Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 85
________________ पुष्पवन्तरदम् . ] शक्तिवादः । (७७) कोटिप्रवेशप्रसङ्ग इति वाच्यम् , अभावबुद्धौ प्रतियोग्यंशे उपलक्षणस्याप्रकारत्व. नियमादुभयत्वस्य प्रतियोगितावच्छेदकत्वध्रौव्यात् . शक्तिग्रहे च शक्यांशे उपलक्षणस्योभयत्वस्थ प्रकारत्वोपगमेन तस्य शक्यतानवच्छेदकत्वात् । __ अस्तु वा प्रकृते उभयत्वसहितमेव चन्द्रत्वसूर्यत्वोभयं शक्यतःवच्छेदकम् ‘दौ' इत्यत्रेव पुष्पवन्तौ' इत्यत्रापि प्रकृति विभक्तिभ्यामुपस्थापितस्य द्विन्वस्य सकृदेव भानम् । विरुद्धयोरेकावच्छेदकत्वपर्याप्तिरपि घटत्वपटत्वोद्यारुभयाभावप्रतियोगितावच्छेदकत्वपर्याप्तिवत् प्रकृते न विरुध्यते ।। परिहारहेतुमाह-- अभावति, अभावबुद्धौ-धटपटौ न स्तः ' इत्याद्यभावज्ञाने । “ प्रतियोगिविशेषिताऽभावबुद्धिविशिष्टचैशिष्टयमर्यादां नातिशेते " इतिन्युत्पत्त्याऽभावज्ञाने भासमानानां सर्वेषामपि धर्मागां प्रतियोगितावच्छेदकत्वं भवत्येव उपलक्षणस्य चाभावज्ञाने प्रकारचं न भवतीति यदि ' वटपटौ न स्तः । इत्यत्रोभयत्वमुपलक्षणं भवेत्तदा प्रतियोगितावच्छेदकं न स्याद् भवति च प्रतियोगितावच्छेदकं तस्मादुक्तामावज्ञाने उभयत्वस्य प्रतियोग्यंशे उपलक्षणत्वं नास्ति किं तु विशेषणत्वमेव तथा चोभयत्वस्य प्रतियोग्यंशे प्रकारत्वमवच्छेदकत्वं च प्राप्त न चैवं नियमः शक्तिग्रहेस्ति येन (दिवाकरनिशाकरयोः शक्तं पुष्पवन्तपदम्' इत्याकारकशक्तिग्रहे भासमानमुमयत्वं शक्यांशे विशेषणम्--शक्यतावच्छेदकं स्यात् तथा च शक्तिग्रहे उपलक्षणं यदुभयत्वं तस्य प्रकारत्वं संभवति शक्तिग्रहे उपलक्षणस्यापि प्रकारत्वस्वीकारादिति तस्य उभयत्वस्य शक्यतावच्छेदकत्वं न भवति- उपलक्षणीभूतस्यैव तस्य प्रकारत्वस्वीकाराद् विशेषणीभूतप्रकारस्यैवावच्छेदकत्वनियमादिति नोभयत्वस्यः शक्यतावच्छेदककोटिप्रवेशप्रसङ्ग इत्यर्थः । विशेषणस्यापि कचित् प्रकारत्वं भवति यथा अभावज्ञाने, उपलक्षणस्यापि प्रकारत्वं भवति यथा शक्तिग्रहे प्रदर्शितम् , किं चाऽवच्छेद्यत्वसंबन्धेनापि प्रकारत्वं भवति यथाऽभावज्ञाने, सामानाधिकरण्यसंबन्धेनापि प्रकारत्वं भवति यथा शक्तिमहे तत्र ययोश्चन्द्रसूर्ययोः शक्यतास्ति तत्रैयोभयत्वमप्यस्तीति सामानाधिकरण्येन प्रकारत्वम् । अभ्युपगम्याह- अस्तु घेति, एवं चोभयत्वं चन्द्रत्वं सूर्यत्वमिति त्रितयमेव शक्यतावच्छेदकं जातम् । नन्वेवं पुष्पवन्तपदस्योभयत्वावच्छिन्ने शक्तया 'पुष्पवन्तौ ' इत्यत्र प्रकृत्याप्युभयत्वमानं स्याद् विभक्त्यापि च स्यादित्युभयत्वस्य द्विधा मानप्रसङ्ग इत्याशङ्कयाह-- द्वाविति, यथा 'द्वौ । इत्यत्र प्रकृत्याप्युभयत्वस्योपस्थितिर्भवति विभक्तयापि च शाब्दबोधे त्वेकदैव भानं भवति तथैव — पुष्पवन्तौ' इत्यत्रापि ध्येयम् । ननु — महानसीयवह्निर्नास्ति' इत्यत्रैकस्मिन् वह्नौ महानसीयत्वं वह्नित्वं च संभवतीति तयोः परस्परं विरोधाभावात् तयोरभावीयैकप्रतियोगितावच्छेदकत्वस्य पर्याप्तिः संभवति : पुष्पवन्तौ स्तः' इत्यत्र चन्द्रत्वसूर्यत्वे तु परस्पराभावव्याप्यत्वात् परस्परं विरुद्धे एवे.ते कथं तयोरेकशक्यतावच्छेदकत्वस्य पर्याप्तिः स्यादित्याशङ्क्याहविरुद्धयोरिति, यया घटत्वपटत्वे अपि परसराभावव्याप्यत्वात् परस्परं विरुद्ध एवाऽथापि ' घट

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216