________________
(८०)
सादर्शः
[विशेष काण्डेत्वपटत्वयोः साक्षात् प्रतियोगितावच्छेदकत्वमन्तरेण प्रतियोगिविशेषणतया भानासम्भवस्तुल्य एवेत्याहुः ।
ज्ञानशक्तिवादिनस्तु- चन्द्रत्वसूर्यत्वोभयप्रकारकज्ञानमेव पुष्पवन्तपदशक्यम् - 'पुष्पवन्तपदमुभयप्रकारकज्ञाने शक्तम्' इत्याकारकशक्तिग्रहस्य तादृशज्ञानत्वमेव कार्यतावच्छेदकमितिव्युत्पत्तिमतः पुरुषस्य नैकैकबोधापत्तिः, अतादृशस्य च भवत्येव तादृशो बोधः।
न चैवमपि 'पुष्पवन्तपदं चन्द्रत्वप्रकारकज्ञाने शक्तम्' इत्यादिबोधस्य प्रमात्वात् 'शक्तिभ्रमं विना प्रत्येकशाब्दबोधानुदयः' इतिकथमुपपद्यत इति वाच्यम्, केवलचन्द्रत्वादिप्रकारकबोधे तत्तत्मकारकबोधत्वांशे शक्तिनिरूपकतावच्छेद
(प्रतियोगिवित्येवगत्वेन ) मानं न स्यादिति तुल्यो दोषः, यदि चात्र घटत्वपटत्वयोः प्रतियोगिताव
छेदकतावच्छेदकत्वेपि प्रतियोगिविशेषणतया ( प्रतियोगितावच्छेदकतया ) भानं न विरुद्धं तदा पुष्पवन्तपदस्यलेपि चन्द्रत्वसूर्यत्ययोः शक्यतावच्छेदकतावच्छेदकत्वेपि शक्यचन्द्रसूर्यविशेषणतया (शक्यतावच्छेदकतया ) भानं न विरुद्धमित्यर्थः । तथा च शक्यतावच्छेदकतावच्छेदकत्वेपि शक्य. तावच्छेदकत्वमस्त्येव- शक्यवृत्तित्वादिति सारः।" इत्याहुः " इत्यस्य पूर्वोक्तेन " मीमांसफानुयायिनः" इत्यनेनान्धयः ।।
पुन्हपात् केवलसूर्यस्वादिप्रकारकबोधापत्तिमाराङ्किता संप्रति ज्ञानशक्तिवादिसतेन समाधत्ते-ज्ञानशक्तीति, पदार्थज्ञाने पदानां शक्तिर्न तु पदार्थेषु जनके जन्यनिरूपितशक्तेक युक्तत्वात् पदैश्च पदार्थज्ञानस्यैव जायमानत्वादिति ज्ञानशक्तिवादिनामभिप्रायः । तादृशज्ञानत्वम्चन्द्रत्वसूर्यत्वोभयप्रकारकज्ञानत्वम् । नैकैकबोधापत्तिः केवलसूर्यत्वादिप्रकारकबोधस्य पुष्प. चन्तपदादापत्तिर्नास्तीत्यर्थः । अतादृशस्य-उक्तव्युत्पत्तिरहितस्य च पुरुषस्य। तादृशः केवलसूत्वादिप्रकारको बोधः पुष्पवन्तपदाद् भवत्येव । स्पष्टं सर्वम् ।
ननु 'पुष्पबन्तपदं चन्द्रत्वसूर्यत्वोमयप्रकारकज्ञाने शक्तम्' इत्याकारकशक्तिप्रहे जातेपि पुष्पबन्तपदस्योभयप्रकारकज्ञाने शक्तत्वे चन्द्रत्वप्रकारकज्ञाने शक्तत्वमपि यथार्थमेवेति 'पुष्पवन्तपदे चन्द्रत्वप्रकारकज्ञाने शक्तम्' इत्यादिबोधस्यापि प्रमात्वात् तादृशबोधबलादभ्रान्तस्यापि पुष्पवातपदात् प्रत्येकशाब्दबोधः केवलचन्द्रत्त्रादिप्रकारकबोधः स्यादेवेति 'शक्तिभ्रमं विना प्रत्येकशाब्दबोधो न भवति' इति कथमुपपद्यतेत्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह-केवळेति, केवलचन्द्रत्यादिप्रकारकबोधे केवलचन्द्रत्वादिप्रकारकबोधं प्रति तत्तत्प्रकारकबोधत्वांशे चन्द्रत्वादिप्रकारकबोधत्वे यः शक्तिनिरूपकतावच्छेदकतापर्याप्तिग्रहस्तस्य हेतुवं स्वीक्रियते यथा च तर्कमते शक्तिनिरूपकः पदार्थस्तथा ज्ञानशक्तिवादिना मते शक्तिनिरूपको बोधः ( ज्ञानम् ) एवयेन पदेन यादृशबोधो भवति तस्य पदस्य तादृशबोधे शक्तहणात्, तथा च बोधे बोधत्वमपि