Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 142
________________ (१३४) . सादर्श: [विशेषकाण्डे-- ऽवच्छेदकावच्छेदेनान्वयेऽवच्छेदकैकदेशव्यापकताबोधस्यानुभवविरुद्धतया सर्वे घटा रूपंवन्तः' इत्यादी घटनिष्ठभेदप्रतियोगित्वस्योद्देश्यतावच्छेदकतया शुद्धवठस्वादिव्यापकत्वभानानुपपत्त्या घटत्वसामानाधिकरण्येन रूपादिमदऽन्यत्वनिश्च. यदशायामपि तादृशवाक्याच्छाब्दबोधापत्तिारैव । _एवं विशेष्यतावच्छेदकव्यापकताया एव विशेषणसंसर्गाशे संसर्गविशेषणी. भूताविशेषणांशे वा भानात् 'सर्वेषु घटेषु रूपम्' इत्यादौ घटत्वादेविशेष्यतानवच्छेदकत्वेन रूपादौ तव्यापकत्वभानं दुर्लभमापद्येत । . अपमर्थ:-- यत्रोद्देश्य किंचिद्धर्मविशेषितं भवति तत्राएवच्छेदकावच्छेदेन नाम विशेषणीभूतधर्मसमानाधिकरणं यदुद्देश्यतावच्छेदकं तादृशोदेश्यतावच्छेदकावच्छेदेन विधेयान्वये कृते जाते वा विधेये तादृशोद्देश्यतावच्छेदकैकदेशव्यापकताबोधोऽनुभवविरुद्ध एव भवति यथा — तैलङ्गब्राह्मणाः पण्डिताः' इत्यत्रोद्देश्यो ब्राह्मणस्तैलङ्गत्वेन विशेषित इति तैलङ्गत्वसमानाधिकरणब्राह्मणत्वावच्छेदेनैव पाण्डित्यस्यान्त्रयो भवति न तु शुद्धब्राह्मणत्वावच्छेदेनापि- अनुभवविरुद्धत्वात् तथा प्रकृतेप्यनेकत्वस्य नामोक्तमेदप्रतियोगित्यस्य सर्वपदार्थत्वे हि तादृशसर्वपदार्थेन घटलक्षणोद्देश्यस्य विशेषितत्वात् — सर्वे घटा रूपवन्तः । इत्यत्र धटनिष्ठभेदप्रतियोगित्वस्य नाम घटनिष्टोक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वस्योद्देश्यतावच्छेदकतया उक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वावच्छेदेनेत्र विधेयस्य रूपवत्त्वस्यान्वयः स्यान्न तु शुद्धघटत्वावच्छेदेनापि-- अत्र केवलघटत्वस्योक्तोद्देश्यतावच्छेदकैकदेशत्वात तथा च विधेये रूपवत्त्वे शुद्धघटत्यादिव्यापकत्वमानं नोपपद्यते इति घटत्वसामानाधिकरण्येन नाम कतिपयघटेषु रूपादिमदन्यत्वनिश्चयदशायामपि-रूपामावनिश्चयदशायामपि तादृशवाक्यात= सर्वे घटा रूपवन्तः' इतिवाक्याद् रूपत्वावच्छिन्न प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः स्यादेव न चैतदिष्टम् । यदि चात्र केवळघटत्वस्योद्दे. श्यतावच्छेदकत्वं स्यात्तदा कतिपयवटेषु रूपामावनिश्चयदशायाम् * सर्वे घटा रूपबन्तः । इतिवाक्यादुक्तशाब्दबोधो न स्थादपि न चैवमस्ति-उक्तभेदप्रतियोगित्वसमानाधिकरणघटत्वस्यैवात्रोद्देश्यतापच्छेदकत्वात् तत्सामानाधिकरण्येन रूपाभावनिश्चयदशायामुक्तवाक्यादुक्तशाब्दबोधासंभवेपि शुद्धघटत्वसामानाधिकरण्येन रूपाभावनिश्चयदशायामुक्तवाक्यादुक्तशाब्दबोधे बाधकामावात्: रूपाभावज्ञानप्रतिबन्धस्यैव तादृशशाब्दबोधफलत्वेन रूपामावनिश्चयदशायामपि तादृशशाब्दबोधे जाते तादशफलानुपलब्ध्या तादृशशाब्दबोधस्यानिष्टत्वादिति ।। दोषान्तरमाह- एवमिति, प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारात् प्रथमान्तपदबोध्यं वि. शेष्यं भवति विशेषणे विशेषणसंसर्गे वा विशेष्यतावच्छेदकनिरूपितमेव व्यापकत्वं भवतीति च नियमोस्ति 'सर्वेषु वटेषु रूपम्' इत्यत्र रूपस्य विशेषणत्याद् रूपसमवाये तादृशसमवायविशेषणीभूतरूपे वा बटत्वव्यापकत्वमपेक्षितमस्ति तन्न संभवति--- घटस्यात्र सप्तम्यन्तपदबोध्यत्वात् प्रथमान्तपदाबोध्यत्वेन विशेष्यत्वाभावाद् घटत्वस्य च विशेष्यतावच्छेदकावाभावादित्यर्थः । तद्व्यापकत्वभानम् -घटत्वव्यापकत्वमानम् ।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216