Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 146
________________ (१३८) सादर्श: [ विशेषकाण्डे___ एवम् ‘घटे न सर्वाणि रूपाण्यापि तु कानिचिदेव ' इत्यादौ रूपनिष्ठभेदप्रतियोगिरूपत्वावच्छिन्नाभावो घटादौ बाधित एवेत्यज्योग्यतापत्तिः। . न च तादृशरूपत्वादिसामानाधिकरण्येन घटादिवृत्तित्वाभावः प्रतीयते स चाऽबाधित एव नसमभिव्याहारस्थलेऽशेषत्वभानानुपगमे क्षतिविरहादितिवाच्यम् , एवं सति तत्र घटस्योद्देश्यत्वाऽनिर्वाहात् । न च तत्र रूपस्योद्देश्यत्वम्प्रथममऽनिर्दिष्टत्वात् । अत्रोच्यते- उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः सर्वपदप्रवृत्तिनिमित्तम् ' सर्वे घटा रूपवन्तः' इत्यादौ तथाविधधर्मो घटादिनिष्ठयावत्त्व उक्तसर्वपदार्थे दोषान्तरमाह- एवमिति, 'घटे न सर्वाणि रूपाणि ' इत्यत्र त्वदुक्तरीत्या रूपत्वसमानाधिकरणमेदप्रतियोगित्वमेव सर्वपदार्थः स्यात्तस्य च रूपपदार्थेनान्वयः कर्तव्य इत्यत्र रूपनिष्ठभेदप्रतियोगि यद्रूपत्वावच्छिन्नं तदमावः रूपत्वावच्छिन्न प्रतियोगिताकाभावो ना बोधनीयः स च घटे बाधित एवं घटे कस्यचिदपि रूपस्य सत्त्वेन रूपत्वावच्छिन्नप्रतियोगिताकाभावस्य बाधितत्वादयोग्यतापत्तिरित्यर्थः । बाधाभावो हि योग्यता । ननु 'घटे न सर्वाणि रूपाणि ' इत्यत्र तादृशरूपत्वादिसामानाधिकरण्येन नाम रूपनिष्ठो यस्तद्व्यक्तिवावच्छिन्न प्रतियोगिताको भेदस्तादृशभेदप्रतियोगि - रूपमेव तवृत्ति यद्रूपत्वं तत्सामानाधिकरण्येन नाम केषुचिद्रूपेषु घटवृत्तित्वाभावः प्रतीयते न तु रूपत्वावच्छेदेनाऽशेषरूपेषु घटवृत्तित्वाभाव उच्यते येनाऽयोग्यता स्यात् केषु चिद्रूपेषु च न घटवृत्तित्वाभावस्य बाधः- बटे सकलरूपसमवायाभावात् , 'घटे न सर्वाणि रूपाणि ' इत्यादि नञ्समभिव्याहारस्थले सर्वपदेनाऽशेषत्वभानास्वीकारेपि क्षतिर्नास्तीत्याशङ्कयाह-न चेति । परिहारहेतुमाह- एबमिति, तत्र= “घटे न सर्वाणि रूपाणि : इत्यत्र यदि रूपत्वसामानाधिकरण्येन घटवृत्तित्वाभावः प्रतीयते विधीयते वा सदा रूपस्यैवोद्देश्यत्वं स्याद् न तु घटस्य न चैतदिष्टम्- अत्र घटस्येवोद्देश्यत्वात् । ननु भवतु तत्र रूपस्यैवोद्देश्यत्वं को दोष इत्याशङ्कथाह- न चेति । परिहारहेतुमाह- प्रथममिति, प्रथम निर्दिष्टस्यैवोद्देश्यत्वं भवति न चात्र रूपं प्रथम निर्दिष्टमस्ति तदुक्तम्-" यच्छब्दयोगः प्राथम्यमेतदुद्देश्यलक्षणम्" इति । न च 'रूपाणि सर्वाणि न घटे ' इत्येवमपि वाक्यवचने रूपस्य प्रायम्यं संभावनीयम्- अन्वयबोधकाले घटस्यैव प्राथम्यप्रसङ्गादित्यर्थः। ___ उक्तरूपेण बहुविधानुपपत्ति प्रदर्थ समाधातुमुपक्रमते- अत्रोच्यत इत्यादिना । उद्देश्यतिउद्देश्यतावच्छेदकव्यापिका सती विधेयव्याच्या या पर्याप्तिः । वृत्तिः ) तादृशपर्याप्तिकः तादशर्याक्तिवान् यो धर्मः स सर्वपदप्रवृत्तिनिमित्तं विज्ञेयः, ' सर्वे घटा रूपवन्तः । इत्यत्र तथाविधधर्मः उक्तपर्याप्तिको धर्मो घटनिष्ठं यावत्त्वमेवेति ताशयावत्वरूपेण घटत्वावच्छिन्नस्य सर्वपद..

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216