________________
(१०२)
सादर्श:
[विशेषकाण्डेअथैवमपि तत्पदे चैत्रत्वविशिष्टवाचकतासंदेहस्य दुरुच्छेदतया तत्पदादू व्यवहारदर्शनाविषयचैत्रत्वावच्छिन्नविषयकशाब्दबोधो दुरुपपाद एव- तद्धर्मप्रकारकशाब्दबोधे तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वात् . अन्यथा गवादिपदादभ्रान्तस्यापि शक्तया सानादिमत्त्वप्रकारेण शाब्दबोधापत्तेरिति चेत् ?, न- तत्पदप्रयोजकबुद्धिप्रकारतया गृहीतघटत्वपटत्वादिविशिष्टे व्यवहारदर्शनात तत्पदस्य शक्तिं गृहीत्वा यद् यत् पदं यादृशयाशधर्मावच्छिन्नविषयकबुद्धया प्रयुज्यते तत् तत् पदं तत्तद्धर्मविशिष्टशक्तम् ' इति सामान्यतो व्याप्तिमवधारयति तदनन्तरं च प्रत्यक्षगृहीतचैत्रत्वादिविशिष्टविषयकबुद्धिप्रयोज्यत्वं प्रकरणादिना यत्र तत्पदे गृह्णाति तत्र पक्षे तादृशहेतुना चैत्रत्वविशिष्टवाचकत्वस्य प्रागसिद्धस्यापि पक्षधर्मताबलादनुमित्यात्मकनिश्चयेनाऽवगाहनसंभवान्न काप्यनुपपत्तिः।
केचित्तु बुद्धिविषयतावच्छेदकत्वेनाऽनुगतधर्मेण सकलधर्मविषयकसामान्य
रीतकोटेः प्रतिबन्धेन 'चैत्रस्तत्पदशक्यः ' इत्याकारकं निश्चयात्मकं मानसशक्तिज्ञानं संभवत्येव तच्च शक्तिज्ञानं स्वरूपतश्चैत्रत्वप्रकारकमेवेति तेन स्वरूपतचैत्रत्वप्रकारकस्मरणशाब्दवोधयोर्न काचिदनुपपत्तिरिति सारः। . ननूक्तरीत्या तत्पदे बुद्धिविषयतावच्छेदकधर्मविशिष्टवान्चकतानिश्चये जातेति चैत्रत्वविशिष्टवाचकतासंदेहस्य दुरुच्छेदतया तत्पदाद व्यवहारदर्शनाविषयो यश्चैत्रत्वावच्छिन्नस्तद्विषयकश्चैत्रत्वप्रकारकशाब्दबोधो दुरुपपाद एवेत्याशङ्कते–अथैवमपीति । उक्ते हेतुमाह- तद्धर्मेति ! तद्धर्मप्रकारकशाब्दबोधे तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वाभावे बाधकमाह- अन्यथेति । न च गवादिपदादभ्रान्तस्य शक्त्या सानादिमत्त्वप्रकारकशाब्दबोध इष्ट इति तनिरासार्थ तद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वं स्वीकार्य तथा चानान्तस्य गवादिपदे गोत्वादिविशिष्टवाचकतानिश्चयेन सालादिमत्वविशिष्टवाचकतानिश्चयस्याभावादेव गवादिपदाच्छक्तया सास्नादिमत्त्वप्रकारकबोधस्यापत्तिर्नास्ति. एवं प्रकृतेपि तदादिपदे चैत्रत्वविशिष्टवाचकतानिश्चयस्याभावादेव तदादिपदाच्चैत्रत्वादिप्रकारकबोधो दुरुपपाद एवेत्यर्थः । सिद्धान्तेन परिहरति- नेति, तत्पदप्रयोजकस्य तत्पदप्रयोजिका वा या बुद्धिरित्यन्वयः । विशेषशक्तिज्ञानस्य स्वरूपमुक्त्वा सामान्यतः शक्तिज्ञानस्य स्वरूपमाह- यद् यदिति । तदनन्तरम् सामान्यतो व्याप्तिघटितशक्तिजानादनन्तरम् । प्रत्यक्षगृहीतो यश्चैत्रत्वादिविशिष्टस्तद्विषयकबुद्धिप्रयोज्यत्वं प्रकरणादिना यदा तत्पदे गृह्णाति तदा पक्षे तत्पदे तादृशहेतुना प्रत्यक्षगृहीतचैत्रत्वादिविशिष्टविषयकबुद्धिप्रयोज्यत्येन हेतुना प्रागसिद्धस्यापि चैत्रत्वविशिष्टवाचकत्वस्य पक्षधर्मताबलादनुमित्यात्मकनिश्चयेनाऽत्रगाहनसंभवाच्चैत्रत्वादिविशिष्टविषयकशाब्दबोधे न काप्यनुपपत्तिरित्यर्थः ।
मुरारिमिश्रादीनां मतमाह- केचिदिति, बुद्धिविषयतावच्छेदकत्वेनानुगतधर्मेण रूपेण घट