Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 147
________________ सवेपदम्.] · शक्तिवादा। मेव. तस्य व्यासज्यवृत्तितया तत्पर्याप्तर्घटत्वव्यापकत्वाद् रूपादिव्याप्यत्वाच्च शब्दाद् घटत्वादिव्यापके रूपादिव्याप्यत्वलाभे तयोरपि व्याप्यव्यापकभावोऽल्लभ्यते । द्रव्यत्वादिव्यापकपर्याप्ते रूपाद्यऽव्याप्यत्वात् ' सवाणि द्रव्याणि रूपवन्ति' इत्यादावऽयोग्यता ।। उद्देश्यतावच्छेदकव्यापकत्वं च तत्समानाधिकरणाऽन्योन्याभावप्रतियोगितानवाच्यत्वं विज्ञेयमित्यर्थः । विधेये रूपे उद्देश्यतावच्छेदकव्यापकत्वभानोपायमाह-तस्येति, तस्य= यावत्त्वस्य, तद्धि यावत्वं सकलघटेषु व्यासज्य वर्तते न तु प्रत्येकं पर्याप्त्येति यत्र यत्र घटत्वं तत्र तत्र तादृशयावत्वपर्याप्तिरस्त्येवेति तत्पर्याप्तेः तादृशयावत्वपर्याप्तेर्घटत्वव्यापकत्वं प्राप्तं यत्र यत्र रूपमस्ति तत्र तत्र घनिष्ठयावत्त्वपर्याप्तिनियमो नास्ति- पटादौ व्यभिचारादिति तादृशपर्याप्ती रूपादिविधेयव्याप्यस्वमपि प्राप्तमिति शब्दाद् घटत्या दिव्यायके यावत्त्वे रूपादिव्याप्यत्वस्य लाभे जाते तयोरपिघटत्वरूपयोरपि व्याप्यव्यापकमावोऽर्थादेव लभ्यते इत्पन्वयः । सर्वपदस्योद्देश्यतावच्छेदकव्याएकविधेयव्याप्यपर्याप्तिकयावत्त्वे शक्तिस्वीकारेण सर्वपदादेव तादृशयावत्त्वे घटत्वादिव्यापकत्वं रूपादिव्याप्यत्वं च लभ्यते इत्यभिप्रायेणोक्तम्- शब्दादिति । यदि यावत्त्वं व्यासज्यवृत्ति न स्यात्तदा प्रत्येकघटेषु पृथक् पृथग्शवत्वापत्त्या कस्मिंश्चिदपि यावत्त्वे घटत्यादिव्यापकत्वं न स्यात. व्यासज्यवृत्तित्वे तु सकलघटेष्वेकस्यैव यावत्त्वस्य संभवात्ताशयावत्त्वे घटत्वव्यापकत्वं संभवतीत्यभिप्रायेणोक्तम्- व्यासज्यवृत्तितयेति । ' सर्वेषु घटेषु रूपम् ' इत्यत्रापि घटस्योद्देश्यत्वाद् घटत्वव्यापकं रूपव्याप्यं यावत्त्वमेव सर्वपदप्रवृत्तिनिमित्तमित्युक्तरीत्या रूपे घटत्वव्यापकत्वभानानुपपत्तिर्नास्ति । 'घटेन सर्वाणि रूपाणि । इत्यत्र सर्वपदस्य रूपपदस. मानाधिकरणत्वाद् रूपत्वव्यापकयावत्त्वं सर्वपदप्रवृत्तिनिमित्तमिति ताशयावत्वावच्छिन्नरूपाभावो घटे प्रतीयते । द्रव्यत्वव्यापकपर्याप्तिस्तु रूपव्याप्या न भवति- आकाशादौ व्यभिचारादिति रूपे द्रव्यत्वव्यापकत्वस्य बाधात् ' सर्वाणि द्रव्याणि रूपवन्ति । इत्यादि प्रयोगो न भवती. साह- द्रव्यत्वादीति । द्रव्यत्वव्यापकपर्याप्ती रूपव्याप्यत्वस्य बाधादयोग्यता । . ___ उक्तयावत्त्वपर्याप्तर्यदुद्देश्यतावच्छेदकव्यापकत्वमुक्तं तत् परिष्करोति~ उद्देश्यतेति, व्यापकत्वं द्विविधं भवति तत्रैकम्- ' व्याप्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् यथा पर्वते धूमसमानाधिकरणात्यन्ताभावो घटादेर्भवतीति तादृशात्यन्ताभावप्रतियोगितावच्छेदकधर्मो घटत्वादिकं तद्वत्त्वं घटादौ प्राप्त वद्देस्तु धूमाधिकरणेऽत्यन्ताभावो न भवतीति ब्रह्नित्वे धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वं प्राप्तं तादशबहित्वधर्मवत्त्वं वहौ यत्प्राप्त तदेव धूमव्यापकत्वम् . द्वितीयं च- - व्याप्यसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्यम् ' यथा पर्वते धूमसमानाधिकरणः 'पर्वतो जलवान ' इत्याकारक एवान्योन्याभावः संभयति तत्प्रतियोगी जलवान् प्रतियोगितावच्छेदकत्वं जलवद्विशेषणत्वाजले प्राप्तम् वह्निमान्न' इत्याकारकस्तु पर्वतेऽन्योन्याभावो न भवतीति वह्नौ यत् तादृशाऽन्योन्याभावप्रतियोगितामवच्छेदकरषं प्राप्तं तदपि धूमव्यापकत्वमेव प्रकृते च यद्यत्यन्ताभावघटितं व्यापकत्वं गृहीतं स्यात्तदा

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216