________________
(१२०)
सादर्श:
(विशेषकाण्डेन्यपि तादृशवाक्योचारणानुकूलाऽनुवक्तुरिच्छा संभवतीति तादृशेच्छामादायानुवादकसंबोध्यस्य संबोध्यतापत्तिः' इति मन्यते ? तदा वाक्यान्तरार्थप्रतीतीच्छानधीनत्वमपीच्छाविशेषणं देयमिति " मया त्वयि हतेऽत्रैव " इत्यादी युष्प्रच्छन्दान्न सुरथादिप्रतीतिः ।
एवमभ्रान्तस्य ततो महिषासुरादिप्रतीतिनिर्वाहाय वाक्यान्तरस्थस्वघटितवाक्यार्थकर्मकक्रियाकर्मण्यपि युष्मदः शक्त्यन्तरं स्वीकार्य तत्र देवी महिषासुरमित्युवाचेतिवाक्यस्थक्रियाकर्मत्वं महिषासुरादेरिति तस्यापि त्वयि ' इत्यादि शब्दार्थतोपपत्तिः । अत्रापि पूर्ववत् स्वघटितवाक्यार्थविषयकत्वान्वितक्रिया. नुकला-युष्मत्पदघटितवाक्योचारणानुकूलाऽनुवादकस्याऽादेरिच्छा संभवतीति तादृशेच्छामादायानुवादकसंबोध्यस्यापि सुरथादेः संबोध्यत्वं स्यादेवेति " मया त्वयि " इत्यत्र युष्मत्पदेन सुरथादेरपि बोधः स्यादेवत्याशङ्कयाह- यदीति ! अत्र च “अत्र महाशक्यार्थबोधः फलमऽवान्तरवाक्यार्थबोध उपाय इति "मया त्वयि " इत्याद्यवान्तस्वाक्यमात्रजन्यबोधो भवतु इत्याकाराय इच्छाया अपि तादशवाक्योचारणानुकूलत्वात् तस्यां च वाक्यान्तरस्थक्रियाकर्मत्वेन स्वघटितवाक्यार्थस्याऽनवगाहनात् तद्विशेष्यत्वमादायाऽनुवादकसंबोध्यस्य निरुक्तसंबोध्यतापत्तिरित्याशङ्कते- यदिचेत्यादि " इति हरिनाथभट्टाचार्याः । उत्तरमाह- तदेति, अनेन हि वाक्यान्तरार्थप्रतीतीच्छानधीना वाक्यान्तरस्यक्रियाकर्मत्येन स्वघटितवाक्यार्थानवगाहिनी या स्वजन्य:तीत्याश्रयत्वेनेच्छा तादृशेच्छाविषयत्वं स्वसंबोध्यत्वम् । इतिप्राप्तं तथा चात्रोक्तानुवदकर्षीच्छा : इत्युवाच । - देव्युवाच ' इत्यादि यद्वाक्यान्तरं तदर्थप्रतीतीच्छानधीना नास्ति किं तु सुरथस्य — देव्युवाच ' इत्यादिवाक्यान्तरार्थस्यापि प्रीतिः स्यादितीच्छास्तीति तादृशेच्छाधीनवोक्तयुष्मदर्थघटितवाक्यार्थप्रतीत्याश्रयत्वेनेच्छास्तीति न " मया त्वयि " इत्यत्र युष्मच्छब्दाद् अनुवादकसंबोध्यसुरथादेः प्रतीत्यापत्तिः । देव्यास्तु योक्तयुष्मदर्थघटितवाक्यार्थप्रतीत्याश्रयत्वेनेच्छा सा' देव्युवाच : इत्यादिवाक्यान्तरस्याभावाद वाक्यान्तरार्थप्रतीतीच्छानधी वास्तीति तद्विषयत्या महिषासुरस्यात्र युष्मत्पदेन प्रतीतिरुपपन्नेत्यर्थः ।
“युष्मत्पदस्य शत्यन्तरमाह- एवमिति । ततः युष्मत्पदात् । “देव्युवाच " इत्यादिवाक्यान्तरस्था या युष्मत्पदघटितवाक्यार्थकर्मिका बच्चादिक्रिया तत्कर्मण्यपि युष्मत्पदस्य शक्तिरस्तीत्यर्थः । “ मया त्वयि " इत्यत्र " देव्युवाच " इतिवाक्यान्तरस्थवचिक्रियाकर्मत्वं महिपासुरस्यास्तीति युष्मत्पदेन तस्य महिषासुरस्य बोध उपपन्न इत्याह-- तत्रेति । युष्मत्पदप्रवृत्तिनिमित्तमाह- अनापीति । पूर्ववत्-" स्वार्थघटितवाक्यार्थविषयकवान्वित ११८” इत्याधुक्तास्मस्पदप्रवृत्तिनिमित्तानुगमकस्वरूपवत् । स्वघटितेति- स्वघटितवाक्यार्थविषयकत्वान्विता= " मया स्वयि " इत्यादियुष्मत्पदघटितवाक्यार्थकर्मिका या वच्यादिक्रिया तादृशक्रियाकर्मत्वेन रूपेण वाक्यान्तरप्रतिपाद्यत्वेन=" मया त्वयि " इत्यादिवाक्यान्तरेण प्रतिपादनेच्छाविषयत्वकारिका