Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 109
________________ तत्पदम्.] शक्तिवादः। (१११.) अथ व्यवहारदर्शनाद्यविषये मनसा शक्तिनिश्चेतुं न शक्यते- विपरीतकोटेरप्युपस्थितिमात्रेण मानसज्ञाने भानसम्भवात् । न चोपस्थितस्यापि बाधितस्य दोषमन्तरेणाऽभानाद् निश्चयस्याप्युपपत्तरितिवाच्यम्, एवं सति शक्तिग्रहे व्यवहारदर्शनाद्यपेक्षोच्छेदापत्तेरितिचेत् ?, न- कतिपय विषयेषु सर्वनामघटितवाक्यात् प्रयोज्यस्य प्रवृत्तिमुपलभमानः प्रवर्तकज्ञानविषये शक्ति कल्पयन् 'बुद्धिविषयतावच्छेदकधर्मावच्छिन्नस्तत्पदशक्यः' इत्येव सामान्यतोऽवधारयति. एवं च 'चैत्रोऽस्य बुद्धिविषयतावच्छेदकधर्मवान्' इति यदा तेन गृह्यते तदानीमस्य 'चैत्रस्तत्पदवाच्यो न वा' इति संदेहो नावतराति-यादृशधर्मावच्छेदेन यदवधारितं तादृशधर्मनिश्चयस्य स्वसमानर्मितावच्छेदककतद्विरोधिकोदिभानविरोधित्वादिति संभवत्येवाऽपूर्वविषयेपि मानसः शक्तिनिश्चयः ।। त्वात् पूर्ववत् स्वीयोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वमप्यस्त्येव तथा स्वीयविधेयतावच्छेदकं यत तत्पदशक्यत्वं तदवच्छिन्ना या तत्पदशक्यनिष्ठा विधेयता तादृशविधेयताकत्वमप्यस्त्येवेति विज्ञेयमिति श्रीगुरुपादानां प्रतिपादनम् । शङ्कते- अधेति । विपरीतकोटे:= 'घटस्तत्पदशक्यो न । इत्याकारककोटेः । तथा च 'घटस्तत्पदशक्यो न बा' इतिसंशय एव स्यान्न तु 'घटस्तत्पदशक्यः' इत्याकारकनिश्चय इतिभावः । शङ्कते- न चेति, तथा चात्र पुरुषे दोषाभावादुपस्थिताया अप्युक्तविपरीतकोटेर्वाधितत्वान्मानसज्ञाने भानं न संभवतीति 'घटस्तत्पदशक्यः' इत्याकारकनिश्चयः संभवत्येवेत्यर्थः । परिहारमाह- एवमिति, यदि व्यवहारदर्शनाविषयेपि वटादौ मनसा शक्तिनिश्चयः स्यात्तदा शक्तिग्रहे व्यबहारदर्शनादेरपेक्षाया उच्छेद एव स्यात् न चैतदिष्टमिति न मनसा व्यवहारदर्शनाद्यविषये शक्तिनिश्चयः संभवतीत्यर्थः । अथेत्यनेन प्रदर्शितामाशकां निराकरोति-- नेति, कतिपयविषयेषु घटादिषु । प्रयोज्यस्य प्रयोज्यवृद्धस्य । प्रवृत्तिमुपलभमानः पार्थस्थो बालः । प्रवर्तकज्ञानविषये प्रयोजकवृद्धज्ञानविषये घटादौ । सामान्यशक्तिज्ञानस्य स्वरूपमाहबुद्धिविषयतेति । स्वाभिप्रायमाह- एवं चेति । अस्य प्रवर्तकस्य । तेन पार्श्वस्थबालेन । अस्य= पार्श्वस्थबालस्य । संदेहानवतारे हेतुमाह- योदशेति, यादृशधर्मावच्छेदेन यथा बुद्धिविषयताबच्छेदकधर्मावच्छेदेन चैत्रादौ यत्-तदादिपदवाच्यत्वमवधारितं तादृशधर्मनिश्चयस्य= चैत्रोऽस्य बुद्धिविषयतावच्छेदकधर्मवान् ' इत्याकारकस्य बुद्धि विषयतावच्छेदकधर्मवत्त्वनिश्चयस्य, स्वेतिर स्वमुक्तनिश्चयस्तस्य धर्मितावच्छेदकं चैत्रत्वमिति स्वसमानधर्मितावच्छेदकमपि चैत्रत्वमेव स्वसमानधर्मितावच्छेदकिका या तद्विरोधिकोटि: तदादिषदवाच्यत्वं यदबधारितं तद्विरोधिभूता या " चैत्रस्तत्पदशक्यो न ' इत्याकारा विपरीतकोटिस्तद्भानविरोधित्वात् । अपूर्वविषये व्यवहारदर्शनाद्यविषये । 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः ' ' चैत्रश्च बुद्धिविषयतावच्छेदक'धर्मवान् ' इत्याकारकनिश्चये जाते तादृशनिश्चयेन 'चैत्रस्तत्पदशक्यो न ' इत्याकारकविप

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216