनिरूपिता ( रूपनिष्ठाधेयत्वनिष्टव्यापकतानिरूपिता ) या घटे व्याप्यता वर्तते सा तादात्म्यसंबन्धावच्छिन्नास्तीत्याह - घटादेरिति । संसर्गभूतव्यापकताया अवच्छेदकरूपमाह - व्यापकतेति, प्रकृते यादृशरूपावच्छिन्ने नाम रूपत्वावच्छिन्ने आधेयत्वस्य निष्ठत्वसंबन्धेनान्वयोस्तीति तदवच्छिन्ननिष्ठा = रूपत्वावच्छिन्नरूपनिष्ठा याऽऽघेयता तादृशाधेयतानिष्ठं यदाधेयतात्वं तदवच्छिन्ना = तत्समानाधिकरणैव नाम रूपनिष्ठाधेयता निष्ठाधयतात्वसमानाधिकरणैवात्र व्यापकता संबन्धो विज्ञेय:- रूपनिष्ठाधेयत्वे आधेयतात्वस्योक्तव्यापकतायाश्च सवात्संबन्धभूता व्यापकता रूपनिष्ठाधेयतात्वावच्छिना जाता । अस्य फलमाह - अत इति, यद्यपि रूपनिष्ठाधेयत्वं सामान्यत आयतात्वेन रूपेण द्रव्यत्वव्यापकमेव - आकाशादिद्रव्येपि निरूपकत्वसंबन्धेन शब्दादिनिष्ठाधेयत्वस्य सत्त्वादेवेति 'सर्व द्रव्यं रूपवत्' 'सर्वेषु द्रव्येषु रूपम् ' इत्यादिप्रयोगस्यापत्तिः संभवति तथाप्यत्रोक्तरीत्या रूपनिष्ठाधेयतात्वावच्छिन्न व्यापकता संबन्धेनैव प्रत्ययार्थाधेयत्वे प्रकृत्यर्थस्यान्वय इष्टोस्ति सामान्यत आधेयत्वनिष्ठा व्यापकता च रूपनिष्ठाधेयतानिष्ठाधेयतात्वावच्छिन्ना न संभवतीति 'सर्वेषु द्रव्येषु रूपम्' इत्यत्र प्रकृत्यर्थस्य द्रव्यस्य प्रत्ययार्थाधेयत्वे रूपनिष्ठाधेयतात्वावच्छिन्नव्यापकतासंवन्धेनान्वयो न संभवति यत्र च रूपनिष्ठाधेयत्वे रूपनिष्ठाधेयतात्वावच्छिन्ना व्यापकता वर्तते तत्तु रूपनिष्ठाधेयत्वं द्रव्यत्वव्यापकं नास्ति - आकाशे