________________
-
-
(१२२)
सादर्श:
[विशेषकाण्डेतर्हि स्वातन्त्र्यमुच्चारणविशेषणं संबोध्यत्वघटकेच्छायां निरुक्तेच्छानधीनत्वादिविशेषणं च त्याज्यमेव, “ मया त्वयि हतेव" इत्यादौ तात्पर्यविरहादेवाइनुवादकतत्संबोध्ययोः " मया त्वयि " इत्यादिना प्रतिपादनोपपत्तेः। ..
न चैवं बुद्धिविषयतावच्छेदकरूपावच्छिन्ने एव युष्मदस्मदोरपि शक्तिरास्त किं संबोध्यत्वोच्चारयितृतावच्छेदकावच्छिन्ने शक्तिस्वीकारेण ? तात्पर्यत एवातिप्रसङ्गभङ्गसम्भवादिति वाच्यम्, तात्पर्यसत्वेपि चैत्रोचारितात् 'अहं करोमि' मया श्रुतम् । इति मैत्रायुक्तवाक्ये च चैत्रे वास्यान्तरस्थक्रियाकर्मत्वमपि नास्ति निरुक्तेच्छाविषयवरूपसंबोध्यत्वमपि नास्तीत्यत्र त्ययेतियुमत्पदेनेष्टा चैत्रप्रतीतिः कथमुपपद्यतेत्यर्थः । तत्युष्मच्छन्दन चैत्रप्रतिपादनम् ।
उत्तरमाह-तर्हिति, स्वातन्त्र्यमुच्चारणविशेषणं त्याज्यं तथा चोचारणकर्तर्यऽस्मत्यदस्य शक्तिरितिप्राप्तं तत्र ‘अहमत्रास्मीति मैत्रो जानाति ' इत्यत्र चैत्रे स्वघटितवाक्यार्थकर्मकक्रियाकर्तृत्वस्य निरुक्तस्वतन्त्रोच्चारणकर्तृत्वस्य चाऽभावेपि सामान्यत उच्चारणकर्तत्वमस्त्येवेति तेनैवात्राऽहंपदेन ' चैत्रस्य प्रतीतिरुपपद्यते, संबोध्यत्वघटकेच्छायामपि निरुक्तेच्छानधीनत्वादिविशेषणं त्याज्यं तया च ' युष्मत्यदघटितवाक्यजन्यप्रतीत्याश्रयत्वेनेच्छाविषयत्वं संबोध्यलमेतादृशसंबोध्यतावति युष्मापदस्य शक्तिः । इतिप्राप्तं तत्र 'चैत्र त्वया भुक्तमिति मया श्रुतम् । इत्यत्र चैत्रे वाक्यान्तरस्थ क्रियाकर्मत्वस्य निरुक्तेन्छाविषयत्वरूपसंबोध्यत्वस्य चाभावेपि सुष्मत्पदवटितवाक्यजन्यप्रतीत्याश्रयत्वेनेच्छाविषयत्वरूपसंबोध्यत्वस्य सत्त्वात् तेनैवात्र त्ययेतियुष्मत्पदेन चैत्रस्य प्रतीतिरुपपद्यते इत्यर्थः । नन्वेवम् “ मया त्वयि " इत्यत्रोचारणकर्तत्वादस्मत्पदेन ऋषेत्रोधः स्यात् संबोध्यत्वाच्च युष्मत्पदेन सुरथस्यापि बोधः स्यादित्याशङ्कयाह- मयेति, शाब्दबोधं प्रति वक्तृतात्पर्यज्ञानस्यापि कारणत्वमस्तीति प्ररप्रेः " मया त्वयि " इत्यत्रास्मत्पदेन मम युष्मत्पदेन च सुरथस्य बोधो भवविल्याकारकतात्पर्याभावादेवास्मत्पदेनयुष्मत्पदेन च सुरथस्याऽप्रतिपादनमुपपद्यते इत्यर्थः।
ननु यदि तात्पर्यज्ञानबलादेवातिप्रसङ्गादिनिवृत्तिरुक्तरीत्या संभवति तदा तत्पदवद् युष्मदस्मत्पदयोरपि बुद्धिविषयतावच्छेदकल्योपलक्षितधर्मावच्छिन्ने एव शक्तिरम्त्यिति संबोध्यतावच्छेदकावच्छिन्ने युष्मत्पदस्योचारयितृतावच्छेदकावच्छिन्ने चास्मत्पदस्य शक्तिस्वीकारेण किं प्रयोजनम् ? इत्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह- तात्पर्यसत्त्वेपीति, तात्पर्यस्प वऋधीनत्वात् 'अहं करोमि' इति मदुक्तवाक्यघटकाहंपदेन मैत्रस्य बोधः स्यादित्याकारकचैत्रतात्पर्यसत्त्वेप्युच्चारयितत्वभ्रमं विना 'अहं करोमि' इत्यादिचत्रोचारतवाक्यघटकाहंपदेन मैत्रस्य बोधः सर्वानुभवविरुद्ध एवेत्युच्चारयितृतावच्छेदकावच्छिन्ने एवास्मत्पदस्य शक्तिर्युक्ता तथा चात्रोचारयितृत्वाभावान्नाहपदेन मैत्रबोधापत्तिः, बुद्धिविषयतावच्छेदकरूपावच्छिन्ने शक्तौ तूच्चारयितृत्वभ्रनं विनाय्यत्राहंपदेन मैत्रस्य बोधः स्यादेव-मैत्रस्यापि बुद्धिविषयतावच्छेदकरूपावच्छिन्नत्वात् । एवं चत्रं बोधयितुं