Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 130
________________ - - (१२२) सादर्श: [विशेषकाण्डेतर्हि स्वातन्त्र्यमुच्चारणविशेषणं संबोध्यत्वघटकेच्छायां निरुक्तेच्छानधीनत्वादिविशेषणं च त्याज्यमेव, “ मया त्वयि हतेव" इत्यादौ तात्पर्यविरहादेवाइनुवादकतत्संबोध्ययोः " मया त्वयि " इत्यादिना प्रतिपादनोपपत्तेः। .. न चैवं बुद्धिविषयतावच्छेदकरूपावच्छिन्ने एव युष्मदस्मदोरपि शक्तिरास्त किं संबोध्यत्वोच्चारयितृतावच्छेदकावच्छिन्ने शक्तिस्वीकारेण ? तात्पर्यत एवातिप्रसङ्गभङ्गसम्भवादिति वाच्यम्, तात्पर्यसत्वेपि चैत्रोचारितात् 'अहं करोमि' मया श्रुतम् । इति मैत्रायुक्तवाक्ये च चैत्रे वास्यान्तरस्थक्रियाकर्मत्वमपि नास्ति निरुक्तेच्छाविषयवरूपसंबोध्यत्वमपि नास्तीत्यत्र त्ययेतियुमत्पदेनेष्टा चैत्रप्रतीतिः कथमुपपद्यतेत्यर्थः । तत्युष्मच्छन्दन चैत्रप्रतिपादनम् । उत्तरमाह-तर्हिति, स्वातन्त्र्यमुच्चारणविशेषणं त्याज्यं तथा चोचारणकर्तर्यऽस्मत्यदस्य शक्तिरितिप्राप्तं तत्र ‘अहमत्रास्मीति मैत्रो जानाति ' इत्यत्र चैत्रे स्वघटितवाक्यार्थकर्मकक्रियाकर्तृत्वस्य निरुक्तस्वतन्त्रोच्चारणकर्तृत्वस्य चाऽभावेपि सामान्यत उच्चारणकर्तत्वमस्त्येवेति तेनैवात्राऽहंपदेन ' चैत्रस्य प्रतीतिरुपपद्यते, संबोध्यत्वघटकेच्छायामपि निरुक्तेच्छानधीनत्वादिविशेषणं त्याज्यं तया च ' युष्मत्यदघटितवाक्यजन्यप्रतीत्याश्रयत्वेनेच्छाविषयत्वं संबोध्यलमेतादृशसंबोध्यतावति युष्मापदस्य शक्तिः । इतिप्राप्तं तत्र 'चैत्र त्वया भुक्तमिति मया श्रुतम् । इत्यत्र चैत्रे वाक्यान्तरस्थ क्रियाकर्मत्वस्य निरुक्तेन्छाविषयत्वरूपसंबोध्यत्वस्य चाभावेपि सुष्मत्पदवटितवाक्यजन्यप्रतीत्याश्रयत्वेनेच्छाविषयत्वरूपसंबोध्यत्वस्य सत्त्वात् तेनैवात्र त्ययेतियुष्मत्पदेन चैत्रस्य प्रतीतिरुपपद्यते इत्यर्थः । नन्वेवम् “ मया त्वयि " इत्यत्रोचारणकर्तत्वादस्मत्पदेन ऋषेत्रोधः स्यात् संबोध्यत्वाच्च युष्मत्पदेन सुरथस्यापि बोधः स्यादित्याशङ्कयाह- मयेति, शाब्दबोधं प्रति वक्तृतात्पर्यज्ञानस्यापि कारणत्वमस्तीति प्ररप्रेः " मया त्वयि " इत्यत्रास्मत्पदेन मम युष्मत्पदेन च सुरथस्य बोधो भवविल्याकारकतात्पर्याभावादेवास्मत्पदेनयुष्मत्पदेन च सुरथस्याऽप्रतिपादनमुपपद्यते इत्यर्थः। ननु यदि तात्पर्यज्ञानबलादेवातिप्रसङ्गादिनिवृत्तिरुक्तरीत्या संभवति तदा तत्पदवद् युष्मदस्मत्पदयोरपि बुद्धिविषयतावच्छेदकल्योपलक्षितधर्मावच्छिन्ने एव शक्तिरम्त्यिति संबोध्यतावच्छेदकावच्छिन्ने युष्मत्पदस्योचारयितृतावच्छेदकावच्छिन्ने चास्मत्पदस्य शक्तिस्वीकारेण किं प्रयोजनम् ? इत्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह- तात्पर्यसत्त्वेपीति, तात्पर्यस्प वऋधीनत्वात् 'अहं करोमि' इति मदुक्तवाक्यघटकाहंपदेन मैत्रस्य बोधः स्यादित्याकारकचैत्रतात्पर्यसत्त्वेप्युच्चारयितत्वभ्रमं विना 'अहं करोमि' इत्यादिचत्रोचारतवाक्यघटकाहंपदेन मैत्रस्य बोधः सर्वानुभवविरुद्ध एवेत्युच्चारयितृतावच्छेदकावच्छिन्ने एवास्मत्पदस्य शक्तिर्युक्ता तथा चात्रोचारयितृत्वाभावान्नाहपदेन मैत्रबोधापत्तिः, बुद्धिविषयतावच्छेदकरूपावच्छिन्ने शक्तौ तूच्चारयितृत्वभ्रनं विनाय्यत्राहंपदेन मैत्रस्य बोधः स्यादेव-मैत्रस्यापि बुद्धिविषयतावच्छेदकरूपावच्छिन्नत्वात् । एवं चत्रं बोधयितुं

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216