________________
युष्मदस्मत्यदे. ] शक्तिवादः।
(१२१) कर्मतया वाक्यान्तरप्रतिपाद्यत्वेन या वक्तृबुद्धिस्तदूविषयतावच्छेदकत्वेनाऽनुगतानां चैत्रत्वमहिषासुरत्वादीनां प्रवृत्तिनिमित्तत्वं बोध्यम् । संबोध्यत्वघटितानुगमकशरीरे च बुद्धिविषयतावच्छेदकत्वनिवेशनं मिश्रोक्तमनुपादेयमेव- संबोध्यतावच्छेदके बुद्धिप्रकारत्वस्याऽव्यावर्तकत्वात् । . .
अथ तात्पर्यसत्त्वे ' अहमत्रास्मीति मैत्रो जानाति । इत्यादिचैत्रवाक्यस्थाऽस्मच्छब्दाच्चैत्रोपि प्रतीयते तत्र चैत्रस्य स्वघटितवाक्यार्थकर्मकक्रियाकर्तृत्वाभाचात् तदुचारणस्य निरुक्तस्वातन्त्र्याभावाचानुपपत्तिः। एवम् 'चैत्र त्वया भुक्तमिति मया श्रुतम् ' इत्यादौ चैत्रस्य युष्मच्छब्देन प्रतिपादनात् तस्य च वाक्यान्तरस्थक्रियाकर्मत्वस्य निरुक्तेच्छाविषयत्वरूपसंबोध्यत्वस्य चाऽभावात् तत्कथमुपपद्यतामिति चेत् ?, या वक्तबुद्धिस्तद्विषयतावच्छेदकत्वेन रूपेणानुगतानां चैत्रत्वमहिषासुरत्वादीनां युष्मत्पदप्रवृत्तिनिमित्तत्वं बोध्यम्, तथा चोक्तरूपा या वक्तृबुद्धिस्तादृशबुद्धिविषयतावच्छेदकत्वोफ्लक्षितधर्मावच्छिने युष्मत्पदस्य शक्तिरिति सिद्धम्, तादृशधर्मश्च चैत्रत्वमहिषासुरत्वादिकं बोध्यम् । मुरारिमिश्रेण तु
बुद्धिविषयतावच्छेदकीभूतं यत् स्वसंबोध्यतावच्छेदकं तादृशसंबोध्यतावच्छेदकत्वोफ्लक्षितधर्मावच्छिने युष्मत्पदस्य शक्तिः ' इत्यादिरीत्या संबोध्यत्वघटितं यद् युष्मत्यदप्रवृत्तिनिमित्तानुगमकं तच्छरीरेपि बुद्धिविषयतावच्छेदकत्यस्य यो निवेशः कृतः सोऽनुपादेय एवास्ति- किंचिद्व्यावसंकस्यैव विशेषगत्वं भवति संबोध्यतावच्छेदके च निवेशितं बुद्धिप्रकारत्वम् बुद्धिविषयतावच्छेदकत्वमव्यावर्तकमेवेत्याशयेन मिश्रोक्तमाक्षिपति- संबोच्यत्वेति । स्पष्टमन्यत् । ___ शकते- अथेति, 'अहमत्रास्मीति मैत्रो जानाति ' इतिचैत्रोक्तवाक्यस्यार्थद्वयं संभवति तत्रैकः किल ' मैत्रोऽत्रस्यां स्वस्थितिं जानाति । इति एतदर्थपक्षे ह्यऽहमित्यऽस्मत्पदेन मैत्रस्य प्रतीतिरिष्टा सा च संभवत्येव- मैत्रस्य वाक्यान्तरस्थजानातीतिक्रियाकर्तृत्वात् पूर्वमस्मत्पदस्य स्वघटितवाक्यार्थकर्मकवाक्यान्तरस्थक्रियाकार शक्तरुतत्वात, द्वितीयः खलु 'मैत्रोऽऋत्यां मदीय. ( चैत्रीय ) स्थिति जानाति । इति एतदर्थपक्षे त्वमित्यस्मन्पदेन चत्रस्य प्रतीतिरिष्टा सा न संभवति चैत्रे ' अहमत्रास्मि' इतिस्ववटितवाक्यार्थकर्मकजानातिक्रियाकर्तृत्वस्याऽभावात् तथा स्वतन्त्रोचारणकर्तर्यप्यऽस्मत्पदस्य शक्तिरुक्ता तादृशस्वतन्त्रोच्चारणकर्तृत्वमपि चैत्रे नास्ति चैत्रकतृकोक्तवाक्योचारणस्य स्वतन्त्रत्वाभावादू वाक्यान्तरस्थक्रियाकर्मतापन्नम्वघटितवाक्यार्थप्रत्यायनेच्छानधीनोचारणस्यैवोक्तरीत्या स्वतन्त्रत्वस्वीकाराद् अत्र च चैत्रोच्चारणम् ‘इतिजानाति' इतिवाक्यान्तरस्थजानातिक्रियाकर्मतापनत्वेनैव या स्वघटितवाक्यार्थप्रत्यायनेच्छा तदधीनमेवास्तीत्यबाहेपदेन चैत्रप्रतीतेरनुपपत्तिरित्यर्थः । अस्मत्पदेऽनुपपत्ति प्रदर्य युष्मपदे प्रदर्शयति- एवमिति । तस्य चैत्रस्य चैत्रे इतियावत् । युष्मत्पदस्य वाक्यान्तरस्थ क्रियाकर्मणि " वाक्यान्तरस्थक्रियाकर्मत्वेन ११९ ” इत्याद्युक्तेच्छाविषयत्वरूपसंबोध्यत्ववति च शक्तिरक्ता - चैत्र त्वया भुक्तमिति