________________
तत्पदम्] शक्तिवाद।
(१०३) प्रत्यासत्त्यऽधीनशक्तयऽनुभवे प्रमुष्टबुद्धिविषयतावच्छेदकत्वांशं स्वरूपतश्चैत्रत्वादिप्रकारकस्मरणं निराबाधमेवेति तन्मूलकमेव स्वरूपतोऽपूर्वचैत्रत्वादिप्रकारक शाब्दज्ञानं भविष्यतीति किमनुपपन्नम् ? स्वरूपतस्तत्प्रकारकस्मरणे स्वरूपतस्तत्प्रकारकाऽनुभवसंस्कारयोरनपेक्षणात् । उद्बोधकवैचित्र्यादेव कदाचित् 'जातिमान् ' इत्याकारकं कदाचित् 'घटः ' इत्याकारकं विलक्षणं स्मरणमिति नियमोपपत्तेः।
स्वरूपतो घटत्वादिप्रकारकानुभवजनितसंस्कारवतोपि जातित्वादिना घटत्वास्वपटत्वादिसकलधर्मविषयके सामान्यप्रत्यासत्त्या शक्त्यनुभवे= बुद्धिविषयतावच्छेदकत्वविशिष्टधर्मावच्छिन्नस्तत्पदशक्यः : इत्याकारके शक्तिज्ञाने जाते तत्र बुद्धि विषयतावच्छेदकत्वांशस्य प्रमोषेण स्वरूपतश्चैत्रत्वादिप्रकारकं स्मरणं निराबाधमेवेति तन्मूलकमेव स्वरूपतश्चैत्रत्वादिप्रकारकस्मरणेन स्वरूपतश्चैत्रत्वादिप्रकारकशाब्दबोधे न काचिदनुपपत्तिरित्यर्थः । अननुभूतस्य स्मरणं न भवतीति नियमसत्त्वेष्यनुभूतस्य स्मरणं भवत्येवेति नियमाभावाद् बुद्धिविषयतावच्छेदकत्वविशिष्टघटत्वाद्यवच्छिन्नेपि तदादिपदस्य शक्तिप्रहे जाते घटत्वादिविशेपणीभूतबुद्धिविषयतावच्छेदकत्वांशविषयकसंस्कारनाशेन बुद्धिविषयतावच्छेदकत्यांशस्य विस्मरणे जाते तदादिपदात् स्वरूपतो घटस्वादिप्रकारकस्मरणशान्दबोधयोर्न काचिदनुपपत्तिः, शक्तिज्ञानस्मरणशाब्दबोधानां समानाकारकत्वनियमात् शक्तिज्ञानविषयीभूतबुद्धिविषयतावच्छेदकत्वांशस्य प्रमोषेण स्वरूपतो घटत्वादिप्रकारकस्यैव शक्तिज्ञानस्य परिशिष्टत्वादितिभावः । उक्तानुपपत्त्यभावे हेतुमाह- स्वरूपत इति, स्वरूपतस्तद्धर्मप्रकारकस्मरणं प्रति स्वरूपतस्तद्धर्मप्रकारकानुभवस्य तादृशानुभवजन्यस्य स्वरूपतस्तद्धर्मप्रकारकसंस्कारस्य च नियमेनापेक्षा नास्तीति बुद्धिविषयतावच्छेदकत्वविशिष्टघटत्यादिग्नकारकेप्यनुभवे तजन्यसंस्कारे च जाते बुद्धिविषयतावच्छेदकत्वांशप्रमोषेण स्वरूपतो घटत्वादिप्रकारकस्मरणशाब्दबोधयोन का चिदनुपपत्तिरित्यर्थः । ननु यदि स्वरूपतो घटस्वादिप्रकारकस्मरणं प्रति स्वरूपतो घटत्वादिप्रकारकानुभवसंस्कारयोर्नाऽपेक्षा किं तु बुद्धिविषयतावच्छेदकत्वांशप्रमोष एव कारणं तदा सर्वत्रैव घटत्वादिविशेषणीभूतजातिवाद्येशस्य प्रमोषसंभवेन स्वरूपत एव घटत्वादिप्रकारकं स्मरणं तदादिपदात्स्यात् जातित्वादिविशिष्ट्घटत्वादिप्रकारकं च 'जातिमान् ' इत्याकारकं स्मरणं न स्यात् , अस्मन्मते च स्वरूपतो घटत्वप्रकारकानुभवसंस्काराभ्यां स्वरूपतः ‘घटः' इत्याकारकं जातित्वविशिष्टघटल्सदिप्रकारकानुभवसंस्काराम्यां च 'जातिमान् ' इत्याकारकं स्मरणमुपपद्यते इत्याशङ्कयाह- उद्घोधकेति, जातित्वविशिष्टवटत्वप्रकारकसंस्कारस्योद्बोधके सति तदुबुद्धसंस्कारात् ' जातिमान् । इत्याकारकं स्मरणं जायते तादृशोद्रोधकाभावे च सति ' घटः' इत्याकारकं स्वरूपतो घटत्वप्रकारकं स्मरणं जायते इति नियम उद्बोधकवैचित्र्यात् संभवत्येवेति न काचिदनुपपत्तिरित्यर्थः ।
उद्बोधकवैचित्र्यस्य स्मरणविशेष प्रति नियामकत्वमुपपादयति-स्वरूपत इति, स्वरूपतस्त