________________
सादर्शः
[ विशेषकाण्डेत्वानन्तर्भावेन सामान्यतस्तद्विषयकस्मृतौ तद्विषयकत्वेनैव संस्कारानुभक्योहेतुतापतेः । रामरावणादिपदेभ्यश्च लक्षणया तत्तत्पदार्थत्वादिप्रकारक एवान्वयबोधः । वस्तुतस्तु- अनुगतोद्बोधकस्थले स्वरूपतस्तत्प्रकारकशक्तिज्ञानासत्त्वपि स्वरूपतस्तत्मकारकस्मरणापस्या तत्र ताशज्ञानस्य हेतुत्वमावश्यकमित्यलमतिपल्लवितेन ।
अथ सामान्यतो वक्तृबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्य सर्वनामशक्यत्वे 'शक्तिभ्रमं विना कालान्तरीणपुरुषान्तरीणबुद्धिविषयतावच्छेदकधर्मावच्छिन्नशयोः परित्यागेन सामान्यतस्तद्विषयकस्मृति प्रति तद्विपयकत्वेन-सामान्यतस्तद्विषयकसंस्कारानुभवयोहेतुत्वं स्यात् तथा च 'घटघटत्वे' इत्याकाराभ्यामपि प्रकारत्वविशेष्यत्वांशाऽनवगाहिंभ्यामनुभवसंस्काराभ्यां घटत्वप्रकारकवट विशेष्यकस्मरण स्पादेव न चैवं संभवतीति तत्प्रकारकतद्विशेष्यकस्मरणं प्रति विशेषरूपेण तत्प्रकारकतद्विशेष्यकानुभवसंस्कारयोः कारणत्वमवश्यं स्वीकार्य तथा च "घटघटत्वे' इत्याकारकसामान्यांनुभवसंस्काराभ्यां बटत्वप्रकारकघटविशेष्यकस्मरणस्यापत्तिर्नास्ति, तथा च यादृशधर्मप्रकारकावनुभवसंस्कारौ भवतस्तादृशधर्मप्रकारकमेव स्मरणं जायते इतिसिद्धम् । तदादिपदस्थळे यथा स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधौ भवतस्तत्पूर्वमेव प्रतिपादितम् । बुद्धिविषयतावच्छेदकत्वस्योपलक्षणत्वाच्छाब्दबोधे भानं न भवतीति न तदंशप्रमोषादिकल्पनाऽपेक्षेतिसारः । रामादिपदशाब्दबोध स्वमतेनाह- रामेति, रामादिपदानां रामादिव्यक्तौ शक्तिग्रहाभावेन शक्त्या शाब्दबोधासंभवेपि रामादिपदेभ्यो लक्षणया तत्तत्पदार्थत्वादिप्रकारक: रामपदवाच्यत्वादिप्रकारकः किं वा स्वरूपतो रामत्यादिप्रकारकः शाब्दबोधो जायते इत्यर्थः । स्मृतेविलक्षणप्रकारतायामुद्रोधकविशेषस्य प्रयोजकत्वानङ्गीकारे युक्त्यन्तरमाह-वस्तुतस्त्विति, अनुगतोद्बोधकस्थले इति- याद्बोधकविशेषवैचित्र्यमेव स्मृतिविशेष प्रति प्रयोजकं स्यात्तदा हस्तिपको यथा स्वरूपतो हस्तित्वप्रकारकसंस्कारस्योद्बोधकोस्ति तथा जातित्वोपलक्षितहस्तित्वप्रकारकस्यापि 'जातिमान् हस्तिपकसंबन्धी' इत्यनुभवेन जातस्य संस्कारस्योद्बोधकोस्तीत्युभयविधसंस्कारोबोधकत्वाद्धस्तिपकोऽनुगत उद्बोधकोस्ति तादृशानुगतोद्वोधकस्थले खरूपतस्तद्धर्मप्रकारकशक्तिज्ञानासत्त्वेपि स्वरूपतस्तत्प्रकारकस्मरणं स्यादेव- धर्मान्तरावच्छिन्नधर्मप्रकारकसंस्कारोबोधकस्यैव स्वरूपतस्तद्धर्मप्रकारकसंस्कारोद्बोधकत्वात्, न चैवं स्वरूपतस्तपकारकशक्तिज्ञानासत्त्वे स्वरूपततत्प्रकारकस्मरणं जायते इति तत्र स्वरूपतस्तत्प्रकारकस्मरणे तादृशज्ञानस्य-स्वरूपतस्तत्प्रकारकशक्तिज्ञानस्य स्वरूपतस्तत्प्रकारकानुभवसंस्कारयोर्हेतुत्वमावश्य. कमेचेति स्मृतेविलक्षणप्रकारतायामुद्बोधकविशेषस्य प्रयोजकत्वं नाश्रयणीय मित्यर्थः । पल्लवितेन= विस्तरेण ।
शकते-- अथेति, यदि सामान्यतो वक्तबुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः स्यात्तदैतत्त. दादिपदात् कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्यापि घटादेबोधः स्यादेव