________________
युष्मपदम् ] शक्तिवादः।
(११९) एवं युष्मत्पदप्रवृत्तिनिमित्तानुगमकगर्भनिविष्टं स्वसंबोध्यत्वमपि वाक्यान्तर स्थक्रियाकर्मत्वेन स्वघटितवाक्यार्थानवाहिनी या स्वजन्यप्रतीत्याश्रयत्वेनेच्छा तद्विषयत्वम् । अनुवादकेन यः संबोध्यते स नानुवादकोचारितयुष्मच्छब्दनिरूपितनिरुक्तसंबोध्यतावान्- वक्तृप्रतिपाद्यतया युष्मदर्थघटितवाक्यार्थघटितो यो वाक्यार्थकर्मकोक्तिक्रियाघटितवाक्यार्थस्तद्विषयकत्वविशिष्टप्रतिपत्त्याश्रयत्वेनैव तस्याऽनुवादकेच्छाविषयत्वात् । ।
यदि च 'इतिपदघटितवाक्यार्थप्रतीतिरूपफलेच्छाधीना युष्मदर्थघटितवाक्यार्थप्रतीतिविषयिणी तादृशवाक्यार्थाशे वाक्यान्तरस्थक्रियाकर्मत्वानवगाहियत् स्वसंबोध्यत्वं तत् परिष्करोति- एवमित्यादिना । वाक्यान्तरेति- वाक्यान्तरस्था या 'उवाच ' इत्यादिवचिक्रिया तत्कर्मत्वेन स्वघटितस्य युष्मत्पदघटितस्य " मया त्वयि " इत्यादिवाक्यस्यार्थ या नाऽवगाहते एतादृशी या स्वजन्यप्रतीत्याश्रयत्वेन युष्मत्पदघटितवाक्यजन्यप्रतीतिप्रकारिकेच्छा तादृशेन्छाविषयत्वं स्वसंवोध्यत्वं विज्ञेयम्, “ मया त्वयि " इत्यत्र देव्या इच्छा " देव्युवाच " इतिवाक्यान्तरस्याकथनाद वाक्यान्तरस्थक्रियाकर्मत्वेन " मया त्वयि " इत्यादिस्वघटितवाक्याथ नावगाहते इति तदनवगाहिनी या युष्मत्पदघटितवाक्यजन्यप्रतीत्याश्रयत्वप्रकारिका " मया त्वयि" इत्यादिवाक्यजन्यप्रतीत्याश्रयो महिषासुरो भवतु इत्याकारा इच्छा तद्विषयत्वं महिषासुरेऽस्त्येवेत्यत्र युष्मत्पदेन महिषासुरस्य प्रतीतिरुपपन्ना, ऋषिणा तु " देव्युवाच ॥ इतिकथनात् ऋषीच्छा " मया त्वयि " इत्यादिस्वघटितवाक्यार्थ वाक्यान्तरस्थवचिक्रियाकर्मत्वेनैवावगाहते इति तदवगाहिनी या " मया त्वयि '' इत्यादिवाक्यजन्यप्रती. रयाश्रयः सुरथो भवतु इत्याकारा ऋषीच्छा तादृशेच्छाविषयत्वमेव सुरथस्यास्तीति नात्र युष्मत्पदेन सुरथस्य प्रतीत्यापत्तिरित्यर्थः । अनुवादकसंवोध्यस्यानुवाद्यवाक्यघटकयुष्मत्पदेन प्रतीत्यापत्तिर्नास्तीति स्वयमप्याह- अनुवादकेनेति । निरुक्तसंबोध्यतावान् उक्तेच्छाविषयत्वरूपसंबोध्या तावान् । उक्ते हेतुमाह- वक्तृप्रतिपायेति, वक्तप्रतिपाद्यत्वेन रूपेण " मया त्वयि " इत्यादियुष्मदर्थघटितवाक्यार्थघटितो यः " देव्युवाच ॥ इत्यारभ्य " आशु देवताः " इतिपर्यन्तं स्वघटितवाक्यार्थकर्मकोक्तिक्रियाघटितो महावाक्यार्थस्तद्विषयकत्वविशिष्टा-तद्विषयिका या प्रतिपत्तिाः-उक्तमहावाक्यार्थज्ञानं सदाश्रयत्वेनैव रूपेण तस्य--अनुवादकसंबोध्यस्य सुरथादेः 'एतन्महावाक्यजन्यप्रतीत्याश्रयः सुरथो भवतु , इत्याकारा याऽनुवादकेच्छा ऋषीच्छा तद्विषयत्वमस्ति न तु क्लेिष्टेच्छाविषयत्वमिति नात्र सुरथादेर्युष्मत्पदेन प्रतीत्यापत्तिरित्यर्थः ।
नबिछायाः स्वाधीनत्वाद् इतिपदघटित यत् ' इत्युवाच ' ' इतिजानाति ' इत्यादिवाक्य तस्य योर्थस्तत्प्रतीतिरूपं यत् फलं तादृशफलेच्छाधीना " मया त्वयि " इत्यादियुष्मदर्थधटितवाक्यार्थो यस्तत्प्रतीतिविषयिणी तत्प्रतीतिविषयिका तादृशवाक्यार्थांशे-युष्मदर्थघटितवाक्यार्थाशम् इत्युवाच ' इत्यादिवाक्यान्तरस्थक्रियाकर्मत्वेनाऽनवगाहिन्यपि तादृशवाक्योचारणा