Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 116
________________ सादर्श: (१०८) [ विशेषकाण्डे- दुर्वार एवेति स्वजन्यबोधाश्रयतया प्रयोकऽभिप्रायविषयतावच्छेदकत्वरूप स्वसंबोध्यतावच्छेदकत्वो पलक्षितधर्मावच्छिन्नेः युष्मत्पदस्य स्वोच्चारणकर्तृत्वावच्छेदकत्वोपलक्षितधर्माविच्छिन्ने चास्मत्पदस्य शक्तेः स्वीकरणीयतया स्वत्वान्तर्भावेनाऽननुगमतादवस्थ्यादिति चेत् ?, न - स्वोच्चारणानुकूलबुद्धिप्रकारावच्छिन्न विषयताकत्वस्वजन्यत्वोभयसंबन्धेन तदादिसर्वनामपदप्रकारको बोधविषयकः संकेतोऽभ्युपेयते तत्र च स्वपदार्थस्य संबन्धघटकतया तत्तत्पदद्व्यक्तित्वेन पदानां न विषयताऽपि तु तत्तत्पदत्वादिरूपानुपूर्वी विशेषेणैवेति न पदव्यक्तिभेदेन शक्तिभेदः । सामान्यतस्तत्पदत्वादिरूपानुपूर्वीविशेषावच्छेदेनैवोभयसंबन्धावच्छिन्नबोधविषयतानिरूपित संकेतप्रकारता ग्राह्येति न व्युत्पत्त्यनुपपत्तिः । खारयितुः = अन्यदस्मत्पदोच्चारयितुरपि मैत्रादेः प्रतीतिः स्यादेव - मैत्रत्वादेरपि सामान्यत उच्चार यितृतावच्छेदकत्वात् न चैतदिष्टमित्येतदतिप्रसङ्गवारणाय यदि स्वजन्यबोधाश्रयतया = युष्मत्पदजन्यबोधाश्रयतया युष्मत्पदप्रयोक्त्रऽभिप्राय विषयतावच्छेदकत्वरूपं यत् स्वसंवोध्यतावच्छेदकत्वम्= तद्युष्मत्पदसंबोध्यतावच्छेदकत्वं तदुपलक्षितो यश्चैत्रत्वादिधर्मस्तदवच्छिन्ने चेत्रादौ युष्मत्पदस्य शक्तिः स्त्रीक्रियते, स्त्रोचारणकर्तृत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने च चैत्रादात्रस्मत्पदस्य शक्तिः स्वीक्रियते तदा स्वत्वान्तर्भावेन – स्वपदार्थस्यान्तर्भावेन पूर्ववदऽननुग मस्तदवस्थ एव अननुगमाद् व्युत्पत्तिविरोधोपि । स्वपदस्य तत्तद्व्यक्तिपरतया तत्तद्युष्मत्पदास्मरणदव्यक्तिभेदेन शक्तिभेदोपि स्यादेवेत्युभयतः पाशारज्जुरित्यन्वयः । स्वोचारणेत्यत्र स्वपदेन तदस्मत्पदव्यक्तिग्राह्या । तदादिपदस्थ प्रदर्शितं दोषं प्रथमं परिहरति--नेति, तत्तदादिपदजन्यबोधे स्त्रोचारणानु - कूला = तत्तदादिपदोचारणानुकूला या बुद्धिस्तादृशबुद्धौ प्रकारीभूतं यद् घटत्वादिकं तदवच्छिन्न'विषयताकत्वमप्यस्ति स्वजन्यत्वम्= तत्तदादिपदजन्यत्वमप्यस्तीति ' तदादिपदात् स्त्रोच्चारणानुकूलबुद्धिनकारावच्छिन्न (स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्न ) विषयकत्वस्वजन्यत्व - तदुभयसंबन्धेन तदादिपदविशिष्टो बोधो भवतु इत्याकारकस्तदादिसर्वनामपदप्रकारको वोधविषयकः =बोध विशेष्यकः संकेत: स्वीक्रियते तत्र च संकेते स्वपदार्थस्य संबन्धघटकतया तत्तत्पदव्यक्तित्वेन रूपेण पदानां न संकेतविषयता येन प्रदर्शितः शक्तिमेदोऽननुगमश्च स्यात् किं तु तत्तत्पदत्वादिरूपा या तकारोत्तरत्काररूपा पदानुपूर्वी तादृशानुपूर्वीविशेषेणैव तादृशकिशेषानुपूर्वी रूपेणैव तदादिपदानां संकेतविषयतास्ति सा चानुपूर्वी सर्वेषु तदादिपदेष्वनुगतरूपैवेति न पदव्यक्तिभेदेन शक्तिभेदः । उक्तोभयसंवन्धावच्छिन्ना या बोधविषयता-बोधनिष्ठा विशेष्यता तादृशविशेष्यता निरूपित संकेतीयप्रकारता च सामान्यतस्तत्पदत्वादिरूपानुपूमविशेषावच्छेदेनैव तदादिपदे ग्राह्यतेति न व्युत्पत्त्यनुपपत्तिः नाम यस्य तदादिपदस्य शक्तिमहो A

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216