Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 88
________________ (८०) सादर्शः [विशेष काण्डेत्वपटत्वयोः साक्षात् प्रतियोगितावच्छेदकत्वमन्तरेण प्रतियोगिविशेषणतया भानासम्भवस्तुल्य एवेत्याहुः । ज्ञानशक्तिवादिनस्तु- चन्द्रत्वसूर्यत्वोभयप्रकारकज्ञानमेव पुष्पवन्तपदशक्यम् - 'पुष्पवन्तपदमुभयप्रकारकज्ञाने शक्तम्' इत्याकारकशक्तिग्रहस्य तादृशज्ञानत्वमेव कार्यतावच्छेदकमितिव्युत्पत्तिमतः पुरुषस्य नैकैकबोधापत्तिः, अतादृशस्य च भवत्येव तादृशो बोधः। न चैवमपि 'पुष्पवन्तपदं चन्द्रत्वप्रकारकज्ञाने शक्तम्' इत्यादिबोधस्य प्रमात्वात् 'शक्तिभ्रमं विना प्रत्येकशाब्दबोधानुदयः' इतिकथमुपपद्यत इति वाच्यम्, केवलचन्द्रत्वादिप्रकारकबोधे तत्तत्मकारकबोधत्वांशे शक्तिनिरूपकतावच्छेद (प्रतियोगिवित्येवगत्वेन ) मानं न स्यादिति तुल्यो दोषः, यदि चात्र घटत्वपटत्वयोः प्रतियोगिताव छेदकतावच्छेदकत्वेपि प्रतियोगिविशेषणतया ( प्रतियोगितावच्छेदकतया ) भानं न विरुद्धं तदा पुष्पवन्तपदस्यलेपि चन्द्रत्वसूर्यत्ययोः शक्यतावच्छेदकतावच्छेदकत्वेपि शक्यचन्द्रसूर्यविशेषणतया (शक्यतावच्छेदकतया ) भानं न विरुद्धमित्यर्थः । तथा च शक्यतावच्छेदकतावच्छेदकत्वेपि शक्य. तावच्छेदकत्वमस्त्येव- शक्यवृत्तित्वादिति सारः।" इत्याहुः " इत्यस्य पूर्वोक्तेन " मीमांसफानुयायिनः" इत्यनेनान्धयः ।। पुन्हपात् केवलसूर्यस्वादिप्रकारकबोधापत्तिमाराङ्किता संप्रति ज्ञानशक्तिवादिसतेन समाधत्ते-ज्ञानशक्तीति, पदार्थज्ञाने पदानां शक्तिर्न तु पदार्थेषु जनके जन्यनिरूपितशक्तेक युक्तत्वात् पदैश्च पदार्थज्ञानस्यैव जायमानत्वादिति ज्ञानशक्तिवादिनामभिप्रायः । तादृशज्ञानत्वम्चन्द्रत्वसूर्यत्वोभयप्रकारकज्ञानत्वम् । नैकैकबोधापत्तिः केवलसूर्यत्वादिप्रकारकबोधस्य पुष्प. चन्तपदादापत्तिर्नास्तीत्यर्थः । अतादृशस्य-उक्तव्युत्पत्तिरहितस्य च पुरुषस्य। तादृशः केवलसूत्वादिप्रकारको बोधः पुष्पवन्तपदाद् भवत्येव । स्पष्टं सर्वम् । ननु 'पुष्पबन्तपदं चन्द्रत्वसूर्यत्वोमयप्रकारकज्ञाने शक्तम्' इत्याकारकशक्तिप्रहे जातेपि पुष्पबन्तपदस्योभयप्रकारकज्ञाने शक्तत्वे चन्द्रत्वप्रकारकज्ञाने शक्तत्वमपि यथार्थमेवेति 'पुष्पवन्तपदे चन्द्रत्वप्रकारकज्ञाने शक्तम्' इत्यादिबोधस्यापि प्रमात्वात् तादृशबोधबलादभ्रान्तस्यापि पुष्पवातपदात् प्रत्येकशाब्दबोधः केवलचन्द्रत्त्रादिप्रकारकबोधः स्यादेवेति 'शक्तिभ्रमं विना प्रत्येकशाब्दबोधो न भवति' इति कथमुपपद्यतेत्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह-केवळेति, केवलचन्द्रत्यादिप्रकारकबोधे केवलचन्द्रत्वादिप्रकारकबोधं प्रति तत्तत्प्रकारकबोधत्वांशे चन्द्रत्वादिप्रकारकबोधत्वे यः शक्तिनिरूपकतावच्छेदकतापर्याप्तिग्रहस्तस्य हेतुवं स्वीक्रियते यथा च तर्कमते शक्तिनिरूपकः पदार्थस्तथा ज्ञानशक्तिवादिना मते शक्तिनिरूपको बोधः ( ज्ञानम् ) एवयेन पदेन यादृशबोधो भवति तस्य पदस्य तादृशबोधे शक्तहणात्, तथा च बोधे बोधत्वमपि

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216