Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
तत्पदम्. ] शक्तिवादः।
(१०९) कालान्तरीणपुरुषान्तरीयबुद्धिश्च नेदानीन्तनैतत्पुरुषीयतदादिपदोच्चारणानुकूलेति तद्विषयतावच्छेदकावच्छिन्नबोधे नोपदर्शितोभयसंवन्धेनैतत्तदादिपवैशिष्टयमऽतो नेश्वरेच्छायां तादृशबोधस्यैतत्तदादिपदप्रकारेण भानमिति न कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नस्यैतत्तदादिपदवाच्यता-भगव
संकेतीयतत्पदव्यक्तिप्रकारतानिरूपिततथाविधसंसर्गान्तःपातिन्या बुद्धिविषयतावच्छेदकावच्छिन्नत्वेन विषयताया एव तत्पदवाच्यतारूपत्वादऽतो न भ्रमं विना तदवच्छिन्नबोधः । न जातस्तस्माद् बोधस्यानुपपत्तिर्नास्ति, यथा घटत्वेन रूपेण सकलघटेषु धटपदस्य शक्तिप्रहे जातेऽपूर्वघटव्यक्तबोधस्यानुपपत्तिर्नास्ति तथात्र तत्पदत्वादिरूपानुपूर्वीरूपेण तदादिपदस्य शक्ति. ग्रहे जातेऽपूर्वतत्पदजन्यबोधस्यानुपपत्तिर्नास्तीत्यर्थः ।
सामान्यतो बुद्धिविषयतावच्छेदकावच्छिन्नस्य तदादिपदशक्यत्वे कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकधर्मावच्छिन्नयोरप्येतत्तदादिपदेन बोधः स्यादिति यो दोषः (१०६) प्रदशिंतस्तं परिहरति- कालान्तरीणेति, कालान्तरीणा पुरुषान्तरीया च बुद्धिर्नेदानीन्तनैतत्पुरु पीयतदादिपदोचारणानुकूलेति तद्विपयतावच्छेदकावच्छिन्नबोधे कालान्तरीणपुरुषान्तरीयबुद्धिविप्रयतावच्छेदकावच्छिन्नविषयकवोधे उपदशितोभयसंबन्धेनैतत्तदादिपदवैशिष्टयम् एतत्तदादिपदस्य प्रकारत्वं नास्तीतीश्वरेच्छारूपोक्तसंकेते तादृशबोधस्य कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नविषयकबोधस्यैतत्तदादिपदप्रकारेण एतत्तदादिपदविशिष्टत्वेन रूपेण भानं. न भवतीति कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्य पटादेरेतत्तदादिपदवाच्यतापत्ति स्ति-यस्य तदादिपदस्य यद्विषयकबोधे भगवत्संकेतीयप्रकारता भवति तेन तदादिपदेन तादृशबोधविषयस्यैव स्वविशिष्टबोधविषयस्यैव बोधसंभवात्, एतत्तदादिपदवैशिष्टयं चोक्तसंबन्धेनैतत्तदादिपदोचारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नबोधे एवास्ति न तु कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नबोधेपि येन कालान्तरोणपुरुषान्तरौयबुद्धिविषयतावच्छेदकावच्छिन्नस्याप्येतत्तदादिपदवाच्यता स्यादित्यर्थः । उक्त हेतुमाह-भगवदिति, उक्तभगवत्संकेते तदादिपदं बोधप्रकारतया भासते इति भगवत्संकेतीया या तत्तदादिपदव्यक्तिनिष्ठा प्रकारता ताशप्रकारतानिरूपितो यस्तथाविधसंसर्ग:=उक्तोभयसंबन्धस्तदन्तःपातिनी या विषयता बुद्धिविषयतावच्छेदकावच्छिन्नत्वेन रूपेण तस्या एव तत्तदादिपदवाच्यतारूपत्वात् , सा च वाच्यतारूपा विषयता स्त्रोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नविषयतैवेति स्वोच्चारणानुकूलबुद्धिविध्यतावच्छेदकावच्छिन्ननिष्ठेव भवति न तु कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावन्छिअनिष्ठापि येन कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नस्यैतत्तदादिपदवाच्यता स्यादित्यर्थः । स्वोच्चारणानुकूलबुद्धिप्रकारावच्छिन्नविषयताकत्वस्य संबन्धवेन वाच्यतारूपविषयतायाः संबन्धान्तःपातित्वं विज्ञेयम् , सा च विषयता वाच्ये वर्तते इति तस्या वाच्यतारूपत्वं

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216