________________
( ११८ )
सादर्श:
[ विशेषकाण्डे --
न वाक्यान्तरजन्यत्वोपरक्तप्रतिपत्तिविषयतया वक्तृबुद्धिस्थत्वस्यैव क्रियायां विशेषणत्वोपगमात् प्रतिपत्तेः पूर्वमपि प्रकरणादिना तादृशवबुद्धेर्यहसंभवेनाऽन्योन्याश्रमानवकाशात् ।
स्वार्थघटितवाक्यार्थविषयकत्वान्वितक्रियाकर्तृतया वाक्यान्तरप्रतिपाद्यत्वेन या वक्तृबुद्धिस्तद्विषयतावच्छेदकत्वं प्रवृत्तिनिमित्तानुगमकमिति तु सारम्, एवं च बुद्धिविषयतावच्छेदकत्वस्य प्रवृत्तिनिमित्तानुगमकत्वमवादोपि संगच्छते । उच्चारणकर्तृत्वानुगमकशरीरेपि मिश्राणां बुद्धिस्थत्वनिवेशबीजं तु नावधारयामः ।
6
परिहरति--नेति, यादृश क्रियाकर्तर्यस्मत्पदस्य शक्तिरुक्ता तादृशक्रियायां वाक्यान्तरजन्यत्रो - परक्ता = वाक्यान्तरजन्यत्वविशिष्टा या प्रतिपत्तिस्तादृशप्रतिपत्तिविषयतया वक्तबुद्धिस्त्वमेव विशेपण विज्ञेयं तथा च ' इत्युवाच' इत्यादिवाक्यान्तरजन्यं यद् ज्ञानं तादृशज्ञानविषयोभूता नाम ' इत्युवाच' इत्यादिवाक्यान्तरप्रतिपाद्या वक्तृबुद्धिस्था च या किया तादृशक्रियाकर्तर्यस्मत्पदस्य शक्तिस्तथा च प्रतिपत्तेः उक्तवाक्यार्थप्रतिपत्तेः पूर्वमपि प्रकरणादिना तादृशवबुद्धेः क्रियायां यद्वाक्यान्तरप्रतिपाद्यत्वं विशेषणं तादृशवाक्यान्तरप्रतिपाद्यत्वविषयक वक्तृबुद्धेर्यहसंभवेन प्रदर्शिता - न्योन्याश्रयस्यावकाशो नास्तीत्यर्थः । " वाक्यान्तरजन्यत्वोपरक्तप्रतिपत्तिविषयतया" इत्यत्र "वाक्यान्तरप्रतिपाद्यतया" इत्यपि क्वचित्पाठः स च सुलभार्थस्तत्र 'वाक्यान्तरप्रतिपाद्यत्वेन रूपेण वक्तृबुद्धिस्था या 'उवाच' इत्यादिक्रिया तत्कर्तर्यऽस्मत्पदस्य शक्तिरित्यर्थः' ।
निष्कर्षमाह - स्वार्थेति - स्वार्थघटित :- अस्मत्पदार्थघटितो यः " मया त्वयि" इत्यादिवाक्यप्रतिपाद्योर्थस्तद्विषयकत्वेनान्विता = विशिष्टा नाम स्वार्थघटितवाक्यार्थकर्मिका या 'उवाच' इत्यादिक्रिया तादृशक्रियाकर्तृत्वेन रूपेण यद् "देव्युवाच " इत्यादिवाक्यप्रतिपाद्यत्वं तेन रूपेगोक्तकर्तृविपयिका या वक्त्तबुद्धिस्तद्विषयतावच्छेदकत्वमेवास्मत्पदप्रवृत्तिनिमित्तानां चैत्रदेवीदीनामनुगमकं बोध्यं तथा चोक्तवक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने स्वतन्त्रोच्चारणहितस्यास्मरपदस्य शक्तिरित्यत्र प्राप्तम्, तादृशवबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मश्च " मया स्वयि" इत्यत्र देवीत्वमेवेत्यत्रास्मत्पदेन देव्याः प्रतीतिरुपपन्ना | 'अहं पण्डित इतिविद्वांस परय' इत्यत्र स्वार्थघटितवाक्यार्थकर्मिका क्रिया विदिक्रिया तत्कर्तुः पण्डितंमन्यस्यास्मत्पदार्थत्वं विज्ञेयम् । एतत्परिष्कारस्य फलान्तरमाद- एवं चेति, अस्मत्पदस्थलेपि बुद्धिविषयतावच्छेदकत्वं प्रवृत्तिनिमित्तानुगमकमस्तीति यः प्रवादोस्ति तस्यापि संगतिर्जातेत्यर्थः । मुरारिमिश्रैस्तु " उच्चारथि - तृतावच्छेदकबुद्धिप्रकारावच्छिन्नेऽस्मत्पदस्य शक्तिः" इत्युक्तं नाम उच्चारयितृतावच्छेदको यो बुद्धिविषयतावच्छेदकत्वोपलक्षितश्चैत्रत्वादिधर्मस्तदवच्छिन्नेऽस्मरपदस्य शक्तिः, अत्र च बुद्धिस्त्वनिवेशस्य प्रयोजनं नैवावगम्यते व्यर्थत्वप्रतिसंधानादिति मिश्रमतमाक्षिपति- उच्चारणेति ।
संप्रति युष्मत्पदशक्तिनिरूपणाय ' स्वसंबोध्यतावच्छेदकत्वोपलक्षितधर्मविच्छिन्ने युष्मत्पदस्य शक्तिः ' इत्यत्र युष्मत्पदप्रवृत्तिनिमित्तानुगमकं यत् स्वसंबोध्यतावच्छेदकत्वं तद्गर्भप्रविष्टं