Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 144
________________ ( १३६) : सादर्श: [ विशेषकाण्टेपकत्वेपि नातिप्रसङ्गः, एवं रूपनिष्ठाधेयतात्वादिनाऽधेयत्वादेः पदानुपस्थितत्वोप न क्षतिः तथा सत्यपि ताशरूपस्य संसर्गधटकतया भाने विरोधाभावादितिवाच्यम्, उक्तव्यापकतायाः संसगत्वे मानाभावात् । . अस्तु वोद्देश्यविधेययोर्विशेष्यविशेषणभाववैपरीत्येपि विधेयांशे उद्देश्यतारच्छेदकव्यापकत्वस्योद्देश्यविधेयभावमहिम्नैव संसर्गतया भानम्. भवतु चोद्देश्यव्यभिचारादिति 'सर्वेषु द्रव्येषु रूपम्' इत्यादिप्रयोगातिप्रसङ्गस्यापत्तिनास्तीत्यर्थः । ननु पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबोधं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितेः कारणत्वमस्ति अत्र च रूपनिष्ठाधेयत्वस्य रूपनिष्ठाधेयतात्वेन रूपेण पदात् सप्तमीप्रत्ययादुपस्थिति - स्ति- सप्तम्याः सामान्यत आधेयत्वे शक्तिम्वीकारेण सप्तम्या सामान्यत आधेयतात्वेन रूपेणाधेयस्वस्योपस्थितिसंभवेषि रूपनिष्ठाधेयतात्वेन रूपेणोपस्थितेरसंभवादिति स्वरूपेणोपस्थितरूपनिष्ठाधेयत्वे प्रकृत्यर्थघटस्य कथमन्वयः स्यादित्याशङ्क्याह-एवमिति। नक्षतिः स्वरूपेणोपस्थितेपि रूपनिठाधेयत्वे प्रकृत्यर्थघटस्यान्वयानुपपत्तिर्नास्तीत्यर्थःश्चत्यभावे हेतुमाह-तधा सत्यपीति,तथा सत्यपि रूपनिष्ठाधेयत्वस्य रूपनिष्ठाधेयतात्वेन रूपेण पदानुपस्थितत्वेपि तादृशरूपस्य-रूपनिष्ठाधेयत्त्वस्य संसर्गघटकतया मानेन विरोधाभावादित्यन्वयः, यस्य पदार्थस्य प्रकारतया विशेष्यतया वा मान भवति तस्यान्वयितावच्छेदकरूपेणाऽनुपस्थिती तत्रोक्तनियमेन पदार्थान्तरान्वयस्यानुपपत्तिरिष्टास्ति यस्य च पदार्थस्य संसर्गतया संसर्गघटकतया वा भानं भवति तस्यान्वयितावच्छेदकरूपेणानुपस्थितावपि तत्र पदार्थान्तरान्वये विरोधो नास्ति- तत्रोक्तनियमानङ्गीकारस्य सर्वसंमतत्वात् 'सर्वेषु घटेषु रूपम्' इत्यत्र सप्तम्यर्थाधेयत्वसंबन्धन घटस्य रूपेऽन्वयो भवतीत्याधेयत्वं संसर्गतया भासते किं वा घटरूपयोराधाराधेयभाव एव संबन्ध इत्याधेियत्वस्य तादृशसंसर्गघटकतयात्र भान भवतीति संसर्गभूते संसर्गघटके वा रूपनिष्ठाधेयत्वेऽन्वयितावच्छेदकेन रूपनिष्ठाधेयतात्वेन रूपेणानुपस्थितेपि प्रकृत्यर्थघटस्यान्वये विरोधो नास्तीत्यर्थः । उक्त परिहरति- उक्तव्यापकताया इति, उक्तरूपव्यापकताया अन्यत्र कचिदपि संसर्गत्वं न दृष्टमिति नैतादशव्यापकतासंबन्धेन रूपनिष्ठाधेयत्वे प्रकृत्यर्थघटस्यान्वयः संभवति येनोक्तरीत्या रूपे घटत्वव्यापकत्वं लभ्येत तथा चोक्तरीत्या 'सर्वेषु घटेषु रूपम्' इत्यत्र रूपे .घटत्वव्यापकत्वभानानुपपत्तिस्तदवस्यैवास्तीत्यर्थः । । तथापीत्यादिना दोषान्तरप्रदर्शनार्थ प्रतिवादिनोक्तं प्रथम स्वीकरोति- अस्तु वेति, उदेश्य विशेष्यं भवति विधेयं च विशेषणं भवति यथा 'सर्वे घटा रूपवन्तः । इत्यत्रोद्देश्यस्य घटस्य विशेष्यत्वं विधेयस्य रूपस्य च विशेषणत्वं तथा 'सर्वेषु घटेषु रूपम् । इत्यत्र नास्ति किं तु विधेयस्य रूपस्यैवात्र विशेष्यत्वमस्ति प्रथमान्तपदबोध्यत्वाद् उद्देश्यस्य घटस्य च विशेषणस्वमस्तीत्युद्देश्यविधेययोर्विशेष्यविशेषणभाववपरीत्येरि सति विधेये रूपे यद् उद्देश्यतावच्छेदकव्यापकत्वम्-घटत्वव्यापकत्वं तस्योद्देश्यविधेयभावमहिम्ना उद्देश्यविधेयभावप्रयोजकसामग्र्यैव संसर्गतया भानं भवत्वित्यपि स्वीकरोमीत्यर्थः । प्रथम रूपनिष्ठाधेयत्वनिष्ठव्यापकताया यत्संसर्गत्वमुक्तं

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216