________________
तत्पदम् ]
शक्तिवादः ।
( १०५ तिविशेषावच्छिन्नवाचकमनःप्रभृतिपदेभ्योऽस्माकं शाब्दधीः । तत्र जातित्वादिना जातिविशिष्टे शक्तिग्रहेण प्रमुष्टजातित्वांशं मनस्त्वादिप्रकारेण स्मरणमिति तत्रापि (अत्रापि ) विशेषणांशप्रभोषमन्तरेण गत्यन्तराभावादिति वदन्ति ।
विवदन्तेप्यत्र च बहवो विद्वांसः - स्मृतेर्विलक्षणप्रकारतायां संस्कारानुभवयोस्तादृशप्रकारताप्रयोजकत्वस्योद्बोधकविशेषप्रयोजकतामाश्रित्योच्छेदने विशेव्यविशेषणभावशिष्युद्बोधकविशेषस्यैव नियामकत्वसम्भवात्, प्रकारत्वविशेष्य
त्योपलक्षितमनस्त्वप्रकारक एव शाब्दबोधः स्यात्, 'अस्ति सुखादिसाक्षात्कारणं किंचित् मनःपदवाच्यम्' इत्येवं मनःपदशक्तिज्ञानं जायते तच्च सुखादिसाक्षात्कारणत्वो पलक्षितमनस्त्वप्रकारक - मेव । ' आसीद्रामपदवाच्यः ' इत्याकारकमेव रामपदशक्तिज्ञानं जायते तच रामपदवाच्यत्वोपलक्षितरामत्य प्रकारकमेवेत्यनुसंधेयम् । स्मृतिविशेषभावाभावो प्रत्युद्बोधकविशेषभावाभावयोः प्रयोजकत्वे तु रामपदवाच्यत्वोपलक्षितरामत्वप्रकार के शक्तिज्ञानेन संस्कारे जातेपि रामपदवाच्यत्त्रांशस्योद्बोधकाभावात् स्मृतिप्रमोषे जाते रामपदादस्माकं स्वरूपतो रामत्वप्रकारकस्मरणशाब्दबोधी संभवतः । एवमेव रावणादिपदेपि विज्ञेयम् । मनःपदात् स्वरूपतो मनस्वप्रकारक - स्मरणोपायं स्त्रयमप्याह-तत्रेति, तत्र = मनःप्रभृतिपदस्थले किंवा मनति । जातित्यादिना जातिविशिष्टे= सुखादिसाक्षात्कारणत्योपलक्षितमनस्त्वजातिविशिष्ट मनसि मनः पदशक्तिप्रहेण सुखादिसाक्षात्कारणत्वोपलक्षितमनस्त्वप्रकारकसंस्कारे जातेपि सुखादिसाक्षात्कारणत्वांशस्योद्बोधकाभावात् स्मृतिप्रमोषे जाते मनःपदादस्माकं प्रमुष्टजातित्वांशम् प्रमुष्टसुखादिसाक्षात्कारणत्वांश स्वरूपतो मनत्वप्रकारकं स्मरणं तेन स्वरूपतो मनस्त्वप्रकारक शाब्दबोधश्च संभवतीत्यर्थः । तथा च यथा रामादिपदस्थळे स्वरूपतो रामत्वादिप्रकारकस्मरणशाब्दबोधयोः रामत्यादिविशेषणीभूतस्य रामपदवाच्यत्वाद्यंशस्य स्मृतिप्रमोषं विना गतिर्नास्ति तथा तत्रापि = तदादिपदस्थलेपि घटत्वादिविशेषणीभूतस्य बुद्धिविषयतावच्छेदकत्वांशस्य स्मृतिप्रमोषं विना तदादिपदात् स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबो प्रयोर्गत्यन्तरम् = उपायान्तरं नास्त्येवेत्याह- तत्रापीति, अत्र ' तथात्रापि ' इत्येवं पाठो युक्तः । " वदन्ति" इत्यस्य पूर्वोक्तेन " केचित्तु " इत्यनेनान्वयः । "केचित्तु" इत्यादिनोक्तमतमाक्षिपति - विवदन्ते इत्यादिना । अत्रापीत्यन्वयः । स्वरूपतस्तद्धर्मप्रकारकसंस्कारस्योद्बोधके सति स्वरूपतस्तद्धर्मप्रकारकं स्मरणं विशेषणान्तरावच्छि नतद्धर्मप्रकारक संस्कारस्योद्बोधके च सति विशेषणान्तरावच्छिन्नतद्धर्मप्रकारकं स्मरणं जायते इत्येवं स्मृतेर्निलक्षणप्रकारतायामुद्बोधक विशेषस्य प्रयोजकतामाश्रित्य यादृशधर्मप्रकारकावऽनुभवसंस्कारौ भवतस्तादृशधर्मप्रकारकमेव स्मरणं जायते इत्येवं स्मरणे संस्कारानुभवयोस्तादृशप्रकारताप्रयोजकत्वस्य स्वसमानप्रकारताप्रयोजकत्वस्योच्छेदने - परित्यागे कृते विशेष्यविशेषणभावांशेप्युद्बोधकविशेषस्यैव नियामकत्वं स्वीकार्य न त्वनुभवसंस्कारयोः, तथा च प्रकारत्वविशेष्य -- स्वानन्तभावेन नाम घटत्वादौ यत् प्रकारत्वं घटादौ यद् विशेष्यत्वं तयोः प्रकारत्वविशेष्यत्वा
-