________________
तत्पदम्.]
शक्तिवादः।
(१११.) अथ व्यवहारदर्शनाद्यविषये मनसा शक्तिनिश्चेतुं न शक्यते- विपरीतकोटेरप्युपस्थितिमात्रेण मानसज्ञाने भानसम्भवात् । न चोपस्थितस्यापि बाधितस्य दोषमन्तरेणाऽभानाद् निश्चयस्याप्युपपत्तरितिवाच्यम्, एवं सति शक्तिग्रहे व्यवहारदर्शनाद्यपेक्षोच्छेदापत्तेरितिचेत् ?, न- कतिपय विषयेषु सर्वनामघटितवाक्यात् प्रयोज्यस्य प्रवृत्तिमुपलभमानः प्रवर्तकज्ञानविषये शक्ति कल्पयन् 'बुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदशक्यः' इत्येव सामान्यतोऽवधारयति. एवं च 'चैत्रोऽस्य बुद्धिविषयतावच्छेदकधर्मवान्' इति यदा तेन गृह्यते तदानीमस्य 'चैत्रस्तत्पदवाच्यो न वा' इति संदेहो नावतराति-यादृशधर्मावच्छेदेन यदवधारितं तादृशधर्मनिश्चयस्य स्वसमानर्मितावच्छेदककतद्विरोधिकोदिभानविरोधित्वादिति संभवत्येवाऽपूर्वविषयेपि मानसः शक्तिनिश्चयः ।। त्वात् पूर्ववत् स्वीयोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वमप्यस्त्येव तथा स्वीयविधेयतावच्छेदकं यत तत्पदशक्यत्वं तदवच्छिन्ना या तत्पदशक्यनिष्ठा विधेयता तादृशविधेयताकत्वमप्यस्त्येवेति विज्ञेयमिति श्रीगुरुपादानां प्रतिपादनम् ।
शङ्कते- अधेति । विपरीतकोटे:= 'घटस्तत्पदशक्यो न । इत्याकारककोटेः । तथा च 'घटस्तत्पदशक्यो न बा' इतिसंशय एव स्यान्न तु 'घटस्तत्पदशक्यः' इत्याकारकनिश्चय इतिभावः । शङ्कते- न चेति, तथा चात्र पुरुषे दोषाभावादुपस्थिताया अप्युक्तविपरीतकोटेर्वाधितत्वान्मानसज्ञाने भानं न संभवतीति 'घटस्तत्पदशक्यः' इत्याकारकनिश्चयः संभवत्येवेत्यर्थः । परिहारमाह- एवमिति, यदि व्यवहारदर्शनाविषयेपि वटादौ मनसा शक्तिनिश्चयः स्यात्तदा शक्तिग्रहे व्यबहारदर्शनादेरपेक्षाया उच्छेद एव स्यात् न चैतदिष्टमिति न मनसा व्यवहारदर्शनाद्यविषये शक्तिनिश्चयः संभवतीत्यर्थः । अथेत्यनेन प्रदर्शितामाशकां निराकरोति-- नेति, कतिपयविषयेषु घटादिषु । प्रयोज्यस्य प्रयोज्यवृद्धस्य । प्रवृत्तिमुपलभमानः पार्थस्थो बालः । प्रवर्तकज्ञानविषये प्रयोजकवृद्धज्ञानविषये घटादौ । सामान्यशक्तिज्ञानस्य स्वरूपमाहबुद्धिविषयतेति । स्वाभिप्रायमाह- एवं चेति । अस्य प्रवर्तकस्य । तेन पार्श्वस्थबालेन । अस्य= पार्श्वस्थबालस्य । संदेहानवतारे हेतुमाह- योदशेति, यादृशधर्मावच्छेदेन यथा बुद्धिविषयताबच्छेदकधर्मावच्छेदेन चैत्रादौ यत्-तदादिपदवाच्यत्वमवधारितं तादृशधर्मनिश्चयस्य= चैत्रोऽस्य बुद्धिविषयतावच्छेदकधर्मवान् ' इत्याकारकस्य बुद्धि विषयतावच्छेदकधर्मवत्त्वनिश्चयस्य, स्वेतिर स्वमुक्तनिश्चयस्तस्य धर्मितावच्छेदकं चैत्रत्वमिति स्वसमानधर्मितावच्छेदकमपि चैत्रत्वमेव स्वसमानधर्मितावच्छेदकिका या तद्विरोधिकोटि: तदादिषदवाच्यत्वं यदबधारितं तद्विरोधिभूता या " चैत्रस्तत्पदशक्यो न ' इत्याकारा विपरीतकोटिस्तद्भानविरोधित्वात् । अपूर्वविषये व्यवहारदर्शनाद्यविषये । 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः ' ' चैत्रश्च बुद्धिविषयतावच्छेदक'धर्मवान् ' इत्याकारकनिश्चये जाते तादृशनिश्चयेन 'चैत्रस्तत्पदशक्यो न ' इत्याकारकविप