Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 148
________________ (१४०) सादर्श: [विशेषकाण्डेवच्छेदकत्वं तेन रूपादिव्याप्यपर्याप्तव्यत्वादिमनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्तेपि न क्षतिः घटत्वादिव्यापकयावत्वपर्याप्तिश्च न घटादिव्यक्तिभेदाद् भिद्यते. अतो न घटत्वादिव्यापकताया अनुपपत्तिः। विधेयव्याप्यत्वं च व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तद्विधेयताव“सर्वाणि द्रव्याणि रूपवन्ति ' इत्यपि प्रयोगः स्यात्- अत्रोद्देश्यतावच्छेदकं द्रव्यत्वं तदधिकरणे नीरूपे आकाशेपि 'रूपं नास्ति ' इत्याकारकरूपात्यन्ताभावसत्त्वेपि ' प्रमेयं नास्ति' .इत्याकारकप्रमेयात्यन्ताभावस्तु नास्त्येव-- आकाशे शब्दस्य सत्त्वादेव शब्दस्यापि प्रमेयत्वात् तथा च प्रमेयत्वं द्रव्यत्ववदाकाशनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकमेव धर्मस्तादृशप्रमेयत्वधर्मवत्त्वं च रूपव्याप्यपर्याप्तावस्त्येवेति रूपव्याप्यपर्याप्तौ द्रव्यत्वव्यापकत्वलाभात् ' सर्वाणि व्याणि रूपवन्ति' इतिप्रयोगापत्तिः प्राप्ता न चैवं प्रयोगो भवतीत्यत्रान्योन्याभावघटितं व्यापकत्वं ग्राह्य तथा च द्रव्यत्वाधिकरणे आकाशे 'आकाशं रूपव्याप्यपर्याप्तिवन्न' इत्याकारकोऽन्योन्याभावोस्त्येव- आकाशे रूपामावात तादृशान्योन्यामावप्रतियोगि रूपव्याप्यपयोतिवत् तद्विशेषगीभूतरूपव्याप्यपर्याप्ती तादृशान्योन्याभावप्रतियोगितावच्छेदकत्वमेव प्राप्तमिति रूपव्याप्यपर्याप्तौ द्रव्यत्वव्यापकत्वाऽलाभात् ' सर्वाणि द्रव्याणि रूपवन्ति । इतिप्रयोगस्यापत्ति र्नास्ति- रूपव्याप्यपर्याप्तावाकाशादौ द्रव्यत्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वस्य कथमप्यऽसंभवात् , ' सर्वे घटा रूपवन्तः । इत्यत्र तु घटत्वावच्छिन्ने 'रूपव्याप्यपर्याप्तिबन्न ' इत्याकारकोऽन्योन्याभावो न संभवति- घटेषु रूपसत्त्वादिति घटत्वसमानाधिकरणान्योन्यामावप्रतियोगितानवच्छेदकत्वाद् रूपव्याप्यपर्याप्तौ तादृशानषछेदकत्वरूपं घटत्वव्यापकत्वं लब्धमिति 'सर्व घटा रूपवन्तः' 'सवषु घटेषु रूपम्' इत्यादिप्रयोग उपपद्यते । अन्योन्याभावध. टितव्यापकत्वग्रहणस्य फलमाह- तेनेति । क्षतिरिति- ' सर्वाणि द्रव्याणि रूपवन्ति । इत्यादिप्र. योगापत्तिरूपा क्षतिर्नास्तीत्यर्थः । यदि घटत्यादिव्यापकयावत्त्वपर्याप्तिर्घटादिव्यक्तिमेदाद् मियेत तदैतद्घटव्यक्तिवृत्तियावत्त्वपर्याप्यभाववत्यामपि घटान्तरव्यक्ती घटत्वस्य सत्त्वात् तादृशघटत्वव्यापकत्वं यावत्त्वपर्याप्तौ न स्यादेव न च सा पर्याप्तिर्व्यक्तिभेदाद् भिद्यते इति न तादृशपर्याप्ती 'घटत्वादिव्यापक त्वस्यानुपपत्तिरित्याह- घटत्वादीति । उक्तयावत्त्वपर्याप्तौ यद् विधेयव्याप्यत्वमुक्तं तत् परिष्करोति- विधेयव्याप्यत्यमिति, व्याप्यत्वं ब्यापकाभाववदऽवृत्तित्वमप्यस्ति-धूमादीनां वयाघभाववदऽवृत्तित्वादित्यत्र यदि विधेयाभावक्दवृत्तित्वरूपं व्याप्यत्वं विवक्षित स्यात्तदा ' सर्वे घटाः प्रमेयाः । इत्यादिप्रमेयत्वादिकेवलान्वयिवि. धेयकस्थले प्रमेयत्वाभावस्य सर्वत्रैवाऽप्रसिद्धत्वात सर्वपदार्थबोधानुपपत्तिः स्यादित्यत्र विधेयन्याप्यत्वं व्यभिचारित्वसंबन्धावच्छिनेत्यादिरूपं विज्ञेयम् , व्यभिचारित्वेति- व्यभिचारित्वसंबन्धावच्छिन्ना प्रतियोगिता यस्य तथा तत्तद्विधेयतावच्छेदकावच्छिन्ना प्रतियोगिता यस्यैतादृशो यो व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तद्विधेयतावच्छेदकावच्छिन्न प्रतियोगिताकस्तत्तद्विधेया. भावस्तादृशविधेयाभाववत्वमत्र विधेयव्याप्यत्वं ग्राह्य व्यभिचारित्वसंबन्धश्चात्र स्वाभाक्ववृत्तित्व

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216