________________
(८२)
सादर्श:
[विशेषकाण्डेत्वादिमकारकबोधजनकस्य सूर्यत्वाद्यवच्छिन्नविषयकबोधविषयकत्वेन संकेतग्रहादिघटितसूर्यत्वाद्याच्छिन्नविषयकबोधसामग्र्यामसत्यामपि संभवेन तद्भलादभ्रान्तस्य केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधो दुर्वार एवेतिवाच्यम् , तत्पदजन्यकेवलचन्द्रत्वादिप्रकारकबोधे. तत्पदजन्य केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वपर्याप्तविषयतावच्छेदकताकत्वप्रकारकसंकेतविषयकज्ञानस्य हेतुत्वात. पुष्पदन्तपदजन्यत्वघटितभगवत्संकेतविषयतावच्छेदकशरीरे च सूर्यत्वावच्छिन्नविषयकत्वचन्द्रत्वावच्छिन्नविषयकत्वयोईयोरेकत्र निवेशात. तत्पदजन्यप्रत्येकधर्मावच्छिन्न:
पयको बोधो भवतु' इत्याकारकभगवत्संकेतस्तादृशसंकेतविषयकज्ञानस्य संभवेन तद्बलात-रतादृशसंकेतविषयकज्ञानबलादनान्तस्यापि केवलचन्द्रत्वाद्यवच्छिन्नविषयको बोधः पुष्पवन्तपदाद् दुर्वार एवेत्याशङ्कयाह-- न चेति । यदा हि चन्द्र वसूर्यत्वोभयप्रकारकबोधः पुष्पबन्तपदजन्यत्वेन भगवत्संकेतविषयस्तदा चन्द्रत्वादिप्रकारकबोधोपि सुतरां पुष्पवन्तपदजन्यत्वेन भगवत्संकेतविषय एव तादृशसंकेतस्य ज्ञानं च न भ्रम इति तादृशसंकेतज्ञानबलात् पुष्पबन्तपदादभ्रान्तस्यापि केवलचन्द्रत्वादिप्रकारकबोधः स्यादेवेति सारः ।
परिहारहेतुमाह- तत्पदजन्येति, यथा- तत्पदजन्यकेवलचन्द्रत्वादिप्रकारकबोधे चन्द्रादिपदजन्यकेवलचन्द्रत्वादिप्रकारकबोधं प्रति चन्द्रपदजन्यो यः केवलचन्द्रवाद्यवच्छिन्नविषयको बोधस्तादृशबोधनिष्ठबोधत्वे पर्याप्ता या विषयतावच्छेदकता भागवर संकेतविषयतावच्छेदकता तादृशविषयतावच्छेदकताकत्वप्रकारकं यत् संकेतविषयकं ज्ञानं तस्य हेतुत्वं स्वीक्रियते अत्र ' चन्द्रपदाचन्द्रत्वावच्छिन्नविषयकबोधो भवतु ' इत्याकारको भगवत्संकेत एतादृशसंकेते बोध एव जन्यत्वेन विषय इति बोधे संकेतविषयता प्राप्ता बोधनिष्ठबोधत्वं च संकेतविषयता बच्छेदकता प्राप्ता तादृशसंकेतविषयतावच्छेदकतायाः पर्याप्तिश्चन्द्रत्वावच्छिन्नविषयकबोधत्वेस्तिउक्तसंकेते केवलचन्द्रत्वावच्छिन्नविषयकबोधस्यैव विषयत्वात् केवलचन्द्रयावच्छिन्नविषयकबोधत्वस्यैकस्यैव संकेतविषयतावच्छेदकत्वात्. तादृशबोधत्वपर्याप्तसंकेतविषयताक्च्छेदकताक एव संकेतो ग्राह इति तादृशसंकेते तादृशबोधत्वपर्याप्तसंकेतविषयतावच्छेदकताकत्वमस्तीति तादृशविषयतावच्छेदक। ताकत्वं संकेतविषयकशाने प्रकारतया भासते तथा चैतादृशकार्यकारणभावस्वीकारेण केवळचन्द्रत्वादिप्रकारकबोधश्चन्द्रादिपदादेव संभवति न तु पुष्यवन्तपदादपि पुष्पवन्तपदस्थले चन्द्रत्वसूर्यत्वो भयप्रकारकबोधस्वे एव भगवत्संकेतविषयतावच्छेदकतापर्याप्तेः संभवादित्यर्थः । पुष्पवन्तपरस्या विशेषमाह- पुष्पबन्तपदेति, भगवत्संकेतविषयतावच्छेदकं बोधत्वमित्युक्तं बोधत्वशरीरे च बोधोपि प्रविष्ट एच स च बोधः पुष्पवन्तपदजन्य एवेति बोधे पुष्पवन्तपदजन्यत्वमस्तीति पुष्पवन्तपदजन्यत्वघटितं भगवत्संकेतविषयतावच्छेदकं बोधत्वं तच्छरीरे-तद्घटकबोधे सूर्यत्वाव च्छिन्नविषयक त्वचन्द्रत्वावच्छिन्नविषयकत्वयोईयोरेव निवेशोस्ति तथा च पुष्पवन्तपदस्थले चन्द्र