________________
(१३४) . सादर्श:
[विशेषकाण्डे-- ऽवच्छेदकावच्छेदेनान्वयेऽवच्छेदकैकदेशव्यापकताबोधस्यानुभवविरुद्धतया सर्वे घटा रूपंवन्तः' इत्यादी घटनिष्ठभेदप्रतियोगित्वस्योद्देश्यतावच्छेदकतया शुद्धवठस्वादिव्यापकत्वभानानुपपत्त्या घटत्वसामानाधिकरण्येन रूपादिमदऽन्यत्वनिश्च. यदशायामपि तादृशवाक्याच्छाब्दबोधापत्तिारैव । _एवं विशेष्यतावच्छेदकव्यापकताया एव विशेषणसंसर्गाशे संसर्गविशेषणी. भूताविशेषणांशे वा भानात् 'सर्वेषु घटेषु रूपम्' इत्यादौ घटत्वादेविशेष्यतानवच्छेदकत्वेन रूपादौ तव्यापकत्वभानं दुर्लभमापद्येत । . अपमर्थ:-- यत्रोद्देश्य किंचिद्धर्मविशेषितं भवति तत्राएवच्छेदकावच्छेदेन नाम विशेषणीभूतधर्मसमानाधिकरणं यदुद्देश्यतावच्छेदकं तादृशोदेश्यतावच्छेदकावच्छेदेन विधेयान्वये कृते जाते वा विधेये तादृशोद्देश्यतावच्छेदकैकदेशव्यापकताबोधोऽनुभवविरुद्ध एव भवति यथा — तैलङ्गब्राह्मणाः पण्डिताः' इत्यत्रोद्देश्यो ब्राह्मणस्तैलङ्गत्वेन विशेषित इति तैलङ्गत्वसमानाधिकरणब्राह्मणत्वावच्छेदेनैव पाण्डित्यस्यान्त्रयो भवति न तु शुद्धब्राह्मणत्वावच्छेदेनापि- अनुभवविरुद्धत्वात् तथा प्रकृतेप्यनेकत्वस्य नामोक्तमेदप्रतियोगित्यस्य सर्वपदार्थत्वे हि तादृशसर्वपदार्थेन घटलक्षणोद्देश्यस्य विशेषितत्वात् — सर्वे घटा रूपवन्तः । इत्यत्र धटनिष्ठभेदप्रतियोगित्वस्य नाम घटनिष्टोक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वस्योद्देश्यतावच्छेदकतया उक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वावच्छेदेनेत्र विधेयस्य रूपवत्त्वस्यान्वयः स्यान्न तु शुद्धघटत्वावच्छेदेनापि-- अत्र केवलघटत्वस्योक्तोद्देश्यतावच्छेदकैकदेशत्वात तथा च विधेये रूपवत्त्वे शुद्धघटत्यादिव्यापकत्वमानं नोपपद्यते इति घटत्वसामानाधिकरण्येन नाम कतिपयघटेषु रूपादिमदन्यत्वनिश्चयदशायामपि-रूपामावनिश्चयदशायामपि तादृशवाक्यात= सर्वे घटा रूपवन्तः' इतिवाक्याद् रूपत्वावच्छिन्न प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः स्यादेव न चैतदिष्टम् । यदि चात्र केवळघटत्वस्योद्दे. श्यतावच्छेदकत्वं स्यात्तदा कतिपयवटेषु रूपामावनिश्चयदशायाम् * सर्वे घटा रूपबन्तः । इतिवाक्यादुक्तशाब्दबोधो न स्थादपि न चैवमस्ति-उक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वस्यैवात्रोद्देश्यतापच्छेदकत्वात् तत्सामानाधिकरण्येन रूपाभावनिश्चयदशायामुक्तवाक्यादुक्तशाब्दबोधासंभवेपि शुद्धघटत्वसामानाधिकरण्येन रूपाभावनिश्चयदशायामुक्तवाक्यादुक्तशाब्दबोधे बाधकामावात्: रूपाभावज्ञानप्रतिबन्धस्यैव तादृशशाब्दबोधफलत्वेन रूपामावनिश्चयदशायामपि तादृशशाब्दबोधे जाते तादशफलानुपलब्ध्या तादृशशाब्दबोधस्यानिष्टत्वादिति ।।
दोषान्तरमाह- एवमिति, प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारात् प्रथमान्तपदबोध्यं वि. शेष्यं भवति विशेषणे विशेषणसंसर्गे वा विशेष्यतावच्छेदकनिरूपितमेव व्यापकत्वं भवतीति च नियमोस्ति 'सर्वेषु वटेषु रूपम्' इत्यत्र रूपस्य विशेषणत्याद् रूपसमवाये तादृशसमवायविशेषणीभूतरूपे वा बटत्वव्यापकत्वमपेक्षितमस्ति तन्न संभवति--- घटस्यात्र सप्तम्यन्तपदबोध्यत्वात् प्रथमान्तपदाबोध्यत्वेन विशेष्यत्वाभावाद् घटत्वस्य च विशेष्यतावच्छेदकावाभावादित्यर्थः । तद्व्यापकत्वभानम् -घटत्वव्यापकत्वमानम् ।