Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 125
________________ शक्तिवादः । ( ११७ ) स्वघटितवाक्यार्थकर्मकवाक्यान्तरस्थक्रियात्वं च तादृशार्थकर्मकत्वेन वाक्यान्तरप्रतिपाद्यत्वं तेन 'अहं पण्डित इतिविद्वांसं पश्य इत्यादौ दर्शनादिक्रियाया अस्मच्छब्दघटितवाक्यार्थविषयकत्वसम्भवेपि तेन रूपेण समभिव्याहृतवाक्याअन्तराप्रतिपाद्यतया न तत् क्रियाकर्तुरस्मच्छन्दतः प्रतीतिः । अथ इतिपदघटितवाक्यान्तरात् क्रियाप्रतिपत्तावेव तत्कर्तुर्वाक्यान्तरप्रातेपाद्यक्रियाकर्तृत्वं सुग्रहं तदूग्रह एव च तद्वदितानुगमकरूपेणाऽस्मच्छन्दशक्तिग्रहेऽस्मच्छन्दघटितवाक्यार्थप्रतीतौ तस्येतिपदादुपस्थित्या वाक्यान्तरक्रियाप्रतिपत्तिरित्यऽन्योन्याश्रय इतिचेत् ?, अस्मत्पदम् ] 'अहं पण्डित इतिविद्वांसं पश्य' इत्यत्र पश्येतिदर्शन क्रिया कर्तुरहंपदवाच्यत्वं स्यादितिभयेन वघटितवाक्यार्थकर्मकवाक्यान्तरस्थक्रियां परिष्करोति- स्वघटितेति, तादृशार्थकर्मकत्वेन= 'स्वघटितवाक्यार्थकर्मकत्वेन रूपेण वाक्यान्तरप्रतिपाद्या या क्रिया सैवोक्तस्थले स्ववटितवाक्यार्थकर्मक वाक्यान्तरस्थक्रिया विज्ञेया तथा च 'अहं पण्डित इतिविद्वांसं पश्य' इत्यत्र पश्येतिदर्शनक्रियायाः 'अहं पण्डित इतिविद्वांसम्' इत्याकार कारमच्छन्दघटितवाक्यार्थविषयक - त्वसंभवेपि तेन=अस्मच्छन्द घटितवाक्यार्थ कर्मकत्वेन रूपेण समभिव्याहृतवाक्यान्तरप्रतिपाद्यत्वं नास्तीति तत्क्रियाकर्तुः =यं प्रत्युक्तवाक्यमुच्यते तस्य पश्येतिदर्शनक्रियाकर्तुरत्राहंपदेन प्रतीयापत्तिर्नास्ति, उक्तक्रियाया एतत्परिष्काराभावे तु पश्येतिदर्शन क्रियापि स्वघटितवाक्यार्थक वाक्यान्तरस्थक्रियैवेति दर्शनक्रियाकर्तुरप्यत्राहंपदेन प्रतीतिः स्यादेव न चैतदिष्टमित्यर्थः । प्रतिपाद्यत्वं चात्र वक्तुः प्रतिपादनेच्छाविषयत्वमेत्र इच्छा च वक्तुरधीनेत्यत्र 'इतिविद्वांसम' इत्याकारकविदिक्रियायामेवास्मलदघटितवाक्यार्थकर्मकत्वेन प्रतिपाद्यत्वमस्तीत्यहंपदेनात्र तादृशविदिक्रियाकर्तुरेव पण्डितंमन्यस्य प्रतीतिर्जायते I ननु "निरुक्तस्त्र तन्त्रोचारणरहितस्य चास्मदः स्वघटितवाक्यार्थकर्मक वाक्यान्तरस्य क्रियाकर्त" शक्तिः" इत्यत्र विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वाद् इतिपदघटितात् ' इत्युवाच - ''इतिजानाति' इत्यादि वाक्यान्तरात् कर्तृविशेपणीभूतायाः क्रियायाः प्रतिपत्तौ सत्यमेव तत्क तुरितिपदघटितवाक्यान्तरप्रतिपाद्यक्रियाकर्तृत्वं ग्रहीतुं शक्यते तद्महे वाक्यान्तरप्रतिपा द्यक्रिया कर्तृत्वग्रहे जाते एव च तदूर्घटितानुगमकरूपेण वाक्यान्तरप्रतिपाद्य क्रियाकर्तृत्वोपलक्षितधर्मावच्छिन्नत्वेनानुगमकरूपेणाऽस्मत्पदशक्तिग्रहो जायते तेन च शक्तिग्रहेणास्मत्पदघटित - वाक्यास्यार्थप्रतीतिर्जायते तादृशास्मत्पदघटितवाक्यार्थप्रतीतौ जातायां च तस्य = अस्मत्पद • घटितवाक्यार्थस्य वाक्यान्तस्स्थैतिपदादुपस्थित्या वाक्यान्तरक्रियाप्रतिपत्तिः स्वघटितवाक्यार्थकमेकत्वेन रूपेण वाक्यान्तरस्थक्रियाप्रतिपत्तिरित्यन्योन्याश्रयो दोष इत्याशङ्कते - अथेति । अत्रेतिपदघटितवाक्यान्तरात् क्रियाप्रतिपत्तौ सत्त्यां तत्कर्तुस्तादृशवाक्यान्तरप्रतिपाद्यक्रियाकर्तृत्वं सुग्रहं तद्द्महे एवं मध्यपतित कारणैः स्त्रघटितवाक्यार्थ कर्मकचाक्यान्तरस्थक्रियात्वं सुग्रहमित्यन्योन्याश्रय- स्वरूपं विज्ञेयम् ।

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216