________________
(८१)
पुष्पवन्तपदम्.]
शक्तिवादः। कतापर्याप्तिग्रहस्य हेतुत्वात्, प्रकृते तूभयप्रकारकबोधत्वांशे शक्तिनिरूपकतावच्छेदकत्वपर्याप्त्यभ्युपगमात्. तादृशस्य 'चन्द्रत्वंप्रकारकज्ञाने शक्तम्' इत्यादिज्ञानस्य भ्रमत्वनियमादित्याहुः।
ईश्वरेच्छारूपस्य संकेतस्य शक्तित्वमङ्गीकर्तृसिद्धान्तिपक्षे- 'पुष्पवन्तपदाचन्द्रत्वावच्छिन्नविषयकसूर्यत्वावच्छिन्नविषयकशाब्दबोधो भवतु' इत्याकारक एव तादृशपदे भगवत्संकेतः केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधश्च न तत्पदजन्यत्वेन तद्विषय इति तादृशपदान्न तथाविधो बोधः ।
न च ताशपदजन्यत्वेन केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधस्य संकेताविषयत्वेपि चन्द्रत्वाद्यवच्छिन्नविषयकबोधविषयकत्वेन संकेतविषयकग्रहस्य चन्द्र
वर्तते शक्तिनिरूपकतापि वर्तत इति बोधत्वे शक्तिनिरूपकतावच्छेदकता प्राप्ता तत्र केवलचन्द्रत्वप्रकारबोधस्य चन्द्रपदनिष्टशक्तिनिरूपकतावच्छेदकताया एव पर्याप्तिरस्ति न तु फुपयन्तपदनिष्ठशक्तिनिरूपकतावच्छेदकताया अपीति केवलचन्द्रत्यप्रकारकबोधश्चन्द्रपदादेव संभवति न तु पुष्पवन्तपदादपि, प्रकृते-पुष्पवन्तपदस्थले तूमयप्रकारकबोधत्वांशे-चन्द्रत्वसूर्यत्वोभयप्रकारकबोधावे एव पुष्पचन्तपनिष्ठशक्तिनिरूपकतावच्छेदकतापर्याप्तिरभ्युपगम्यते न तु केवलचन्द्रत्वादिप्रकारकबोधत्वपीति न घुष्पवन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिः यादृशबोधत्वे उक्तपर्याप्तिग्रहस्तादृशबोधस्यैव तेन पदेन स्वीकारादिति । तादृशस्य-उक्तरूपस्य 'पुष्पवन्तपदं चन्द्रावप्रकारकज्ञाने शक्तम्' इत्यादिज्ञानस्य भ्रमत्यनियमादेतादृशभ्रमात्मकशक्तिज्ञानाच्च भ्रमात्मक एवं केवलचन्द्रवप्रकारकबोधः संभवति न प्रमात्मक इत्यर्थः । “इत्याहुः” इत्यस्योक्तेन "ज्ञानशक्तिवादिनः' इत्यनेनान्वयः।
पुष्पबन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिमाशङ्कितां संप्रति तर्कमतेन समाधत्ते-- ईश्वरेति । तादृशपदे-पुष्पवन्तपदे विषयत्वं सप्तम्यर्थः । तत्पदजन्यत्वेन पुष्पवन्तपदजन्यत्वेन रूपेण । तद्विषयः पुष्पवन्तपदविषयकभगवत्संकेतविषयः । तादृशपदात्-पुष्पवन्तपदात् । तथाविधः केवलचन्द्रत्वाद्यवच्छिन्नविषयको बोधः । चन्द्रत्वसूर्यत्वोभयप्रकारकस्यैव बोधस्य पुष्पचन्तपदजन्यत्वेन भगवन्संकेतविषयत्वात् पुष्श्वन्तपदादुमयप्रकारक एव बोधो जायते न तु केवलचन्द्रत्वादिप्रकारकोपि तस्य पुष्पवन्तपदजन्यत्वेन भगवत्संकेताऽविषयत्वादिति सारः ।..
ननु केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधस्य तादृशपदजन्यत्वेन=पुष्पबन्तपदजन्यावेन रूपेण भगवत्संकेताऽविषयत्वेपि सूर्यत्वाद्यवच्छिन्नविषयको यो बोधस्तादृशबोधविषयको यः 'पुष्पयन्तपदात् सूर्यत्वाद्यवच्छिन्नविषयको बोधो भवतु ' इत्याकारको भगवत्संकेतस्तादृशसंकेतग्रहादिघटिता या सूर्यत्वाद्यवच्छिन्नविषयकबोधसामग्री तस्यामसत्यामपि चन्द्रत्वादिप्रकारकबोधजनकस्य चन्द्रत्वाद्यवच्छिन्नविषयको यो बोधस्तादृशबोधविषयको य; 'पुष्पधन्तपदाच्चन्द्रत्वाद्यवच्छिन्नवि