________________
तत्पदम, j
शक्तिवादः ।
(१०७ )
विषयिका प्रतीतिः सर्वनाम्ना न जन्यतेऽपि तु यो यदा यस्य बुद्धिस्थस्तदा तदुच्चरितपदात् तत्प्रकारावच्छिन्नविषयिकैव' इतिनियमानुपपत्तिः, स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नस्य शक्तिविषयत्वे च स्वपदस्य तत्तद्व्यक्तिपरतया तत्तत्पदव्यक्तिभेदेन शक्तिभेदप्रसङ्गः अननुगमाद् व्युत्पत्तिविरोधश्च ।
+
एवम् 'युष्मदस्मत्पदयोरात्ममात्रे न शक्तिरऽपि तु स्वसंबोध्योच्चारणकर्त्रीरेवेति संबोध्यतावच्छेदकत्वोच्चारयितृतावच्छेदकत्वरूपानुगतधर्मोपलक्षितचैत्रत्वादिकमेव प्रवृत्तिनिमित्तम् ' इत्यप्य संगतम् - सामान्यतः संबोध्यतावच्छेदकत्वादेरनुगred चैत्रस्य युष्मत्पदसंबोध्यता तस्माद् युष्मत्पदात् पदान्तरसंबोध्यमैत्रादेः चैत्रोच्चारितादस्मत्पदात् पदान्तरोच्चारयितुश्च मैत्रादेः प्रतीतिप्रसङ्गो तथा च 'शक्तिभ्रमं विना कालान्तरीणपुरुषान्तरीणबुद्धिविषयतावच्छेदकधर्मावच्छिन्नविषयिका प्रतीतिः सर्वनाम्ना न जन्यते किं तु योग् यदा यस्य बुद्धिस्थस्तदा तदुच्चरितपदात् तत्प्रकारावच्छिन्नविषयिकैव प्रतोतिर्जायते' इति नियमो नोपपद्येत यदि च स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदशक्यः स्यात्तदा कालान्तरीणबुद्धेः पुरुषान्तरीयबुद्वेश्च स्वोच्चारणानुकूलत्वाभावादुक्त नियमोपपत्तावपि स्वपदस्य तत्तद्व्यक्तिविशेषपरतया प्रकृते तत्तत्तदा दिपदव्यक्तिभेदेन शक्तिभेदः स्यादेव तेन च तदादिपदस्य नानार्थत्वप्रसङ्गः, तथा तत्तत्तदादिपद व्यक्तिभेदेनाननुगम: नाम कस्यचित् तदादिपदस्य शक्तिग्रहेपि कस्यचिच्छक्तिग्रहो न स्यादेवेति तादृशतदादिपदाद् व्युत्पत्तिविरोधः शाब्दबोधानुपपत्तिः । किं वा स्वपदप्रवेशेन स्वोच्चारणानुकूलबुद्धिविष यतावच्छेदकधर्मावच्छिन्नानां घटादीनामननुगमाद् व्युत्पत्तिविरोधो नाम कस्य चिद् घटादेः शक्तिग्रहविषयस्य तदादिपदाद् वोधसंभवेपि तदतिरिक्तघटादेस्तदादिपदाद् बोधो न स्यादेव तत्र शक्तिप्रभावादित्युभयतः पाशारज्जुरित्यर्थः । अत्र कालान्तरीणत्वस्य पुरुषान्तरीयत्वस्य च बुद्धावन्वयः ।
उक्तदोषं युष्मदस्मत्पदयोरप्यतिदिशति- एवमिति, युष्मत्पदस्यात्ममात्रे शक्तिस्वीकारे ह्यसंबोध्यस्यापि युष्मत्पदाद् बोधः स्यात्, अस्मत्पदस्यात्ममात्रे शक्तिस्वीकारे तूष्णीं स्थितस्याप्य - स्मत्पदाद् बोधः स्यादितिदोषः । स्वसंवोध्योच्चारणकर्त्री रिति-- स्वसंबोध्ये युष्मत्पदस्य स्वोच्चारणकर्तीरं चास्पदस्य शक्ति:, तथा च संबोध्यतावच्छेदकत्वो पलक्षित चैत्रत्वादिकं युष्मरपदस्य प्रवृत्तिनिमित्तम् उच्चारयितृतावच्छेदकत्वोपलक्षित चैत्रत्वादिकं चास्मत्पदस्य प्रवृत्तिनिमित्तम्, संबोध्यतावच्छेदकत्वमुच्चारयितृतावच्छेदकत्वं चानुगतधर्म इत्यन्वयः । उक्तनियमस्याऽसंगतत्वे हेतुमाह-- सामान्यत इति, सामान्यतः संबोध्यतावच्छेदकत्वस्य युष्मत्पदप्रवृत्तिनिमित्तानुगमकत्वे चैत्रस्य यद्युष्मत्पदसंबोध्यता तस्माद् युष्मत्पदात् पदान्तरसंवोध्यस्य = अन्य युष्मत्पदसंबोध्यस्यापि मैत्रादेः प्रतीतिः स्यात् - मैत्रत्वादेरपि सामान्यतः संबोध्यतावच्छेदकत्वात्, सामान्यत उच्चारयितृतावच्छेदकत्वस्य चास्मत्पदप्रवृत्तिनिमित्तानुगमकत्वे चैत्रोच्चारितादस्मत्पदात् पदान्तरो