________________
( १०४)
सादर्श:
[ पिशेषकाण्डेदिप्रकारकात संस्कारात् कदाचित् स्वरूपतो घटत्वाद्यप्रकारकस्य 'जातिमान् ' इत्याकारकस्य स्मरणस्योदयेन स्वरूपतस्तत्पकारिकायां स्मृतौ तादृशानुभवसंस्कारयोविशिष्य हेतुत्वेप्युद्धोधकविशेषविरहस्य तादृशस्मृतिविरहप्रयो। जकताया आवश्यकत्वात् तादृशहेतुताया अप्रामाणिकत्वात् । कथमन्यथा विशेषणान्तरानवच्छिन्नाऽस्मदाद्यदृष्टशरीरविशेषनिष्ठ जातिविशेषावच्छिन्नसंकेतितरामरावणादिपदेभ्यो वाक्यार्थधीरस्माकम् ? कथं वा निर्विशेषणकातीन्द्रियजाप्रकारिकायां स्मृतौ वटत्वादिप्रकारकस्मृति प्रति तादृशानुभवसंस्कारयोः स्वरूपतो घटत्वादिप्रकारकानुभवसंस्कारयोविशेषरूपेण हेतुत्वेपि यदि स्मृतिविशेष प्रत्युद्धोधकविशेषस्य स्मृतिविशेषाभावं प्रति चोरोधकविशेषाभावस्य प्रयोजकत्वं न स्यात्तदा यस्य पुरुषस्य स्वरूपतो घटत्वादिप्रकारकानुभवजन्यः संस्कारोप्यस्ति जातित्वादिना घटत्वादिप्रकारकानुभवजन्योपि संस्कारोस्ति तस्य पुरुषस्य यत् कदाचिजातिवादिना रूपेण घटत्वादिप्रकारकात् संस्कारात स्वरूपतो घटत्वाद्यप्रकारकं जातित्वेनैव घटत्वादिप्रकारकम् ' जातिमान् ? इत्याकारकं स्मरणं जायते तन्नो. पपद्येत- उक्तोभयविधयोः संस्कारयोः सत्त्वात् घटः ' इत्याकारकम् — जातिमान् ' इत्याकारकं चोभयविधमेव स्मरणं स्याद्, उद्बोधकवैचित्र्यस्य प्रयोजकत्वे तु जातिवादिना घटत्वप्रकारकसंस्कारमात्रस्योद्बोधकसमवधानसमये स्वरूपतो घटस्वाद्यप्रकारकम् ' जातिमान् ' इत्याकारकं स्मरणं जायते. स्वरूपतो घटत्वादिप्रकारकसंस्कारस्य चोद्वोधकाभावात् 'बटः' इत्याकारकं स्वरूपतो घटत्वादिप्रकारकं च स्मरणं न जायते इत्युपपद्यते इत्युद्बोधकविशेषविरहस्य तादृशस्मृतिविशेषविरहप्रयोजकताऽवश्यं स्वीकार्या तथा च : तादृशहेतुताया: स्वरूपतस्तत्प्रकारकस्मरणं प्रति स्वरूपतस्तत्यकारकानुभव संस्कारयोर्हेतुता यदुक्ता सा न प्रामाणिकीत्यर्थः । विपक्षे बाधकमाह- कथमन्यथेति, यदि स्वरूपतस्तद्धर्मप्रकारकस्मरणशाब्दवोधौ प्रति स्वरूपतस्तद्धर्मप्रकारकानुभवसंस्कारयोरेव कारणत्वं स्याद् उद्बोधकवैचित्र्यस्य च प्रयोजकत्वं न स्यात्तदा विशेषणान्तरानवच्छिन्ना याऽस्मदाद्यदृष्टामरावणादिशरीरविशेषनिष्ठा रामत्वरावणवादिरूपा जातिस्तादृशजातिविशेषावच्छिन्ने रामरावणादिशरीरे संकेतितेभ्यो रामरावणादिपदेभ्योऽस्माकं स्वरूपतो रामत्वरावणत्वादिप्रकारकशाब्दबोधो न स्यात्,तथा निर्विशेषणका=विशेषगान्तरानवच्छिन्ना याऽतीन्द्रिया=इन्द्रियजन्यप्रत्यक्षाऽयोग्या मनस्त्वादिजातिस्तादृश जातिविशेषावच्छिन्नं यद् मन:प्रभृति तद्वाचकमनःप्रभृतिपदेभ्योप्यस्माकं स्वरूपतो मनस्त्वादिप्रकारकशाव्दवोधो न स्यादेव किं तु रामपदवाच्यत्वोपळक्षितरामत्वप्रकारकशक्तिज्ञानेन जातो यो रामपदवाच्यत्वोपलक्षितरामत्यप्रकारकसंस्कारस्तादृशसंस्काराद् रामपदवाच्यत्वोपलक्षितरामत्वप्रकारक एव शाब्दबोधः स्यान्न तु स्वरूपतो रामत्वप्रकारकोपि, एवमेव रावणादिपदेपि ध्येयम्, तथा सुखादिसाक्षात्कारणत्यो। पलक्षितमनस्त्वप्रकारकशक्तिज्ञानेन जातो यः सुखादिसाक्षात्कारणत्वोपलक्षितमनस्त्वप्रकारकसंस्कारस्तादृशसंस्कारात् स्वरूपतो मनस्त्वप्रकारकशाब्दबोधो न स्यात् किं तु सुखादिसाक्षात्कारण,