________________
सादर्श:
(१०८)
[ विशेषकाण्डे-
दुर्वार एवेति स्वजन्यबोधाश्रयतया प्रयोकऽभिप्रायविषयतावच्छेदकत्वरूप स्वसंबोध्यतावच्छेदकत्वो पलक्षितधर्मावच्छिन्नेः युष्मत्पदस्य स्वोच्चारणकर्तृत्वावच्छेदकत्वोपलक्षितधर्माविच्छिन्ने चास्मत्पदस्य शक्तेः स्वीकरणीयतया स्वत्वान्तर्भावेनाऽननुगमतादवस्थ्यादिति चेत् ?,
न - स्वोच्चारणानुकूलबुद्धिप्रकारावच्छिन्न विषयताकत्वस्वजन्यत्वोभयसंबन्धेन तदादिसर्वनामपदप्रकारको बोधविषयकः संकेतोऽभ्युपेयते तत्र च स्वपदार्थस्य संबन्धघटकतया तत्तत्पदद्व्यक्तित्वेन पदानां न विषयताऽपि तु तत्तत्पदत्वादिरूपानुपूर्वी विशेषेणैवेति न पदव्यक्तिभेदेन शक्तिभेदः । सामान्यतस्तत्पदत्वादिरूपानुपूर्वीविशेषावच्छेदेनैवोभयसंबन्धावच्छिन्नबोधविषयतानिरूपित संकेतप्रकारता ग्राह्येति न व्युत्पत्त्यनुपपत्तिः ।
खारयितुः = अन्यदस्मत्पदोच्चारयितुरपि मैत्रादेः प्रतीतिः स्यादेव - मैत्रत्वादेरपि सामान्यत उच्चार यितृतावच्छेदकत्वात् न चैतदिष्टमित्येतदतिप्रसङ्गवारणाय यदि स्वजन्यबोधाश्रयतया = युष्मत्पदजन्यबोधाश्रयतया युष्मत्पदप्रयोक्त्रऽभिप्राय विषयतावच्छेदकत्वरूपं यत् स्वसंवोध्यतावच्छेदकत्वम्= तद्युष्मत्पदसंबोध्यतावच्छेदकत्वं तदुपलक्षितो यश्चैत्रत्वादिधर्मस्तदवच्छिन्ने चेत्रादौ युष्मत्पदस्य शक्तिः स्त्रीक्रियते, स्त्रोचारणकर्तृत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने च चैत्रादात्रस्मत्पदस्य शक्तिः स्वीक्रियते तदा स्वत्वान्तर्भावेन – स्वपदार्थस्यान्तर्भावेन पूर्ववदऽननुग मस्तदवस्थ एव अननुगमाद् व्युत्पत्तिविरोधोपि । स्वपदस्य तत्तद्व्यक्तिपरतया तत्तद्युष्मत्पदास्मरणदव्यक्तिभेदेन शक्तिभेदोपि स्यादेवेत्युभयतः पाशारज्जुरित्यन्वयः । स्वोचारणेत्यत्र स्वपदेन तदस्मत्पदव्यक्तिग्राह्या ।
तदादिपदस्थ प्रदर्शितं दोषं प्रथमं परिहरति--नेति, तत्तदादिपदजन्यबोधे स्त्रोचारणानु - कूला = तत्तदादिपदोचारणानुकूला या बुद्धिस्तादृशबुद्धौ प्रकारीभूतं यद् घटत्वादिकं तदवच्छिन्न'विषयताकत्वमप्यस्ति स्वजन्यत्वम्= तत्तदादिपदजन्यत्वमप्यस्तीति ' तदादिपदात् स्त्रोच्चारणानुकूलबुद्धिनकारावच्छिन्न (स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्न ) विषयकत्वस्वजन्यत्व - तदुभयसंबन्धेन तदादिपदविशिष्टो बोधो भवतु इत्याकारकस्तदादिसर्वनामपदप्रकारको वोधविषयकः =बोध विशेष्यकः संकेत: स्वीक्रियते तत्र च संकेते स्वपदार्थस्य संबन्धघटकतया तत्तत्पदव्यक्तित्वेन रूपेण पदानां न संकेतविषयता येन प्रदर्शितः शक्तिमेदोऽननुगमश्च स्यात् किं तु तत्तत्पदत्वादिरूपा या तकारोत्तरत्काररूपा पदानुपूर्वी तादृशानुपूर्वीविशेषेणैव तादृशकिशेषानुपूर्वी रूपेणैव तदादिपदानां संकेतविषयतास्ति सा चानुपूर्वी सर्वेषु तदादिपदेष्वनुगतरूपैवेति न पदव्यक्तिभेदेन शक्तिभेदः । उक्तोभयसंवन्धावच्छिन्ना या बोधविषयता-बोधनिष्ठा विशेष्यता तादृशविशेष्यता निरूपित संकेतीयप्रकारता च सामान्यतस्तत्पदत्वादिरूपानुपूमविशेषावच्छेदेनैव तदादिपदे ग्राह्यतेति न व्युत्पत्त्यनुपपत्तिः नाम यस्य तदादिपदस्य शक्तिमहो
A